प्रतिवस्तूपमा अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथ प्रतिवस्तूपमा-

तत्र तावत्सादृश्यस्य यत्र चमत्कारिता तत्रोपमेत्युक्तम्‍ । तस्यां च साधा-रणधर्मस्य सर्वेऽपि प्रकारा यथासंभवं निरूपिता: । सादृश्योपस्कृतस्य
वस्त्वन्तरस्य चमत्कारितायां भेदाभेदान्यतरप्रधाना अन्येऽलंकाराश्च । तेष्वपि साधारणधर्माणां यथावसरं यथासंभवं च स्थिति: प्रदर्शितैव । इदानीं वस्तुप्रतिवस्तुभावापन्नसाधारणधर्मोत्थापिता वाक्यार्थगता प्रतिवस्तूपमा निरूप्यते । न चास्या वाक्यार्थगतत्वेनैवोपमातो भेद इति भ्रमितव्यम्‍ । ‘ दि वि भाति यथा भानुस्तथा त्वं भ्राजसे भुवि ’ इत्यादौ वाक्यार्थेऽप्युपमाया:
संभवात्‍ । अत एव भिन्नशब्दोपात्तैकधर्मकत्वेनापि न वैलक्षण्यं वक्तुं शक्यम्‍ । प्रकृते भातिभ्राजतिभ्यां धर्मस्यैकस्यैव प्रतिपत्ते: । तस्माल्लक्षणा-नुसारेणालंकारान्तरेभ्यो वैलक्षण्यमम्या बोध्यम्‍ ।
अथ किमस्या लक्षणम्‍ -‘ वाक्यार्थगतोपमात्वम्‍’ इति चेत्‍ , प्रागुक्त-वाक्यार्थोपमायामतिव्याप्ते: । न चार्थत्वेन तद्विशेषणीयमिति वाच्यम्‍ । दृष्टान्तालंकारे तथाप्यतिप्रसड्रात्‍ । वस्तुप्रतिवस्तुभावापन्नसाधारणधर्म-कत्वेनापि तद्विशेषणीयमिति चेत्‍ । तथापि
‘ तावक्तोकिल विरसान्यापय दिवसान्वनान्तरे निवसन्‍  । यावन्मिलदलिमाल: कोऽपि रसाल: समुल्लसति ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP