मराठी मुख्य सूची|स्तोत्रे|कृष्ण स्तोत्रे|श्रीकृष्णकर्णामृतं| तृतीयाश्वासः श्रीकृष्णकर्णामृतं प्रथमाश्वासः द्वितीयाश्वासः तृतीयाश्वासः श्रीकृष्णकर्णामृतं - तृतीयाश्वासः भगवान श्रीकृष्ण विष्णुचा आठवा अवतार आहे. श्रीकृष्णाचा अवतार पूर्ण अवतार समजतात.Lord Krishna is the eighth and the most popular incarnation of Lord Vishnu. Tags : godkrishnaprayerstotraकृष्णदेवतादेवीस्तोत्र तृतीयाश्वासः Translation - भाषांतर अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव । हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित- स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥१॥ राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् । आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥२॥ करिणामलभ्यगतिवैभवं भजे करुणावलम्बितकिशोरविग्रहम् । यमिनामनारतविहारि मानसे यमुनावनान्तरसिकं परं महः ॥३॥ अतन्त्रितत्रिजगदपि व्रजाङ्गनानियन्त्रितं विपुलविलोचनाज्ञया । निरन्तरं मम हृदये विज्जृम्भतां समन्ततः सरसतरं परं महः ॥४॥ कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं वृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् । मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥५॥ आमुक्तमानुषममुक्तनिजानुभाव- मारूढयौवनमगूढविदग्धलीलम् । आमृष्टयौवनमनष्टकिशोरभाव- माद्यं महः किमपि माद्यति मानसे मे ॥६॥ ते ते भावास्सकलजगदीलोभनीयप्रभावाः नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु । वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा- न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥७॥ सुकृतिभिरादृते सरसवेणुनिनादसुधा- रसलहरीविहारनिरवग्रहकर्णपुटे । व्रजवरसुन्दरीमुखसरोरुहसारसिके महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥८॥ तृष्णातुरे चेतसि जृम्भमाणं मुष्णन्मुहुर्मोहमहान्धकारम् । पुष्णातु नः पुण्यदयैकसिन्धोः कृष्णस्य कारुण्यकटाक्षकेलिः ॥९॥ निखिलागममौलिलालितं पदकमलं परमस्य तेजसः । व्रजभुवि बहुमन्महेतरां सरसकरीषविशेषरूषितम् ॥१०॥ उदारमृदुलस्मितव्यतिकराभिरामाननं मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम् । मदालसविलोचनव्रजवधूमुखास्वादितं कदा नु कमलेक्षणं कमपि बालमालोकये ॥११॥ व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी- कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् । सकृदपि परिपातुं ते वयं पारयामः कुवलयदलनीलं कान्तिपूरं कदा नु ॥१२॥ घोषयोषिदनुगीतयौवनं कोमलस्तनितवेणुनिस्स्वनम् । सारभूतमभिरामसंपदां धाम तामरसलोचनं भजे ॥१३॥ लीलया ललितयावलम्बितं मूलगेहमिव मूर्तिसंपदाम् । नीलनीरदविकासविभ्रमं बालमेव वयमाद्रियामहे ॥१४॥ वन्दे मुरारेश्चरणारविन्दद्वन्द्वं दयादर्शितशैशवस्य । वन्दारुवृन्दारकवृन्दमौलिमन्दारमालाविनिमर्दभीरु ॥१५॥ यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धूर्जटेः । यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर- स्तद्वृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥१६॥ अरुणाधरामृतविशेषितस्मितं वरुणालयानुगतवर्णवैभवम् । तरुणारविन्ददलदीर्घलोचनं करुणामयं कमपि बालमाश्रये ॥१७॥ लावण्यवीचीरचिताङ्गभूषां भूषापदारोपितपुण्यबर्हाम् । कारुण्यधारालकटाक्षमालां बालां भजे वल्लववंशलक्ष्मीम् ॥१८। मधुरैकरसं वपुर्विभोर्मथुरावीथिचरं भजामहे । नगरीमृगशाबलोचनानां नयनेन्दीवरवर्षवर्षितम् ॥१९॥ पर्याकुलेन नयनान्तविजृम्भितेन वक्त्रेण कोमलदरस्मितविभ्रमेण । मन्द्रेण मञ्जुलतरेण च जल्पितेन नन्दस्य हन्त तनयो हृदयं धुनोति ॥२०॥ कन्दर्पकण्डूलकटाक्षवन्दीरिन्दीवराक्षीरभिलाषमाणान् । मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान् ॥२लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक- प्रीते गीतिविभङ्गसङ्गरलसद्वेणुप्रणादामृते । राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥२२॥ शरणागतव्रजपञ्जरे शरणे शार्ङ्गधरस्य वैभवे । कृपया धृतगोपविग्रहे कियदन्यन्मृगयामहे वयम् ॥२३॥ जगत्त्रयैकान्तमनोज्ञभूमिचेतस्यजस्रं मम सन्निधत्ताम् । रामासमास्वादितसौकुमार्यं राधास्तनाभोगरसज्ञमोजः ॥२४॥ वयमेते विश्वसिमः करुणाकर कृष्ण किंवदन्तीम् । अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥२५॥ वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः । उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥२६॥ मधुरिमभरिते मनोभिरामे मृदुलतरस्मितमुद्रिताननेन्दौ । त्रिभुवननयनैकलोभनीये महसि वयं व्रजभाजि लालसाः स्मः ॥२७॥ मुखारविन्दे मकरन्दबिन्दुनिष्यन्दलीलामुरलीनिनादे । व्रजाङ्गनापाङ्गतरङ्गभृङ्गसंग्रामभूमौ तव लालसाः स्मः ॥२८॥ आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः । स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥२९॥ पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः । मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे- त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥३०॥ आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजमुद्वहन्ती । आलोक्यतां किमनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः ॥३१॥ अनन्यसाधारणकान्तिकान्तमाक्रान्तगोपीनयनारविन्दम् । पुंसः पुराणस्य नवं विलासं पुण्येन पूर्णेन विलोकयिष्ये ॥३२॥ साष्टाङ्गपातमभिवन्द्य समस्तभावैः सर्वान् सुरेन्द्रनिकरानिदमेव याचे । मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥३३॥ एषु प्रवाहेषु स एव मन्ये क्षणोऽपि गण्यः पुरुषायुषेषु । आस्वाद्यते यत्र कयापि भक्त्या नीलस्य बालस्य निजं चरित्रम् ॥३४॥ निसर्गसरसाधरं निजदयार्द्रदिव्येक्षणं मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् । रसज्ञहृदयास्पदं रमितवल्लवीलोचनं पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥३५॥ स कोऽपि बालस्सरसीरुहाक्षः सा च व्रजस्त्रीजनपादधूलिः । मुहुस्तदेतद्युगलं मदीये मोमुह्यमानोऽपि मनस्युदेतु ॥३६॥ मयि प्रयाणाभिमुखे च वल्लवीस्तनद्वयीदुर्ललितस्स बालकः । शनैश्शनैः श्रावितवेणुनिस्वनो विलासवेषेण पुरः प्रतीयताम् ॥३७॥ अतिभूमिमभूमिमेव वा वचसां वासितवल्लवीस्तनम् । मनसामपरं रसायनं मधुराद्वैतमुपास्महे महः ॥३८॥ जननान्तरेऽपि जगदेकमण्डने कमनीयधाम्नि कमलायतेक्षणे । व्रजसुन्दरीजनविलोचनामृते चपलानि सन्तु सकलेन्द्रियाणि मे ॥३९॥ मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू- स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् । पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां घनश्यामं वन्दे किमपि कमनीयाकृति महः ॥४०॥ अनुचुम्बतामविचलेन चेतसा मनुजाकृतेर्मधुरिमश्रियं विभोः । अयि देव कृष्ण दयितेति जल्पतामपि नो भवेयुरपि नाम तादृशः ॥४१॥ किशोरवेषेण कृशोदरीदृशां विशेषदृश्येन विशाललोचनम् । यशोदया लब्धयशोनवाम्बुधेर्निशामये नीलनिशाकरं कदा ॥४२॥ प्रकृतिरवतु नो विलासलक्ष्म्याः प्रकृतिजडं प्रणतापराधवीथ्याम् । सुकृतिकृतपदं किशोरभावे सुकृतिमनः प्रणिधानपात्रमोजः ॥४३॥ अपहसितसुधामदावलेपैरतिसुमनोहरमार्द्रमन्दहासैः । व्रजयुवतिविलोचनावलेह्यं रमयतु धाम रमावरोधनं नः ॥४४॥ अङ्कुरितस्मेरदशाविशेषैरश्रान्तहर्षामृतवर्षमक्ष्णाम् । संक्रीडतां चेतसि गोपकन्याघनस्तनस्वस्त्ययनं महो नः ॥४५॥ मृगमदपङ्कसङ्करविशेषितवन्यमहा- गिरितटगण्डगैरिकघनद्रवविद्रुमितम् । अजितभुजान्तरं भजत हे व्रजगोपवधू- स्तनकलशस्थलीघुसृणमर्दनकर्दमितम् ॥४६॥ आमूलपल्लवितलीलमपाङ्गजालैरासिञ्चती भुवनमादृतगोपवेषा । बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥४७॥ विरणन् मणिनूपुरं व्रजे चरणाम्भोजमुपास्स्व शार्ङ्गिणः । सरसे सरसि श्रियाश्रितं कमलं वा कलहंसनादितम् ॥४८॥ शरणमशरणानां शारदाम्भोजनेत्रं निरवधिमधुरिम्णा नीलवेषेण रम्यम् । स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि- र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥४९॥ सुव्यक्तकान्तिभरसौरभदिव्यगात्र- मव्यक्तयौवनपरीतकिशोरभावम् । गव्यानुपालनविधावनुशिष्टमव्या- दव्याजरम्यमखिलेश्वरवैभवं नः ॥५०॥ अनुगतममरीणामम्बरालम्बिनीनां नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् । व्रजयुवतिविलासव्यापृतापाङ्गमव्यात् त्रिभुवनसुकुमारं देवकैशोरकं नः ॥५१॥ आपादमाचूडमतिप्रसक्तैरापीयमाना यमिनां मनोभिः । गोपीजनज्ञातरसाऽवतान्नो गोपलभूपालकुमारमूर्तिः ॥५२॥ दिष्ट्या वृन्दावनमृगदृशां विप्रयोगाकुलानां प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः । लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान् पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥५३॥ जयति गुहशिखीन्द्रपिञ्छमौलिः सुरगिरिगैरिककल्पिताङ्गरागः । सुरयुवतिविकीर्णसूनवर्षस्नपितविभूषितकुन्तलः कुमारः ॥५४॥ मधुरमन्दशुचिस्मितमञ्जुलं वदनपङ्कजमङ्गजवेल्लितम् । विजयतां व्रजबालवधूजनस्तनतटीविलुठन्नयनं विभोः ॥५५॥ अलसविलसन्मुग्धस्निग्धस्मितं व्रजसुन्दरी- मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् । तरुणमरुणज्योत्स्नाकार्त्स्न्या स्मितस्नपिताधरं जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥५६॥ राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना जीयासुः पुलकाङ्कुरास्त्रिभुवनास्वादीयसस्तेजसः । क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण- त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥५७॥ स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता विशालनयनाम्बुजा व्रजविलासिनीवासिताः । मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥५८॥ जीयादसौ शिखिशिखण्डकृतावतंसा सांसिद्धिकी सरसकान्तिसुधासमृद्धिः । यद्बिन्दुलेशकणीकापरिणामभाग्यात् सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥५९॥ आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित- च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः । आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु- र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥६०॥ स्कन्धावारसदो व्रजः कतिपये गोपास्सहायादयः स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः । शृङ्गारा गिरिगैरिकं शिव शिव श्रीमन्ति बर्हाणि च शृङ्गग्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥६१॥ श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे । लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥६२॥ आपाटलाधरमधीरविलोलनेत्र- मामोदनिर्भरितमद्भुतकान्तिपूरम् । आविस्मितामृतमनुस्मृतिलोभनीय- मामुद्रिताननमहो मधुरं मुरारेः ॥६३॥ जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः । अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥६४॥ चरणयोररुणं करुणार्द्रयोः कचभरे बहुलं विपुलं दृशोः । वपुषि मञ्जुलमञ्जनमेचके वयसि बालमहो मधुरं महः ॥६५॥ मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेयद्रवकॢप्तचित्रतिलकां शश्वन्मनोहारिणीम् लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥६६॥ गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले । मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥६७॥ जिहानं जिहानं सुजानेन मौग्ध्यं दुहानं दुहानं सुधां वेणुनादैः । लिहानं लिहानं सुधीर्घैरपाङ्गैर्महानन्दसर्वस्वमेतन्नमस्तात् ॥६८॥ लसद्बर्हापीडं ललितललितस्मेरवदनं भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् । नवाम्भोदश्यामं निजमधुरिमाभोगभरितं परं देवं वन्दे परिमिलितकैशोरकरसम् ॥६९॥ सारस्यसामग्र्यमिवाननेन माधुर्यचातुर्यमिव स्मितेन । कारुण्यतारुण्यमिवेक्षितेन चापल्यसाफल्यमिदं दृशोर्मे ॥७०॥ यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि । निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥७१॥ रागान्धगोपीजनवन्दिताभ्यां योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् । आताम्रपङ्केरुहविभ्रमाभ्यां स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥७२॥ अर्धानुलापान्व्रजसुन्दरीणामकृत्रिमाणाञ्च सरस्वतीनाम् । आर्द्राशयेन श्रवणाञ्चलेन संभावयन्तं तरुणं गृणीमः ॥७३॥ मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा । करकलितललितवंशा कापि किशोरी कृपा लहरी ॥७४॥ रक्षन्तु नः शिक्षितपाशुपाल्या बाल्यावृता बर्हिशिखावतंसाः । प्राणप्रियाः प्रस्तुतवेणुगीताः शीता दृशोः शीतलगोपकन्याः ॥७५॥ स्मितस्तबकिताधरं शिशिरवेणुनादामृतं मुहुस्तरललोचनं मदकटाक्षमालाकुलम् । उरस्थलविलीनया कमलया समालिङ्गितं भुवस्तलमुपागतं भुवनदैवतं पातु नः ॥७६॥ नयनाम्बुजे भजत कामदुघं हृदयाम्बुजे किमपि कारुणिकम् । चरणाम्बुजे मुनिकुलैकधनं वदनाम्बुजे व्रजवधूविभवम् ॥७७॥ निर्वासनं हन्त रसान्तराणां निर्वाणसाम्राज्यमिवावतीर्णम् । अव्याजमाधुर्यमहानिधानमव्याद्व्रजानामधिदैवतं नः ॥७८॥ गोपीनामभिमतगीतवेषहर्षादापीनस्तनभरनिर्भरोपगूढम् । केलीनामवतु रसैरुपास्यमानं कालिन्दीपुलिनचरं परं महो नः ॥७९॥ खेलतां मनसि खेचराङ्गनामाननीयमृदुवेणुनिस्वनैः । कानने किमपि नः कृपास्पदं कालमेघकलहोद्वहं महः ॥८०॥ एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि- र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः । पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै- र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥८कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत् तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः । वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि- प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥८२॥ यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् । यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥८फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् । गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥८४॥ यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि- र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ । यत्पादाब्जविनिःसृता सुरनदी शंभोः शिरोभूषणं यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥८५॥ रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले मीना नाभीसरसि हृदये मारबाणाः मुरारेः । हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥८६॥ दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते निभृतपदमगारं वल्लवीनां प्रविष्टः । मुखकमलसमीरैराशु निर्वाप्य दीपान् कबलितनवनीतः पातु गोपालबालः ॥८७॥ प्रातः स्मरामि दधिघोषविनीतनिद्रं निद्रावसानरमणीयमुखारविन्दम् । हृद्यानवद्यवपुषं नयनाभिराम- मुन्निद्रपद्मनयनं नवनीतचोरम् ॥८८॥ फुल्लहल्लकवतंसकोल्लसद्गल्लमागमगवीगवेषितम् । वल्लवीचिकुरवासिताङ्गुलीपल्लवं कमपि वल्लवं भजे ॥८९॥ स्तेयं हरेर्हरति यन्नवनीतचौर्यं जारत्वमस्य गुरुतल्पकृतापराधम् । हत्यां दशाननहतिर्मधुपानदोषं यत्पूतनास्तनपयः स पुनातु कृष्णः ॥९०॥ मार मा वस मदीयमानसे माधवैकनिलये यदृच्छया । श्रीरमापतिरिहागमेदसौ कः सहेत निजवेश्मलङ्घनम् ॥९१॥ आकुञ्चितं जानु करं च वामं न्यस्य क्षितौ दक्षिणहस्तपद्मे । आलोकयन्तं नवनीतखण्डं बालं मुकुन्दं मनसा स्मरामि ॥९२॥ जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् । सुकुन्तलालकं बालं गोपालं चिन्तयेदुषः ॥९३॥ विहाय कोदण्डशरौ मुहूर्तं गृहाण पाणौ मणिचारुवेणुम् । मायूरबर्हं च निजोत्तमाङ्गे सीतापते त्वां प्रणमामि पश्चात् ॥९४॥ अयं क्षीराम्भोधेः पतिरिति गवां पालक इति श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः । अनेन प्रत्यूहो व्यरचि सततं येन जननी- स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥९५॥ हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् । हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥९६॥ तमसि रविरिवोद्यन्मज्जतामम्बुराशौ प्लव इव तृषितानां स्वादुवर्षीव मेघः । निधिरिव विधनानां दीर्घतीव्रामयानां भिषगिव कुशलं नो दातुमायातु शौरिः ॥९७॥ कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्जारुणम् । कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥९८॥ सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां त्रैलोक्याकर्षणाङ्गं सुरनरगणिकामोहनापाङ्गमूर्तिम् । सेव्यं शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै- र्वन्देऽहं रासकेलीरतमतिसुभगं वश्यगोपालकृष्णम् ॥९९॥ कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् । पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥१००॥ बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध- श्रोणीजङ्घान्तयुग्मं विपुलरुरुनखप्रोल्लसत्कण्ठभूषम् । फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥१०१॥ वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् । नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥१०२॥ चक्रान्तध्वस्तवैरिव्रजमजितमपास्तावनीभारमाद्यै- रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतिहेतोः । सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं रात्रौ विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम् ॥१०३॥ कोदण्डमैक्षवमखण्डमिषुं च पौष्पं चक्राब्जपाशसृणिकाञ्चनवंशनालम् । विभ्राणमष्टविधबाहुभिरर्कवर्णं ध्यायेद्धरिं मदनगोपविलासवेषम् ॥१०४॥ अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमसि खगपतिर्नो हरिः किं कपीन्द्रः इत्येवं गोपकन्याप्रतिवचनजितः पातु वश्चक्रपाणिः ॥१०५॥ राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान् राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली । कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥१०६॥ या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते । भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥१०७॥ कृष्णानुस्मरणादेव पापसङ्घातपञ्चरः । शतधा मोघमायाति गिरिर्वज्रहतो यथा ॥१०८॥ यस्यात्मभूतस्य गुरोः प्रसादादहं विमुक्तोऽस्मि शरीरबन्धात् । सर्वोपदेष्टुः पुरुषोत्तमस्य तस्यांघ्रिपद्मं प्रणतोऽस्मि नित्यम् ॥१०९॥ ॥इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः ॥॥इति श्रीकृष्णकर्णामृतं समाप्तम् ॥ N/A References : N/A Last Updated : January 23, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP