उल्लेखालंकारः - लक्षण ४

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


शुद्धो यथा-

‘ दीनव्राते दयार्दा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना ।

लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्ति: ॥’

अत्र दीनव्रातादीनां विषयाणामनेकत्वाच्चित्तवृत्तेरनेकविधत्वम्‍ । राज-विषयकरतिभावोपस्कारकोऽयमुल्लेख: । यद्यपि चित्तवृत्तिव्यक्तीनामत्रैक्यं नास्ति, तथापि तदीयचित्तवृत्तित्वेन सामान्येन तासामेकत्वं विवक्षितम्‍ ।

यथा वा-

‘ कातरा: परदु:खेषु निजदु:खेष्वकातरा: । अर्थेष्वलोभा यशसि सलोभा: सन्ति साधव: ॥’

अत्रपि साधव: सन्तीत्यनेन भृता अपि न भृतास्ते, इतरे पुनरमृता अपि मृता एवेत्यर्थामिव्यक्तिद्वारा व्यज्यमाने साधूत्कर्षविशेषे उपस्कार-कोऽयम्‍ ।

यथा वा-

‘ तुषारास्तापसव्राते तामसेषु च तापिन: । दृगन्तास्ताडकाशत्रोर्भूयासुर्मम भूतये ॥’

पूर्वपद्ययोर्विषयानेकत्वप्रयुक्तम्‍ , इह त्वाश्रयानेकत्वप्रयुक्तमनेकविधत्वं दृगन्तानाम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP