परिकर अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


विशेषणानां साभिप्रायत्वं परिकर: ॥
तच्च प्रकृतार्थोपपादकचमत्कारिव्यड्रयकत्वम्‍ । अत एवास्य हेत्वलं-काराद्वैलक्षण्यम्‍, तत्र व्यड्रयस्यानावश्यकत्वात्‍ । उपपादकता चोपस्का-रक-निष्पादकसाधारणी । व्यड्रयस्य गुणत्वाच्च न ध्वनित्वं व्यपदिश्यते ।
यथा-
‘ मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणै: स्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतग्रावभि: । वीचिक्षालितकालियाहितपदे स्वर्लोककल्लेलिनि त्वं तापं तिरयाधुना भवभयव्यालावलीढात्मन: ॥ ’
अत्रात्मनो भागीरथीकर्तृकस्य भवव्यालदंशजनिततापदूरीकरणस्या-शंसनं हि वाक्यार्थ: । तत्र भगवत्या भवतापनाशिकात्वस्य सुप्रसिद्धत्वात्परि-णामेन भवरूपविषयतादात्म्यापत्त्या व्यालजनितसंतापनाशिकात्वं ताव-त्सूपपादमेव । ‘ स्थास्नुजड्रमसंभूतविषहन्त्र्यै नमो नम: इत्याद्यागमबलाच्च विषयतादात्म्यं विनापि शुद्धव्यालजनितसंतापनाशिकात्वमपि स्वभाव-
सिद्धमेव । एवं वाच्यार्थस्य सत्यामपि निष्पत्तौ सौन्दर्यविशेषाधानाय साकूतं विशेषणं वीचिक्षालितेत्यादि । अत्र नामान्तरस्य सत्त्वेऽपि कालिया-हितशब्दोपादानसामर्थ्याद्भगवतश्चरणे फणागणनृत्यनि:सारीकृतकालिये लोकोत्तरविषहरणशक्तिरुत्पत्तिसिद्धैवासीत्‍ । सा च तयोर्वीचिभि: क्षालना-द्नड्रायां स्वाश्रयरेणुद्वारा संक्रान्तेति गम्यते । न च शक्ते: पूर्वमेव क्षालनात्कथं चरणेनार्वाक्कालियस्य विषहरणं शक्तिरहितेन संभवतीति वाच्यम्‍ । क्षालितावशिष्टा लेशरूपा शक्तिश्चरणे काचित्स्थितासीत्‍ यया
संप्रति कालियस्य विषमहारीत्यप्याकूतान्तर्गतमेवेति नानुपपत्ति: । एवं हि वाच्योपस्कारकतयात्र गुणीभाव:, न वाच्यसिध्द्यड्रतया ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP