TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

हठयोगप्रदीपिका - तृतीयोपदेशः

प्रस्तुत ग्रंथात हठ योगासंबंधी विस्तृत माहिती देण्यात आलेली आहे.


तृतीयोपदेशः
स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः।
सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली ॥१॥
सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च ॥२॥
प्राणस्य शून्य-पदवी तदा राजपथायते।
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् ॥३॥
सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः।
श्मशानं शाम्भवी मध्य-मार्गश् चेत्य् एक-वाचकाः ॥४॥
तस्मात् सर्व-प्रयत्नेन प्रबोधयितुम् ईश्वरीम्।
ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत् ॥५॥
महामुद्रा महाबन्धो महावेधश् च खेचरी।
उड्डीयानं मूलबन्धश् च बन्धो जालन्धराभिधः ॥६॥
करणी विपरीताख्या वज्रोली शक्ति-चालनम्।
इदं हि मुद्रा-दशकं जरा-मरण-नाशनम् ॥७॥
आदिनाथोदितं दिव्यम् अष्टैश्वर्य-प्रदायकम्।
वल्लभं सर्व-सिद्धानां दुर्लभं मरुताम् अपि ॥८॥
गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम्।
कस्यचिन् नैव वक्तव्यं कुल-स्त्री-सुरतं यथा ॥९॥
अथ महा-मुद्रा- पाद-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम्।
प्रसारितं पदं कृत्वा कराभ्यां धारयेद् दृढम् ॥१०॥
कण्ठे बन्धं समारोप्य धारयेद् वायुम् ऊर्ध्वतः।
यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते ॥११॥
ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत्।
तदा सा मरणावस्था जायते द्विपुटाश्रया ॥१२॥
ततः शनैः शनैर् एव रेचयेन् नैव वेगतः।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१३॥
इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता।
महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१४॥
चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनर् अभ्यसेत्।
यावत्-तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥१५॥
न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः।
अपि भुक्तं विषं घोरं पीयूषम् अपि जीर्यति ॥१६॥
क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥१७॥
कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥१८॥

अथ महा-बन्धः- पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत्।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥१९॥
पूरयित्वा ततो वायुं हृदये चुबुकं दृढम्।
निष्पीड्यं वायुम् आकुञ्च्य मनो-मध्ये नियोजयेत् ॥२०॥
धारयित्वा यथा-शक्ति रेचयेद् अनिलं शनैः।
सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनर् अभ्यसेत् ॥२१॥
मतम् अत्र तु केषांचित् कण्ठ-बन्धं विवर्जयेत्।
राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेद् इति ॥२२॥
अयं तु सर्व-नाडीनाम् ऊर्ध्वं गति-निरोधकः।
अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः ॥२३॥
काल-पाश-महा-बन्ध-विमोचन-विचक्षणः।
त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन् मनः ॥२४॥
रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना।
महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ ॥२५॥

अथ महा-वेधः- महा-बन्ध-स्थितो योगी कृत्वा पूरकम् एक-धीः।
वायूनां गतिम् आवृत्य निभृतं कण्ठ-मुद्रया ॥२६॥
सम-हस्त-युगो भूमौ स्फिचौ सनाडयेच् छनैः।
पुट-द्वयम् अतिक्रम्य वायुः स्फुरति मध्यगः ॥२७॥
सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै।
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥२८॥
महा-वेधोऽयम् अभ्यासान् महा-सिद्धि-प्रदायकः।
वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः ॥२९॥
एतत् त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम्।
वह्नि-वृद्धि-करं चैव ह्य् अणिमादि-गुण-प्रदम् ॥३०॥
अष्टधा क्रियते चैव यामे यामे दिने दिने।
पुण्य-संभार-सन्धाय पापौघ-भिदुरं सदा।
सम्यक्-शिक्षावताम् एवं स्वल्पं प्रथम-साधनम् ॥३१॥

अथ खेचरी- कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी ॥३२॥
छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत् तावत्।
सा यावद् भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः ॥३३॥
स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम्।
समादाय ततस् तेन रोम-मात्रं समुच्छिनेत् ॥३४॥
ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत्।
पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत् ॥३५॥
एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत्।
षण्मासाद् रसना-मूल-शिरा-बन्धः प्रणश्यति ॥३६॥
कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्।
सा भवेत् खेचरी मुद्रा व्योम-चक्रं तद् उच्यते ॥३७॥
रसनाम् ऊर्ध्वगां कृत्वा क्षणार्धम् अपि तिष्ठति।
विषैर् विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः ॥३८॥
न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम् ॥३९॥
पीड्यते न स रोगेण लिप्यते न च कर्मणा।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥४०॥
चित्तं चरति खे यस्माज् जिह्वा चरति खे गता।
तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता ॥४१॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च ॥४२॥
चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम्।
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया ॥४३॥
ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः।
मासार्धेन न सन्देहो मृत्युं जयति योगवित् ॥४४॥
नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति ॥४५॥
इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः।
तथा सोम-कला-पूर्णं देही देहं न मुञ्चति ॥४६॥
गोमांसं भक्षयेन् नित्यं पिबेद् अमर-वारुणीम्।
कुलीनं तम् अहं मन्ये चेतरे कुल-घातकाः ॥४७॥
गो-शब्देनोदिता जिह्वा तत् प्रवेशो हि तालुनि।
गो-मांस-भक्षणं तत् तु महा-पातक-नाशनम् ॥४८॥
जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु।
चन्द्रात् स्रवति यः सारः सा स्याद् अमर-वारुणी ॥४९॥

चुम्बन्ती यदि लम्बिकाग्रम् अनिशं जिह्वा-रस-स्यन्दिनी स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा।
व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं तस्य स्याद् अमरत्वम् अष्ट-गुणितं सिद्धाङ्गनाकर्षणम् ॥५०॥

मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणाद् अवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन्।
उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन् निर्व्याधिः स मृणाल-कोमल-वपुर् योगी चिरं जीवति ॥५१॥

यत् प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं तस्मिंस् तत्त्वं प्रवदति सुधीस् तन्-मुखं निम्नगानाम्।
चन्द्रात् सारः स्रवति वपुषस् तेन मृत्युर् नराणां तद् बध्नीयात् सुकरणम् अधो नान्यथा काय-सिद्धिः ॥५२॥

सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम्।
तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने ॥५३॥
एकं सृष्टिमयं बीजम् एका मुद्रा च खेचरी।
एको देवो निरालम्ब एकावस्था मनोन्मनी ॥५४॥

अथ उड्डीयान-बन्धः- बद्धो येन सुषुम्णायां प्राणस् तूड्डीयते यतः।
तस्माद् उड्डीयनाख्योऽयं योगिभिः समुदाहृतः ॥५५॥
उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः।
उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते ॥५६॥
उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं च कारयेत्।
उड्डीयानो ह्य् असौ बन्धो मृत्यु-मातङ्ग-केसरी ॥५७॥
उड्डीयानं तु सहजं गुरुणा कथितं सदा।
अभ्यसेत् सततं यस् तु वृद्धोऽपि तरुणायते ॥५८॥
नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः।
षण्मासम् अभ्यसेन् मृत्युं जयत्य् एव न संशयः ॥५९॥
सर्वेषाम् एव बन्धानां उत्तमो ह्य् उड्डीयानकः।
उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् ॥६०॥

अथ मूल-बन्धः- पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम्।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोऽभिधीयते ॥६१॥
अधो-गतिम् अपानं वा ऊर्ध्वगं कुरुते बलात्।
आकुञ्चनेन तं प्राहुर् मूल-बन्धं हि योगिनः ॥६२॥
गुदं पार्ष्ण्या तु सम्पीड्य वायुम् आकुञ्चयेद् बलात्।
वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥६३॥
प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम्।
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥६४॥
अपान-प्राणयोर् ऐक्यं क्षयो मूत्र-पुरीषयोः।
युवा भवति वृद्धोऽपि सततं मूल-बन्धनात् ॥६५॥
अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम्।
तदानल-शिखा दीर्घा जायते वायुनाहता ॥६६॥
ततो यातो वह्न्य्-अपानौ प्राणम् उष्ण-स्वरूपकम्।
तेनात्यन्त-प्रदीप्तस् तु ज्वलनो देहजस् तथा ॥६७॥
तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते।
दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् ॥६८॥
बिलं प्रविष्टेव ततो ब्रह्म-नाड्यं तरं व्रजेत्।
तस्मान् नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा ॥६९॥

अथ जलन्धर-बन्धः- कण्ठम् आकुञ्च्य हृदये स्थापयेच् चिबुकं दृढम्।
बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः ॥७०॥
बध्नाति हि सिराजालम् अधो-गामि नभो-जलम्।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः ॥७१॥
जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति ॥७२॥
कण्ठ-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद् दृढम्।
मध्य-चक्रम् इदं ज्ञेयं षोडशाधार-बन्धनम् ॥७३॥
मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत्।
इडां च पिङ्गलां बद्ध्वा वाहयेत् पश्चिमे पथि ॥७४॥
अनेनैव विधानेन प्रयाति पवनो लयम्।
ततो न जायते मृत्युर् जरा-रोगादिकं तथा ॥७५॥
बन्ध-त्रयम् इदं श्रेष्ठं महा-सिद्धैश् च सेवितम्।
सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः ॥७६॥
यत् किंचित् स्रवते चन्द्राद् अमृतं दिव्य-रूपिणः।
तत् सर्वं ग्रसते सूर्यस् तेन पिण्डो जरायुतः ॥७७॥

अथ विपरीत-करणी मुद्रा- तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम्।
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः ॥७८॥
ऊर्ध्व-नाभेर् अधस् तालोर् ऊर्ध्वं भानुर् अधः शशी।
करणी विपरीताखा गुरु-वाक्येन लभ्यते ॥७९॥
नित्यम् अभ्यास-युक्तस्य जठराग्नि-विवर्धनी।
आहारो बहुलस् तस्य सम्पाद्यः साधकस्य च ॥८०॥
अल्पाहारो यदि भवेद् अग्निर् दहति तत्-क्षणात्।
अधः-शिराश् चोर्ध्व-पादः क्षणं स्यात् प्रथमे दिने ॥८१॥
क्षणाच् च किंचिद् अधिकम् अभ्यसेच् च दिने दिने।
वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते।
याम-मात्रं तु यो नित्यम् अभ्यसेत् स तु कालजित् ॥८२॥

अथ वज्रोली- स्वेच्छया वर्तमानोऽपि योगोक्तैर् नियमैर् विना।
वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम् ॥८३॥
तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित्।
क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी ॥८४॥
मेहनेन शनैः सम्यग् ऊर्ध्वाकुञ्चनम् अभ्यसेत्।
पुरुषोऽप्य् अथवा नारी वज्रोली-सिद्धिम् आप्नुयात् ॥८५॥
यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे।
शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात् ॥८६॥
नारी-भगे पदद्-बिन्दुम् अभ्यासेनोर्ध्वम् आहरेत्।
चलितं च निजं बिन्दुम् ऊर्ध्वम् आकृष्य रक्षयेत् ॥८७॥
एवं संरक्षयेद् बिन्दुं जयति योगवित्।
मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात् ॥८८॥
सुगन्धो योगिनो देहे जायते बिन्दु-धारणात्।
यावद् बिन्दुः स्थिरो देहे तावत् काल-भयं कुतः ॥८९॥
चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम्।
तस्माच् छुक्रं मनश् चैव रक्षणीयं प्रयत्नतः ॥९०॥
ऋतुमत्या रजोऽप्य् एवं निजं बिन्दुं च रक्षयेत्।
मेढ्रेणाकर्षयेद् ऊर्ध्वं सम्यग् अभ्यास-योग-वित् ॥९१॥

अथ सहजोलिः- सहजोलिश् चामरोलिर् वज्रोल्या भेद एकतः।
जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम् ॥९२॥
वज्रोली-मैथुनाद् ऊर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम्।
आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात् ॥९३॥
सहजोलिर् इयं प्रोक्ता श्रद्धेया योगिभिः सदा।
अयं शुभ-करो योगो भोग-युक्तोऽपि मुक्तिदः ॥९४॥
अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम्।
निर्मत्सराणां वै सिध्येन् न तु मत्सर-शालिनाम् ॥९५॥

अथ अमरोली- पित्तोल्बणत्वात् प्रथमाम्बु-धारां विहाय निःसारतयान्त्य् अधाराम्।
निषेव्यते शीतल-मध्य-धारा कापालिके खण्डमतेऽमरोली ॥९६॥

अमरीं य: पिबेन् नित्यं नस्यं कुर्वन् दिने दिने।
वज्रोलीम् अभ्यसेत् सम्यक् सामरोलीति कथ्यते ॥९७॥
अभ्यासान् निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत्।
धारयेद् उत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते ॥९८॥
पुंसो बिन्दुं समाकुञ्च्य सम्यग् अभ्यास-पाटवात्।
यदि नारी रजो रक्षेद् वज्रोल्या सापि योगिनी ॥९९॥
तस्याः किंचिद् रजो नाशं न गच्छति न संशयः।
तस्याः शरीरे नादश् च बिन्दुताम् एव गच्छति ॥१००॥
स बिन्दुस् तद् रजश् चैव एकीभूय स्वदेहगौ।
वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः ॥१०१॥
रक्षेद् आकुञ्चनाद् ऊर्ध्वं या रजः सा हि योगिनी।
अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम् ॥१०२॥
देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः।
अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः ॥१०३॥

अथ शक्ति-चालनम्- कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिर् ईश्वरी।
कुण्डल्य् अरुन्धती चैते शब्दाः पर्याय-वाचकाः ॥१०४॥
उद्घाटयेत् कपाटं तु यथा कुंचिकया हठात्।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् ॥१०५॥
येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम्।
मुखेनाच्छाद्य तद् वारं प्रसुप्ता परमेश्वरी ॥१०६॥
कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम्।
बन्धनाय च मूढानां यस् तां वेत्ति स योगवित् ॥१०७॥
कुण्डली कुटिलाकारा सर्पवत् परिकीर्तिता।
सा शक्तिश् चालिता येन स मुक्तो नात्र संशयः ॥१०८॥
गङ्गा-यमुनयोर् मध्ये बाल-रण्डां तपस्विनीम्।
बलात्कारेण गृह्णीयात् तद् विष्णोः परमं पदम् ॥१०९॥
इडा भगवती गङ्गा पिङ्गला यमुना नदी।
इडा-पिङ्गलयोर् मध्ये बालरण्डा च कुण्डली ॥११०॥
पुच्छे प्रगृह्य भुजङ्गीं सुप्ताम् उद्बोधयेच् च ताम्।
निद्रां विहाय सा शक्तिर् ऊर्ध्वम् उत्तिष्ठते हठात् ॥१११॥

अवस्थिता चैव फणावती सा प्रातश् च सायं प्रहरार्ध-मात्रम्।
प्रपूर्य सूर्यात् परिधान-युक्त्या प्रगृह्य नित्यं परिचालनीया ॥११२॥

ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम्।
मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम् ॥११३॥
सति वज्रासने पादौ कराभ्यां धारयेद् दृढम्।
गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत् ॥११४॥
वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम्।
कुर्याद् अनन्तरं भस्त्रां कुण्डलीम् आशु बोधयेत् ॥११५॥
भानोर् आकुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः।
मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः ॥११६॥
मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनाद् असौ।
ऊर्ध्वम् आकृष्यते किंचित् सुषुम्णायां समुद्गता ॥११७॥
तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम्।
जहाति तस्मात् प्राणोऽयं सुषुम्णां व्रजति स्वतः ॥११८॥
तस्मात् संचालयेन् नित्यं सुख-सुप्ताम् अरुन्धतीम्।
तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते ॥११९॥
येन संचालिता शक्तिः स योगी सिद्धि-भाजनम्।
किम् अत्र बहुनोक्तेन कालं जयति लीलया ॥१२०॥
ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः।
मण्डलाद् दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः ॥१२१॥
कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद् विशेषतः।
एवम् अभ्यस्यतो नित्यं यमिनो यम-भीः कुतः ॥१२२॥
द्वा-सप्तति-सहस्राणां नाडीनां मल-शोधने।
कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनाद् ऋते ॥१२३॥
इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम्।
आसन-प्राण-संयाम-मुद्राभिः सरला भवेत् ॥१२४॥
अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना।
रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति ॥१२५॥
राज-योगं विना पृथ्वी राज-योगं विना निशा।
राज-योगं विना मुद्रा विचित्रापि न शोभते ॥१२६॥
मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत्।
इतरत्र न कर्तव्या मनो-वृत्तिर् मनीषिणा ॥१२७॥
इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना।
एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी ॥१२८॥
उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम्।
स एव श्री-गुरुः स्वामी साक्षाद् ईश्वर एव सः ॥१२९॥
तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः।
अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम् ॥१३०॥

इति हठ-प्रदीपिकायां तृतीयोपदेशः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-10-04T09:43:01.6270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पैसा गांठ और जोरु साथ

  • (हिं.) पैसा नेहमीं जवळ असेल तरच तो उपयोगी पडेल 
  • त्याप्रमाणेंच बायको जोपर्यंत आपल्यापासून दूर झाली नाहीं तोंपर्यंत तिचा भरंवसा धरावा. आसका बापू निरास की मा, पहा. 
RANDOM WORD

Did you know?

जेवण उष्टे सोडून अन्नाचा अपमान करणार्याला विविध शास्त्र, पुराणात काय शिक्षासांगितली आहे कृपाया संदर्भासह स्पष्ट करणे .
Category : Vedic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.