संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|उदाहरणालंकारः| लक्षण १ उदाहरणालंकारः लक्षण १ लक्षण २ उदाहरणालंकारः - लक्षण १ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण १ Translation - भाषांतर सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् ॥अर्थान्तरन्यासवारणायोच्यमान इति । वचनं च इव यथा-निदर्शन-दृष्टान्तादिशब्दै: काव्येषु स्फुटम् । न च इव-यथाशब्दयो: सादृश्यवचन-योरवयवावयविभावे । विशेषसामान्यात्मके नास्ति वृत्तिरिति वाच्यम् । लक्षणाया: साम्राज्यात् । अन्यथा ह्मुत्प्रेक्षाबोधकतापि दुर्घटा स्यात् । उदाहरणम् -‘ अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराज्ञो गन्धेनोग्रेण लशुन इव ॥’न चात्र पदार्थलशुनयोरुपमा शक्या वक्तुम् । तयो: सामान्यविशेषभा-वेन सादृश्यस्यानुल्लासात् । तथात्वे तु इवादिशब्दानामिव सदृशादिशब्दा-नामप्यलंकारेऽस्मिन्प्रयोग: स्यात् ।यथा वा-‘ अतिमात्रबलेषु चापलं विदधान: कुमतिर्विनश्यति । त्रिपुरद्विषि वीरतां वहन्नवलिप्त: कुसुमायुधो यथा ॥’अत्र त्रिपुरद्विड्वीरते अतिमात्रबलचापलयोर्विशेषौ । अवलेपकुसुमा-युधौ च कुमतिरित्यत्र गुणप्रधानयो: । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP