मराठी मुख्य सूची|स्तोत्रे|नदी स्तोत्रे| कावेरी प्रार्थना नदी स्तोत्रे कावेरी प्रार्थना गंगालहरी गङ्गास्तवः गङ्गास्तुतिः श्री गङ्गास्तोत्र यमुनास्तोत्ररत्नम् कावेरी प्रार्थना भारतात नद्यांना वैदिक काळापासून जीवनदायिनी मानले आहे, आणि त्यांना देवी देवतांच्या रूपात मानून त्यांची पूजा केली जाते. Tags : RiverStotraनदीस्तोत्र कावेरी प्रार्थना Translation - भाषांतर मरुद्धृते महाभागे महादेवि मनोहरे । सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि ॥१॥सर्वपापक्षयकरे मम पापं विनाशय । कवेरकन्ये कावेरि समुद्रमहिषिप्रिये ॥२॥देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि । सिन्धुवर्ये दयासिन्धो मामुद्धर दयांबुधे ॥३॥स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा । आयुष्यं देहि चारोग्यं ऋणान्मुक्तं कुरुष्व माम् ॥४॥तासां च सरितां मध्ये सह्यकन्याघनाशिनि । कावेरि लोकविख्याता जनतापनिवारिणि ॥५॥इति ब्रह्माण्ड पुराणे कावेरी प्रार्थना ॥यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥अधितिष्ठन्ति भूतानि उपादानकारणत्वेन ब्रह्मेति अधिष्ठानम् ।`मत्स्थानि सर्वभूतनि' ( गीता ९।४) इति भगवद्वचनात् ।यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमग् सचता परुष्णिया ।असिक्निया मरुद्धृधे वितस्तया । अऽजीकीये शृणुह्या सुषोमया ॥कामकोटिपुरींकाञ्चीं कावेरीं च सरिद्वराम् । क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महापुण्या प्रतीची च महानदी ॥( भविष्यन्ति नारायणपरायणाः ।) ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् । तत्र द्रक्ष्यथ कावेरीं विहृतां अप्सरोगणैः ॥अहं दक्षिणगङ्गेति विश्रुता वेदमूर्धनि । इमां मधुरपानीयां दक्षिणापथजाह्नवीम् ॥कावेरि त्रिजन्मानः कावेरि सलिलाप्लुता । कावेरि वाताद्यै स्पृष्ठा यान्ति हरेःपदम् ॥ककारः कलुषं हन्ति, वेकारो वाञ्छितप्रदः । रीकारो मोक्षदो नृणां कावेरीत्यवधारय ॥वेलातीत श्रुतिपरिमलं वेधसांमौलि सेव्यं प्रादुर्भूतं कनकसरितस्सैकते हंसजुष्टे ।लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः पादांभोज प्रतिपलतु मे भावनादीर्घिकायाम् ॥महारहस्यं किञ्चात्र शृणुष्वात्यद्भुतं शुभे । ब्रवीमि दिव्यदृष्ट्याद्य सर्वशास्त्रेषु निश्चितम् ॥महापातकिनां पापं मोचयन्त्यः क्षणेन हि । गङ्गादिका महानद्यस्तीर्थानि च महान्ति च ॥मलीकृताश्च तत्पापैः अशक्तास्तद्विमोचने । शोचयन्त्यः परं देवं यान्ति लोकपितामहम् ॥तासां विशुद्धये ब्रह्मा सभायां मुनिभिः सह । सम्यग्विचार्य शास्त्रेषु वेदेषु च पुनः पुनः ॥हरिणा च ततः प्रोक्तं प्रायश्चित्तं विधास्यता । स्नास्यन्तु सह्यधात्र्यग्रे कावेर्यां तौलिसङ्गमे ॥षट्षष्टिकोटि तीर्थानि द्विसप्त-भुवनेषु च । तानि चायान्ति कावेर्यां स्वाघौघ-विनिवृत्तये ॥अहं तु वैखानस वालखिल्यैरन्यैः मुनीन्द्रैस्सनकादिभिश्च । सर्वत्र ते पुण्यतटे वसामि ॥विभूत्यै दाक्षिणत्यानां क्षेमाय विजयाय च । मया चैवाभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥अच्छ-स्वच्छ-लसद्-दुकूलवसनां पद्मासनाध्यायिनीं हस्त-न्यस्त-वराभयाब्ज-कलशां राकेन्दु-कोटि-प्रभाम् ।भास्वद्-भूषण-गन्ध-माल्य-रुचिरां चारु-प्रसन्नाननां श्रीगङ्गादि-समस्त-तीर्थ-निलयां ध्यायामि कावेरिकाम् ॥॥ॐ तत्सत् ॥ N/A References : N/A Last Updated : November 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP