विनोक्ति अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ विनोक्ति:-
विनार्थसंबन्ध एव विनोक्ति: ॥
ह्लद्यत्वं चानुवर्तते । तच्च विनाकृतस्य वस्तुनो रमणीयत्वारमणीयत्वा-भ्यां भवति । अरमणीयत्वे यथा-
‘ संपदा संपरिष्वक्तो विद्यया चानवद्यया । नरो न शोभते लोके हरिभक्तिरसं विना ॥ ’
यथा वा-
‘ वदनं विना सुकवितां सदनं साध्वीं विना वनिताम्‍ । राज्यं च विना धनितां न नितान्तं भवति कमनीयम्‍ ॥ ’
रमणीयत्वे यथा-
पड्कैर्विना सरो भाति सद: खलजनौर्विना । कटुवर्णैर्विना काव्यं मानसं विषयैर्विना ॥’
पूर्वा तु केवला, इयं तु दीपकानुकूला ।
मिश्रिता यथा-
‘ रागं विना विराजन्ते मुनयो मणयस्तु न । कौटिल्येन विना भाति नरो न कबरीभर: ॥ ’
अत्र प्रतिवस्तूपमानुकूला ।
‘ त्रासैर्विना विराजन्ते शूरा: सन्मणयो यथा । न दानेन विना भान्ति नृपा लोके द्विपा इव ॥ ’
अत्र श्लेषमूलोपमानुकूला ।
‘ यथा तालं विना रागो यथा मानं विना नृप: । यथा दानं विना हस्ती तथा ज्ञानं विना यति: ॥ ’
पूर्व क्रियागुणादिसंबन्ध आवश्यक: इह तूपमामाहात्मादवगत: स इति न तथा ।
इयं च न केवलं विनाशब्दस्य सत्त्व एव भवति, अपि तु विनाशब्दा-र्थवाचकमात्रस्य । तेन नञ्‍-निर्‍-वि-अन्तरेण-ऋते-रहित-विकल इत्यादिप्रयोगे इयमेव ।
‘ निर्गुण: शोभते नैव विपुलाडम्बरोऽपि ना । आपातरम्यपुष्पश्रीशोभित: शाल्मीलर्यथा ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP