मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|भक्तिरसायनम्| प्रथमोल्लासः भक्तिरसायनम् प्रथमोल्लासः द्वितीयोल्लासः तृतीयोल्लासः भक्तिरसायनम् - प्रथमोल्लासः भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र प्रथमोल्लासः Translation - भाषांतर मधुसूदनसरस्वती विरचितम् ॥नवरसमिलितं वा केवलं वा पुमर्थंपरममिह मुकुन्दे भक्तियोगं वदन्ति ।निरुपमसुखसंविद्रूपमस्पृष्ट दुःखंतमहमखिल तुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥१॥संसार रोगेण बलीयसा चिरंनिपीडितैस्तत्प्रशमेऽतिशिक्षितम् ।इदं भवद्भिर्बहुधा व्ययातिगंनिपीयतां भक्तिरसायनं बुधाः ॥२॥द्रुतस्य भगवद्धर्माद् धारावाहिकतां गता ।सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥३॥चित्तद्रव्यं हि जतुवत् स्वभावात् कठिनात्मकम् ।तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥४॥कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः ।तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत् ॥५॥द्रुतचित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना ।संस्कार वासना भाव भावना शब्दभागसौ ॥६॥शिथिलीभावमात्रं तु मनो गच्छत्यतापकैः ।न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥७॥द्रवतायां प्रविष्टं सद् यत् काठिन्यदशां गतम् ।चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥८॥स्थायीभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते ।व्यक्तश्च रसतामेति परानन्दतया पुनः ॥९॥भगवान् परमानन्दस्वरूपः स्वयमेव हि ।मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥१०॥कान्ताऽऽदि विषयेऽप्यस्ति कारणं सुखचिद्घनम् ।कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतः ॥११॥सदज्ञातञ्च तद्ब्रह्ममेयं कान्ताऽऽदि मानतः ।मायाऽऽवृति तिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥१२॥अतस् तदेव भावत्वं मनसि प्रतिपद्यते ।किञ्च न्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥१३॥इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता ।साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रितिपद्यते ॥१४॥तमो रजः सत्त्व गुणा मोहदुःखसुखात्मकाः ।तन्मयी प्रकृतिर्हेतुः, सर्वं कार्यञ् च तन्मयम् ॥१५॥त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते ।निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः ॥१६॥कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता ।तदलाभात् तथाऽन्येन मोहत्वमनुभूयते ॥१७॥एवं सति सुखाकारः प्रविष्टो मानसे यदा ।तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥१८॥परमाण्वेकरूपं तु चित्तं न विषयाकृति ।इत्यादि मतमन्येषामप्रमाण्यादुपेक्षितम् ॥१९॥गृह्णाति विषयाकारं मनो विषययोगतः ।इति वेदान्तिभिस्साङ्ख्यैरपि सम्यङ् निरूपितम् ॥२०॥मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा ।घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥२१॥व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् ।सर्वार्थ व्यञ्जकत्त्वाद्धीरर्थाकारा प्रदृश्यते ॥२२॥भगवत् पूज्यपादानामियमुक्तिः सयुक्तिका ।तथा वार्तिककारैरप्ययमर्थो निरूपितः ॥२३॥मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् ।मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ॥२४॥एवं एतादृशं वाक्यमुदाहार्यमनेकशः ।चित्तस्य विषयाकारग्राहकत्वोपपादने ॥२५॥अतो मांसमयी योषित् काचिदन्या मनोमयी ।मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥२६॥भार्या, स्नुषा, ननान्दा च, याता, मातेत्यनेकधा ।जामाता, श्वशुरः, पुत्रः, पितेत्यादि पुमानपि ॥२७॥बाह्य पिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः ।अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥२८॥एवं सामान्यतो भावस्वरूपमभिवर्णितम् ।विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥२९॥भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् ।यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥३०॥कठिना शिथिला वा धीर्न गृह्णाति न वास्यते ।उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु ॥३१॥काठिन्यं विषये कुर्याद्द्रवत्वं भगवत् पदे ।उपायैश् शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥३२॥उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः ।संक्षेपात् तान् अहं वक्ष्ये भूमिभेदविभागतः ॥३३॥प्रथमं महतां सेवा तद्दयापात्रता ततः ।श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥३४॥ततो रत्यङ्कुरोत्पत्तिस्स्वरूपाधिगतिस्ततः ।प्रेमवृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥३५॥भगवद्धर्मनिष्ठाऽतस्स्वस्मिन् तद्गुणशालिता ।प्रेम्णोऽथ परमाकाष्ठेत्युदिता भक्ति भूमिका ॥३६॥लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् ।सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥३७॥इति श्री परमहंस परिव्राजकाचार्य श्री मधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधन सहितभक्तिसामान्यनिरूपणं नाम प्रथमोल्लासस्समाप्तः ॥ N/A References : N/A Last Updated : January 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP