संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ८|पाद ४| खण्ड ८७ पाद ४ खण्ड ८७ पाद ४ - खण्ड ८७ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ८७ Translation - भाषांतर १ - ४४ - रषाभ्याम् णत्वे ऋकारग्रहणम् ।२ - ४४ - रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् ।३ - ४४ - रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् ।४ - ४४ - इह अपि यथा स्यात् मातृ̄णाम् , पितृ̄णाम् इति ।५ - ४४ - तत् तर्हि वक्तव्यम् ।६ - ४४ - न वक्तव्यम् ।७ - ४४ - यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति ।८ - ४४ - न सिध्यति ।९ - ४४ - किम् कारणम् ।१० - ४४ - न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।११ - ४४ - एकदेशे नुडादिषु च उक्तम् । किम् उक्तम् ।१२ - ४४ - अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति ।१३ - ४४ - तस्मात् गृह्यन्ते ।१४ - ४४ - एवम् अपि न सिध्यति ।१५ - ४४ - किम् कारणम् ।१६ - ४४ - अननन्तरत्वात् ।१७ - ४४ - यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति ।१८ - ४४ - अड्व्यवाये इति एवम् भविष्यति ।१९ - ४४ - न सिध्यति ।२० - ४४ - किम् कारणम् ।२१ - ४४ - वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते ।२२ - ४४ - ये व्यपवृक्ताः अपि वर्णाः भवन्ति ।२३ - ४४ - यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते ।२४ - ४४ - एवम् तर्हि योगविभागः करिष्यते ।२५ - ४४ - रषाभ्याम् नः णः समानपदे ।२६ - ४४ - ततः व्यवाये ।२७ - ४४ - व्यवाये च रषाभ्याम् नः णः भवति इति ।२८ - ४४ - ततः अट्कुप्वाङ्नुम्भिः इति ।२९ - ४४ - इदम् इदानीम् किमर्थम् ।३० - ४४ - नियमार्थम् ।३१ - ४४ - एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति ।३२ - ४४ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति ।३३ - ४४ - न एतत् अस्ति ज्ञापकम् ।३४ - ४४ - वृद्ध्यर्थम् एतत् स्यात् ।३५ - ४४ - नार्नमनिः इति ।३६ - ४४ - यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति ।३७ - ४४ - यत् च अपि नृनमनशब्दम् पठति ।३८ - ४४ - ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति ।३९ - ४४ - बहिरङ्गा वृद्धिः ।४० - ४४ - अन्तरङ्गम् णत्वम् ।४१ - ४४ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।४२ - ४४ - अथ वा उपरिष्टात् योगविभागः करिष्यते ।४३ - ४४ - ऋतः नः णः भवति ।४४ - ४४ - ततः छन्दसि अवग्रहात् ऋतः इति एव१ - २० - अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः ।२ - २० - अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः ।३ - २० - आदर्शेन अक्षदर्शेन ।४ - २० - न वा अन्येन व्यपेतत्वात् । न वा वक्तव्यः ।५ - २० - किम् कारणम् ।६ - २० - अन्येन व्यपेतत्वात् ।७ - २० - अन्येन अत्र व्यवायः ।८ - २० - यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति ।९ - २० - अटा एव व्यवाये भवति ।१० - २० - किम् वक्तव्यम् एतत् ।११ - २० - न हि ।१२ - २० - कथम् अनुच्यमानम् गंस्यते ।१३ - २० - अड्ग्रहणसामर्थ्यात् ।१४ - २० - यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् ।१५ - २० - व्यवाये नः णः भवति इति एव ब्रूयात् ।१६ - २० - अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् ।१७ - २० - किम् ।१८ - २० - यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् ।१९ - २० - कृत्स्नम् मृत्स्ना इति ।२० - २० - यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात्१ - १९ - तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र ।२ - १९ - तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः ।३ - १९ - अर्केण अर्घेण ।४ - १९ - यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति ।५ - १९ - क्व अन्यत्र ।६ - १९ - नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति ।७ - १९ - किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति ।८ - १९ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति ।९ - १९ - तत् यथा ।१० - १९ - गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः ।११ - १९ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।१२ - १९ - तत् यथा ।१३ - १९ - गर्गाः शतम् दण्ड्यन्ताम् इति ।१४ - १९ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।१५ - १९ - यदि एवम् एकेन व्यवाये न प्राप्नोति ।१६ - १९ - किरिणा रिरिणा इति ।१७ - १९ - उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते ।१८ - १९ - तत् यथा ।१९ - १९ - गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च१ - २२ - कुव्यवाये हादेशेषु प्रतिषेधः ।२ - २२ - कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः ।३ - २२ - किम् प्रयोजनम् ।४ - २२ - प्रयोजनम् वृत्रघ्नः स्रुघ्नः प्राघानि इति । हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति ।५ - २२ - नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः ।६ - २२ - प्रेन्वनम् प्रेन्वनीयम् ।७ - २२ - अनागमे च णत्वम् । अनागमे च णत्वम् वक्तव्यम् ।८ - २२ - तृम्पणीयम् ।९ - २२ - अनुस्वारव्यवायवचनात् तु सिद्धम् । अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् ।१० - २२ - तदनुस्वारग्रहणम् कर्तव्यम् ।११ - २२ - न कर्तव्यम् ।१२ - २२ - क्रियते न्यासे एव ।१३ - २२ - नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते ।१४ - २२ - इह अपि तर्हि प्राप्नोति ।१५ - २२ - प्रेन्वनम् प्रेन्वनीयम् ।१६ - २२ - अनुस्वारविशेषणम् नुम्ग्रहणम् ।१७ - २२ - नुमः यः अनुस्वारः इति ।१८ - २२ - इह अपि तर्हि न प्राप्नोति ।१९ - २२ - तृम्पणम् तृम्पणीयम् ।२० - २२ - एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् ।२१ - २२ - यदि एवम् न अर्थः नुम्ग्रहणेन ।२२ - २२ - अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम्१ - ११ - पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् ।२ - ११ - पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् ।३ - ११ - किम् प्रयोजनम् ।४ - ११ - तद्धितपूर्वपदस्थाप्रतिषेधार्थम् । तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् ।५ - ११ - खारपायणः करणप्रियः ।. तत् तर्हि वक्तव्यम् ।६ - ११ - न वक्तव्यम् ।७ - ११ - पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ ।८ - ११ - सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति ।९ - ११ - तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति ।१० - ११ - किम् च प्रति एतत् भवति ।११ - ११ - उत्तरपदम् प्रति१ - २५ - सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमप्रतिषेधः ।२ - २५ - सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति ।३ - २५ - तत्र कः दोषः ।४ - २५ - तत्र नित्यम् णत्वप्रसङ्गः । तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति ।५ - २५ - योगविभागात् सिद्धम् । योगविभागः करिष्यते ।६ - २५ - पूर्वपदात् सञ्ज्ञायाम् ।७ - २५ - ततः अगः ।८ - २५ - गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः ।९ - २५ - अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायाम् । न वा अर्थः प्रतिषेधेन ।१० - २५ - णत्वम् कस्मात् न भवति ।११ - २५ - यथा सर्वनामसञ्ज्ञायाम् ।१२ - २५ - उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति ।१३ - २५ - यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् ।१४ - २५ - इह अपि निपातनम् अस्ति ।१५ - २५ - किम् ।१६ - २५ - अणृगयनादिभ्यः इति ।१७ - २५ - न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति ।१८ - २५ - किम् कारणम् ।१९ - २५ - समानपदे इति उच्यते न च एतत् समानपदम् ।२० - २५ - समासे कृते समानपदम् ।२१ - २५ - समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव ।२२ - २५ - किम् वक्तव्यम् एतत् ।२३ - २५ - न हि ।२४ - २५ - कथम् अनुच्यमानम् गंस्यते ।२५ - २५ - समानग्रहणसामर्थ्यात्. यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात्१ - ५ - द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् ।२ - ५ - इह मा भूत् ।३ - ५ - देवदारुवनम् ।४ - ५ - इरिकादिभ्यः प्रतिषेधः वक्तव्यः ।५ - ५ - इरिकावनम् तिमिरवनम्१ - ९ - अदन्तात् अदन्तस्य इति वक्तव्यम् ।२ - ९ - इह मा भूत् ।३ - ९ - दीर्घाह्नी शरत् इति ।४ - ९ - तत् तर्हि वक्तव्यम् ।५ - ९ - न वक्तव्यम् ।६ - ९ - न एषा अहन्शब्दात् षष्ठी ।७ - ९ - का तर्हि ।८ - ९ - अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च ।९ - ९ - अथ वा युवादिषु पाठः करिष्यते१ - ६ - आहितोपस्थितयोः इति वक्तव्यम् ।२ - ६ - इह अपि यथा स्यात् ।३ - ६ - इक्षुवाहणम् शरवाहणम् ।४ - ६ - अपरः आह वाहनम् वाह्यात् इति वक्तव्यम् ।५ - ६ - यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् ।६ - ६ - गर्गवाहनम् इति१ - ४ - वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् ।२ - ४ - वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।३ - ४ - गिरिणदी गिरिनदी ।४ - ४ - चक्रणितम्बा चक्रनितम्बा१ - १३ - प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् ।२ - १३ - प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् ।३ - १३ - किम् प्रयोजनम् ।४ - १३ - असमासान्तप्रतिषेधार्थम् ।५ - १३ - असमासान्तस्य मा भूत् ।६ - १३ - गर्गभगिनी दक्षभगिनी इति ।७ - १३ - न वा भवति गर्गभगिणी इति ।८ - १३ - भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति ।९ - १३ - यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् ।१० - १३ - तदा मा भूत् इति ।११ - १३ - यदि समासान्तग्रहणम् क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति ।१२ - १३ - लिङ्गविशिष्टग्रहणे च उक्तम् । किम् उक्तम् ।१३ - १३ - गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति१ - ३ - तत्र युवादिप्रतिषेधः ।२ - ३ - तत्र युवादीनाम् प्रतिषेदः वक्तव्यः ।३ - ३ - आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति१ - ५ - अथ इह कथम् भवितव्यम् ।२ - ५ - माषकुम्भवापेण व्रीहिकुम्भवापेण इति ।३ - ५ - किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया ।४ - ५ - यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् ।५ - ५ - यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम्१ - २० - असमासग्रहणम् किमर्थम् ।२ - २० - समासे इति वर्तते असमासे अपि यथा स्यात् ।३ - २० - प्रणमति परिणमति ।४ - २० - क्व पुनः समासग्रहणम् प्रकृतम् ।५ - २० - पूर्वपदात्सञ्ज्ञायामगः इति ।६ - २० - कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् ।७ - २० - पूर्वपदग्रहणसामर्थ्यात् ।८ - २० - समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति ।९ - २० - अथ अपिग्रहणम् किमर्थम् ।१० - २० - समासे अपि यथा स्यात् ।११ - २० - प्रणामकः परिणामकः ।१२ - २० - यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन ।१३ - २० - निवृत्तम् पूर्वपदात् इति ।१४ - २० - अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि ।१५ - २० - समासे नियमात् न प्राप्नोति ।१६ - २० - असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति ।१७ - २० - एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः ।१८ - २० - किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति ।१९ - २० - किम् एतस्य ज्ञपने प्रयोजनम् ।२० - २० - यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति१ - १७ - णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः ।२ - १७ - अगमकः निर्देशः अनिर्देशः ।३ - १७ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः ।४ - १७ - एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति ।५ - १७ - वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः ।६ - १७ - प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति ।७ - १७ - सिद्धम् तु यम् प्रति उपसर्गः तत्स्थस्य इति वचनात् । सिद्धम् एतत् ।८ - १७ - कथम् ।९ - १७ - यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् ।१० - १७ - सिध्यति ।११ - १७ - सूत्रम् तर्हि भिद्यते ।१२ - १७ - यथान्यासम् एव अस्तु ।१३ - १७ - ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति ।१४ - १७ - न एषः दोषः ।१५ - १७ - णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति ।१६ - १७ - कथम् तर्हि ।१७ - १७ - णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति१ - १३ - हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् ।२ - १३ - हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - १३ - प्रहिणोति प्रमीणीते ।४ - १३ - वचनात् भविष्यति ।५ - १३ - अस्ति वचने प्रयोजनम् ।६ - १३ - किम् ।७ - १३ - प्रहिणुतः प्रमीणाति ।८ - १३ - सिद्धम् अचः स्थानिवत्त्वात् । सिद्धम् एतत् ।९ - १३ - कथम् ।१० - १३ - अचः स्थानिवत्त्वात् ।११ - १३ - स्थानिवद्भावात् अत्र णत्वम् भविष्यति ।१२ - १३ - प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति ।१३ - १३ - दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति१ - १७ - लोट् इति किमर्थम् ।२ - १७ - प्रहिमानि कुलानि ।३ - १७ - प्रवपानि मांसानि ।४ - १७ - आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात् ।५ - १७ - आनि लोड्ग्रहणम् अनर्थकम् ।६ - १७ - किम् कारणम् ।७ - १७ - अर्थवद्ग्रहणात् ।८ - १७ - अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् ।९ - १७ - अनुपसर्गात् वा । अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः ।१० - १७ - इह अपि तर्हि न प्राप्नोति ।११ - १७ - प्रयाणि परियाणि इति ।१२ - १७ - अत्र अपि न आनिशब्दम् प्रति क्रियायोगः ।१३ - १७ - आनिशब्दम् प्रति अत्र क्रियायोगः ।१४ - १७ - कथम् ।१५ - १७ - यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।१६ - १७ - कथम् तर्हि ।१७ - १७ - या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति१ - १३ - नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् ।२ - १३ - नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।३ - १३ - प्रण्यगदत् परिण्यगदत् ।४ - १३ - आङा च इति वक्तव्यम् ।५ - १३ - प्रण्यागदत् ।६ - १३ - ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते ।७ - १३ - न सिध्यति ।८ - १३ - अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् ।९ - १३ - एवम् तर्हि अड्व्यवाये इति वर्तते ।१० - १३ - क्व प्रकृतम् ।११ - १३ - अट्कुप्वाङ्नुम्व्यवाये अपि इति ।१२ - १३ - तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः ।१३ - १३ - तत्र अपि निमित्तविशेषणम् एव१ - १८ - अन्तग्रहणम् किमर्थम् ।२ - १८ - अनितेः अन्तग्रहणम् सम्बुद्ध्यर्थम् ।३ - १८ - अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् ।४ - १८ - हे प्राण् ।५ - १८ - अप्ररः आह ।६ - १८ - अनितेः अन्तः पदान्तस्य ।७ - १८ - अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् ।८ - १८ - यः वा तस्मात् अनन्तरः । अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची ।९ - १८ - तत् यथा वस्त्रान्तः वसनान्तः इति ।१० - १८ - अस्ति सामीप्ये वर्तते ।११ - १८ - तत् यथा ।१२ - १८ - उदकान्तम् गतः ।१३ - १८ - उदकसमीपम् गतः इति गम्यते ।१४ - १८ - तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते ।१५ - १८ - अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् ।१६ - १८ - प्राणिति ।१७ - १८ - इह मा भूत् ।१८ - १८ - पर्यनिति१ - ३ - साभ्यासस्य द्वयोः इष्टम् ।२ - ३ - साभ्यासस्य द्वयोः णत्वम् इष्यते ।३ - ३ - प्राणिणिषति१ - ५ - अत्पूर्वस्य इति किमर्थम् ।२ - ५ - प्रघ्नन्ति परिघ्नन्ति ।३ - ५ - हन्तेः अत्पूर्वस्य वचने उक्तम् ।४ - ५ - किम् उक्तम् ।५ - ५ - कुव्यवाये हादेशेषु प्रतिषेधः इति१ - १२ - कथम् इदम् विज्ञयते ।२ - १२ - ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति ।३ - १२ - आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति ।४ - १२ - किम् च अतः ।५ - १२ - यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति ।६ - १२ - अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति ।७ - १२ - उभयथा च प्रक्रमे दोषः भवति ।८ - १२ - प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् ।९ - १२ - प्र* उ नः , प्र उ नः ।१० - १२ - भाविनि अपि ओति न इष्यते ।११ - १२ - भाविनि अपि ओकारे णत्वम् न इष्यते ।१२ - १२ - एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम्१ - ३ - कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् ।२ - ३ - कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - निर्विण्णः अहम् अनेन वासेन१ - ६ - णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् ।२ - ६ - णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् ।३ - ६ - प्राप्यमाणम् प्राप्यमानम् ।४ - ६ - तद्विधानात् सिद्धम् । विहितविशेषणम् णिग्रहणम् ।५ - ६ - ण्यन्तात् यः विहितः इति ।६ - ६ - अडधिकारात् वा । अथ वा अड्व्यवाये इति वर्तते१ - ३७ - किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् ।२ - ३७ - नियमार्थः अयम् आरम्भः ।३ - ३७ - इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति ।४ - ३७ - क्व मा भूत् ।५ - ३७ - प्रमङ्कनम् परिमङ्कनम् ।६ - ३७ - सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् ।७ - ३७ - सनुमः णत्वे अवधारणस्य अप्राप्तिः ।८ - ३७ - किम् कारणम् ।९ - ३७ - विधेयभावात् ।१० - ३७ - कैमर्थक्यात् नियमः भवति ।११ - ३७ - विधेयम् न अस्ति इति कृत्वा ।१२ - ३७ - इह च अस्ति विधेयम् ।१३ - ३७ - किम् ।१४ - ३७ - ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् ।१५ - ३७ - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः ।१६ - ३७ - सिद्धम् तु प्रतिषेधाधिकारे सनुम्ग्रहणात् । सिद्धम् एतत् ।१७ - ३७ - कथम् ।१८ - ३७ - प्रतिषेधाधिकारे सनुम्ग्रहणात् ।१९ - ३७ - प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् ।२० - ३७ - न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति ।२१ - ३७ - इह अपि तर्हि न प्राप्नोति ।२२ - ३७ - प्रेङ्गणम् प्रेङ्गणीयम् ।२३ - ३७ - कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् ।२४ - ३७ - सिध्यति सूत्रम् तर्हि भिद्यते ।२५ - ३७ - यथान्यासम् एव अस्तु ।२६ - ३७ - ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति ।२७ - ३७ - न एषः दोषः ।२८ - ३७ - हलः इति वर्तते ।२९ - ३७ - क्व प्रकृतम् ।३० - ३७ - हलश्चेजुपधात् इति ।३१ - ३७ - तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः ।३२ - ३७ - कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति ।३३ - ३७ - इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन ।३४ - ३७ - तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति ।३५ - ३७ - कथम् ।३६ - ३७ - इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन ।३७ - ३७ - अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते१ - ९ - भादिषु पूञ्ग्रहणम् ।२ - ९ - भादिषु पूञ्ग्रहणम् कर्तव्यम् ।३ - ९ - इह मा भूत् ।४ - ९ - प्रपवणम् सोमस्य इति ।५ - ९ - ण्यन्तस्य च उपसङ्ख्यनम् । ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् ।६ - ९ - किम् पूञः एव ।७ - ९ - न इति आह ।८ - ९ - अविशेषेण ।९ - ९ - प्रभापनम् परिभापनम्१ - ११ - षात् पदादिपरवचनम् ।२ - ११ - षात्पदादिपरग्रहणम् कर्तव्यम् ।३ - ११ - इह एव यथा स्यात् ।४ - ११ - निष्पानम् दुष्पानम् ।५ - ११ - इह मा भूत् ।६ - ११ - ससर्पिष्केण सयजुष्केण ।७ - ११ - तत् तर्हि वक्तव्यम् ।८ - ११ - न वक्तव्यम् ।९ - ११ - न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति ।१० - ११ - कथम् तर्हि ।११ - ११ - पदे अन्तः पदान्तः पदान्तात् इति१ - ८ - नशेः अशः ।२ - ८ - नशेः अशः इति वक्तव्यम् ।३ - ८ - इह अपि यथा स्यात् ।४ - ८ - प्रनङ्क्ष्यति परिनङ्क्ष्यति ।५ - ८ - तत् तर्हि वक्तव्यम् ।६ - ८ - न वक्तव्यम् ।७ - ८ - इह नशेः षः इति इयता सिद्धम् ।८ - ८ - सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात्१ - ९ - पदव्यवाये अतद्धिते ।२ - ९ - पदव्यवाये अतद्धिते इति वक्तव्यम् ।३ - ९ - इह मा भूत् ।४ - ९ - आर्द्रगोमयेण शुष्कगोमयेण इति ।५ - ९ - तत् तर्हि वक्तव्यम् ।६ - ९ - न वक्तव्यम् ।७ - ९ - न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति ।८ - ९ - कथम् तर्हि ।९ - ९ - पदे व्यवायः पदव्यवायः पद्व्यवाये इति१ - १ - अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः१ - ५ - किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत ।२ - ५ - आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् ।३ - ५ - यज्ञः राज्ञः याच्ञा ।४ - ५ - अथ सङ्ख्यातानुदेशः कस्मात् न भवति ।५ - ५ - आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति१ - ५ - किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत ।२ - ५ - आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् ।३ - ५ - पेष्टा लेढा ।४ - ५ - अथ सङ्ख्यातानुदेशः कस्मात् न भवति ।५ - ५ - आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति१ - ४ - अनाम् इति किम् ।२ - ४ - षण्णाम् भवति कश्यपः ।३ - ४ - अत्यल्पम् इदम् उच्यते अनाम् इति ।४ - ४ - अनान्नवतिनगरीणाम् च इति वक्तव्यम् षण्णाम् , षण्णवतिः , षण्णगरी१ - ४ - यरः अनुनासिके प्रत्यये भाषायाम् नित्यवचनम् ।२ - ४ - यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् ।३ - ४ - वाङ्मयम् ।४ - ४ - त्वङ्मयम् इति१ - १९ - द्विर्वचने यणः मयः । द्विर्वचने यणः मयः इति वक्तव्यम् ।२ - १९ - किम् उदाहरणम् ।३ - १९ - यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् ।४ - १९ - अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् ।५ - १९ - शरः खयः ।६ - १९ - शरः खयः इति वक्तव्यम् ।७ - १९ - किम् उदाहरणम् ।८ - १९ - यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् ।९ - १९ - अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् ।१० - १९ - अवसाने च । अवसाने च द्वे भवतः इति वक्तव्यम् ।११ - १९ - वाक्क् वाक् ।१२ - १९ - त्वक्क् त्वक् ।१३ - १९ - स्रुक्क् स्रुक् ।१४ - १९ - तत् तर्हि वक्तव्यम् ।१५ - १९ - न वक्तव्यम् ।१६ - १९ - न अयम् प्रसज्यप्रतिषेधः ।१७ - १९ - अचि न इति ।१८ - १९ - किम् तर्हि पर्युदसः अयम् ।१९ - १९ - यत् अन्यत् अचः इति१ - ३ - न आदिनि आक्रोशे पुत्रस्य इति तत्परे च ।२ - ३ - न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् ।३ - ३ - पुत्रपुत्रादिनि१ - ४ - वा हतजग्धपरे च ।२ - ४ - वा हतजग्धपरे इति वक्तव्यम् ।३ - ४ - पुत्रहती पुत्त्रहती ।४ - ४ - पुत्रजग्धी पुत्त्रजग्धी१ - ३ - चयः द्वितीयाः शरि पौष्करसादेः ।२ - ३ - चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन ।३ - ३ - वथ्सः , ख्षीरम् , अफ्सराः१ - ३ - उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् ।२ - ३ - उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - अघ्न्ये दूरम् उत्कन्द१ - २ - रोगे च इति वक्तव्यम् ।२ - २ - उत्कन्दकः रोगः१ - ५ - छत्वम् अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम् ।२ - ५ - छत्वम् अमि इति वक्तव्यम् ।३ - ५ - किम् प्रयोजनम् ।४ - ५ - तच्छ्लोकेन ।५ - ५ - तच्छ्मश्रुणा इति१ - ७ - सवर्णग्रहणम् किमर्थम् ।२ - ७ - झरः झरि सवर्णग्रहणम् समसङ्ख्यप्रतिषेधार्थम् ।३ - ७ - झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् ।४ - ७ - सङ्ख्यातानुदेशः मा भूत् इति ।५ - ७ - किम् च स्यात् ।६ - ७ - इह न स्यात् ।७ - ७ - शिण्ढि पिण्ढि इति१ - ५१ - किमर्थम् इदम् उच्यते ।२ - ५१ - अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते ।३ - ५१ - किम् पुनः कारणम् विवृतः उपदिश्यते ।४ - ५१ - आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः ।५ - ५१ - आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ ।६ - ५१ - आदेशार्थम् तावत् ।७ - ५१ - वृक्षाभ्याम् , देवदत्ता३ ।८ - ५१ - आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् ।९ - ५१ - सवर्णार्थम् च ।१० - ५१ - अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् ।११ - ५१ - आकारस्य तथा ह्रस्वः ।१२ - ५१ - तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः ।१३ - ५१ - अस्ति प्रयोजनम् एतत् ।१४ - ५१ - किम् तर्हि इति ।१५ - ५१ - अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः ।१६ - ५१ - खट्वा माला ।१७ - ५१ - न एषः दोषः ।१८ - ५१ - यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति ।१९ - ५१ - आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् । आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति ।२० - ५१ - केषाम् ।२१ - ५१ - उदात्तानुदात्तस्वरितानुनासिकानाम् ।२२ - ५१ - सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् ।२३ - ५१ - कथम् ।२४ - ५१ - तपरनिर्देशात् ।२५ - ५१ - तपरनिर्देशः कर्तव्यः ।२६ - ५१ - अत् अ* इति ।२७ - ५१ - अपरः आह अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः ।२८ - ५१ - अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः खट्वा माला ।२९ - ५१ - न एषः दोषः ।३० - ५१ - दीर्घोच्चारणसामर्थ्यात् न भविष्यति ।३१ - ५१ - इदम् तर्हि प्रयोजनम् ।३२ - ५१ - वृक्षाभ्याम् प्लक्षाभ्याम् ।३३ - ५१ - अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति ।३४ - ५१ - इदम् तर्हि ।३५ - ५१ - अपि काकः श्येनायते ।३६ - ५१ - ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति ।३७ - ५१ - अस्ति अन्यत् दीर्घवचने प्रयोजनम् ।३८ - ५१ - किम् ।३९ - ५१ - दधीयति मधूयति ।४० - ५१ - अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति ।४१ - ५१ - केषाम् ।४२ - ५१ - उदात्तानुदात्तस्वरितानुनासिकानाम् ।४३ - ५१ - सिद्धम् तु तपरनिर्देशात् ।४४ - ५१ - सिद्धम् एतत् ।४५ - ५१ - कथम् ।४६ - ५१ - तपरनिर्देशात् ।४७ - ५१ - तपरनिर्देशः कर्तव्यः ।४८ - ५१ - अत् अत् इति ।४९ - ५१ - एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् । एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् ।५० - ५१ - एकशेषनिर्देसः अयम् ।५१ - ५१ - अ , अ , अ इति N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP