समालंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


सर्वथैवोपमानिषेधोऽसमाख्योऽलंकार: ॥

अयं चानन्वये व्यड्रयोऽपि तच्चमत्कारानुगुणतया रूपकदीपकादाबुप-मेव न पृथगलंकारव्यपदेशं भजते । वाच्यतायां तु स्वातन्त्रेण चमत्का-रितया पृथग्व्यपदेशभाक्‍ ।

यथा-
‘ भूमीनाथ शहाबदीन भवतस्तुल्यो गुणानां गणै-रेतद्‍भूतभवप्रपञ्चविषये नास्तीति किं ब्रूमहे । धाता नूतनकारणैर्यदि पुन: सृष्टिं नवां भावये-न्न स्यादेव तथापि तावकतुलालेशं दधानो नर: ॥’

यथा वा-
‘ भुवनत्रितयेऽपि मानवै: परिपूर्णे विबुधैश्व दानवै: । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलापदम्‍ ॥’
राजस्तुत्युत्कर्षकत्वादत्रासमालंकार : । आत्यन्तिक: क्काचित्कश्च सदृश-निषेधोऽसमोपमानलुप्तयोर्विषय: । सर्वथैवोपमाननिषेधेन सादृश्यस्याप्रति-ष्ठानान्नोपमागन्धोऽपि ।

यत्तु-

“-‘ ढुण्ढुलन्तो मरीहसि कण्टककलिआइं केअइवणाइं । मालइकुसुमसरिच्छं भमर भमंतो न पावहिसि ॥ ’ इति "
==
नेयमुपमानलुप्तोपमा, तस्या: संभवदुपमानानुपादानविषयत्वात्‍ । अपि त्वसमालंकार:”
इति स्त्नाकरेणोक्तम्‍, तदसत्‍ । मालतीकुसुमसदृशं ध्रमर भ्रमन्नपि न प्राप्स्यसीत्युक्त्या वर्ततां नाम तत्सदृशं कापि, त्वया तु दुष्प्राप-मेवेति प्रत्ययादात्यन्तिकोपमाननिषेधाभावादुपमानलुप्तोपमैवेयं भवितुम-र्हति नासमालंकार: । अन्यथा मालतीकुसुमसदृशं नास्तीत्येव ब्रूयाद्‍, न तु-प्राप्स्यसीति । अथासमालंकारष्वननेनैव चमत्कारोपपत्तेरनन्वयस्य पृथग-लंकारता कथमिति चेत्‍, सत्यम्‍ । दीपकादेरप्युपमाभिव्यक्त्यैव चमत्कारो-पपत्तौ कथं नाम पृथगलंकारत्वमिति तुल्यम्‍ । न च दीपकादाबुपमाया व्यड्रयत्वेऽपि गुणीभावात्प्रकृते तु स्वसादृश्यस्य स्वस्मिन्नतितमां तिरस्कारे-णासमालंकारस्यैव मुख्यतया ध्वननाद्वैषम्यमिति वाच्यम्‍ । यथा हि दीपक-

समासोक्त्यादौ गुणीभूतव्यड्रयसत्त्वेऽप्यलंकारत्वं न हीयते एवमनन्वये प्रधानव्यड्रयसत्त्वे‍ऽपीति न किंचिद्विरुद्धम्‍ । अनन्वयशरीरस्य स्वसादृश्य-मात्रस्य वाच्यत्वेन वाच्यालंकारव्यपदेशो‍ऽपि सुस्थ एव । दीपकाद्यलंकार-काव्येगुणीभूतस्य व्यड्रयस्य सत्त्वादस्तु नाम गुणीभूतव्यड्रयत्वम्‍ । ध्वनित्वं पुनर्न क्काप्यलंकृतिकाव्ये दृष्टमिति चेत्‍, पर्यायोक्तसादृश्यमूलाप्रस्तुतप्रशंसा-दिकाव्ये ध्वनित्वस्य स्फुटत्वात्‍  । प्राञ्चस्तु नेदमलंकारान्तरमित्यप्याहु: ।

अयं चासमालंकारो व्यज्यमानो यथा-
‘ मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्तुधं मा कृथा: । चराचरमिदं जगज्जनयतो विधेर्मानसे पदं न हि दधेतरां तव खलु द्वितीयो नर: ॥’

अत्र य एतावन्तं समयं विधातुर्मानसं नाधिरूढ: सो‍ऽग्रेऽपि माना-भावान्नारोहेत्‍ अत: सर्वथैव नास्तीति गम्यते । एवं च व्यज्यमानोऽप्य-समो‌ऽत्र प्रधानीभूतराजस्तुत्युक्तर्षकतयालंकार एव ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP