संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|सहोक्ति अलंकारः| लक्षण १ सहोक्ति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ सहोक्ति अलंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर अथ सहोक्ति:-गुणप्रधानभावावच्छिन्नसहार्थसंबन्ध: सहोक्ति: ॥ह्लद्यत्वं चालंकारसामान्यलक्षणागतं सकलालंकारसाधारणमेवेत्यसकृ-दुक्तम् । तच्चात्र कार्यकारणपौर्वापर्यविपर्ययात्मिकया श्लेषभित्तिकाभदाध्यव-सानात्मिकया केवलाभेदाध्यवसानात्मिकया चातिशयोक्त्याऽनुप्राणने भवतीति वदन्ति ।‘ अनुकूलभावमथवा परा ड्मुखत्वं सहैव नरलोके । अ न्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभौ वहत: ॥ ’इत्यादावतिप्रसड्रवारणायावच्छिन्नान्तम् ।उदाहरणम्-‘ केशैर्वधूनामथ सर्वकोषै: प्राणैश्च साकं प्रतिभूपतीनाम् । त्वया रणे निष्करुणेन राजंश्चापस्य जीवा चकृषे जवेन ॥ ’अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्रा-णित: सहभाव: , निष्करुणत्वेन च पौर्वापर्यविपर्यय: ।यथा वा-‘ भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कुधाविष्ट: । सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥ ’पूर्व तु कर्मण: सहोक्ति:, इह कर्तुरिति भेद: ।‘ त्वयि कुपिते रिपुमण्डलखण्डनपाण्डित्यसंपदुद्दण्डे । गिरिगहनेऽरिवधूनां दिवसै: सह लोचनानि वर्षन्ति ॥ ’अत्र वर्षण- वर्षवदाचरणयो: श्लेषेणाभेदाध्यवसिति: ।यथा वा-‘ बहु मन्यामहे राजन्न वयं भवत: कृतिम् । विपद्भि: सह दीयन्ते संपदो भवता यत: ॥ ’पूर्वा कर्तृसहोक्ति: , इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता ।‘ पद्मपत्रैर्नृणां नेत्रै: सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितु: करा: ॥ ’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP