संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|स्मरणालंकार:| लक्षण ५ स्मरणालंकार: लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ स्मरणालंकार: - लक्षण ५ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ५ Translation - भाषांतर यथा-‘ सन्त्येवास्मिञ्जगति बहव: पक्षिणो रम्यरूपा-स्तेषां मध्ये मम तु महती वासना चातकेषु । यैरध्यक्षैरथ निजसखं नीरदं स्मारयद्भि:स्मृत्यारूढं भवति किमपि ब्रह्म कृष्णाभिधानम् ॥’अत्र च चातकदर्शनादेकसंबन्धिज्ञानादुत्पन्नेनापरसंबन्धिनो जलध-रस्य भगवत्सदृशस्य स्मरणेन जनितं भगवत: स्मरणं भगवद्विषयरति-भावाड्रम् । यदि च ‘ सदृशानुभवात् ’ इत्यपहाय ‘ सदृशज्ञानात् ’ इति लक्षणे निवेश्यते तदा । भवत्यस्यापि संग्रह इति दिक् ।अथास्य ध्वनि: ।यथा-‘ इदं लताभि: स्तबकानताभिर्मनोहरं हन्त वनान्तरालम् । सदैव सेव्यं स्तनभारवत्यो न चेद्युवत्यो ह्लदयं हरेयु: ॥’अत्र स्तबकानताभिर्लताभि: स्तनभारवतीनां युवतीनां स्मरणमलंकार्य-स्यान्यस्याभावादनुपसर्जनम्, स्तनस्तबकरूपस्य बिमप्रतिबिम्बभावमाप-न्नस्य साधारणधर्मस्य वाच्यत्वेऽपि तत्प्रयोजितसादृश्यमूलकस्य स्वस्य शब्दवाच्यत्वविरहाव्द्यड्रयं च । युवत्य इति च ‘ सर्वतोऽक्तिन्नर्थात् ’इति डीषि साधु: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP