संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:| विभावना अलंकारः| लक्षण ३ विभावना अलंकारः लक्षण १ लक्षण २ लक्षण २ लक्षण ३ लक्षण ४ विभावना अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर प्रकृतकार्यविरुद्धकार्यस्य कारणात् । स्वकार्याद्वा प्रकृतकार्यस्योत्पत्तिरिति एतदर्थकमेव ह्यकारणादित्यादि ।इयं च विभावना द्विविधा-उक्तनिमित्तानुक्तनिमित्ता च । तत्रा-नुक्तनिमित्ता ‘ विनैव शस्त्रं ’ इत्यत्र दर्शिता । विलासानां मन्मथपीडा-जनकानामनुपात्तत्वात् । उक्तनिमित्ता यथा-‘ यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनाया: । दहनं विनैव तदवधि यूनां ह्लदयानि दह्यन्ते ॥ ’अत्र हि उपात्ते यौवने दाहहेतुत्वं पर्यवस्यति । यत्तु--“-‘ असंभृतं मण्डनमड्रयष्टेरनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साऽथ वय: प्रपेदे ॥ ’अत्र द्वितीयचरणे आसवाभावेऽपि मदस्य प्रतिपादनाद्यौवनस्य चोक्त-त्वादुक्तनिमित्ता विभावना । न तु प्रथमतृतीयचरणयो:, संभरणपुष्पयो-र्मण्डनमस्त्रं च प्रत्यहेतुत्वात् । ”इत्यलंकारसर्वस्वकारादिभिरुक्तं तत्र विचार्यते-विरोधभूला हि विभावनाद्यलंकारा: । विरोधस्यैव विद्युत्प्रभावदापा-तत: प्रतिभासमान्य चमत्कारबीजत्वात् । अत्र ह्यासभिन्नविशिष्टं मदकारणत्वं यौवनस्योक्तम् । एवं च यौवनस्य मदकारणताया: शब्देनै-वोपात्तत्वात् यागे व्रीहियवयोरिव मदे यौवनासवयो: परस्परनिरपेक्ष-कारणत्वावगतेर्विरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव नास्ति । कुत:पुनरुक्तनिमित्ता विभावना ? । न चासवस्य प्रसिद्धमदकारणत्वात्तेन विना मदोत्पत्तिवर्णने विरोधप्रतिभा भवत्येवेति वाच्यम् । भवेत्सा, यदि यौवनस्य मदकारणत्वं कविना साक्षान्न प्रतिपाद्येत । प्रतिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्ततया कविना प्रतिपादितमिदमपि प्रसिद्धकारण-मिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोध-प्रतिभानं भवितुमर्हति । तस्मादत्र प्रथमतृतीयचरणयोर्न्यूनाभेदरूपकम् । द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेक: । अस्मन्निर्मिते तूदाहरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुतत्वाद्दहन-मन्तरेण दाहोत्पत्तिवर्णने विरोध अपातत: प्रतीयत एवेति सह्लदयैरा-कलनीयम् ।अथ ‘ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ’ इत्यत्र विभाव-नापत्ति: ? , नन्वस्तु , किं नश्छिन्नमिति चेत् । आलंकारिकैरत्र तस्या अन-ड्रीकारात् । ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वेन कारणा-भावो विशेषणीय: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP