संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ८|पाद ३| खण्ड ८५ पाद ३ खण्ड ८५ खण्ड ८६ पाद ३ - खण्ड ८५ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ८५ Translation - भाषांतर १ - ७ - मतुवसः रादेशे वनः उपसङ्ख्यानम् ।२ - ७ - मतुवसः रादेशे वनः उपसङ्ख्यानम् कर्तव्यम् ।३ - ७ - यः त्वा आयन्तम् वसुना प्रातरित्वः ।४ - ७ - इभाषा भवद्भगवदघवताम् ओत् च अवस्य । छन्दसि भाषायाम् च भवत् भगवत् अघवत् इति एतेषाम् विभाषा रुः वक्तव्यः ओत् च अवस्य वक्तव्यः ।५ - ७ - भोः , भवन् ।६ - ७ - भगोः , भगवन् ।७ - ७ - अघोः , अघवन् इति१ - ८ - सम्बुद्धौ इति उच्यते तत्र इदम् न सिध्यति ।२ - ८ - भोः ब्राह्मणाः इति ।३ - ८ - तथा विभक्तौ लिङ्गविशिष्टग्रहणम् न इति इह न प्राप्नोति ।४ - ८ - भोः ब्राह्मणि ।५ - ८ - न एषः दोषः ।६ - ८ - अव्ययम् एषः भोःशब्दः न एषा भवतः प्रवृत्तिः ।७ - ८ - कथम् अव्ययत्वम् ।८ - ८ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा निपातः अव्ययम् इति अव्ययसञ्ज्ञा१ - २१ - सम्पुङ्कानाम् सत्वम् ।२ - २१ - सम्पुङ्कानाम् सत्वम् वक्तव्यम् ।३ - २१ - संस्कर्ता पुंस्कामा कांस् कान् इति ।४ - २१ - रुविधौ हि अनिष्टप्रसङ्गः । रुविधौ हि सति अनिष्टम् प्रसज्येत ।५ - २१ - इह तावत् संस्कर्ता इति वा शरि इति प्रसज्येत ।६ - २१ - पुंस्कामा इति इदुदुपधस्य इति षत्वम् प्रसज्येत ।७ - २१ - कांस् कान् इति कुप्वोः ह्कः प्रसज्येत ।८ - २१ - तत् तर्हि वक्तव्यम् ।९ - २१ - न वक्तव्यम् ।१० - २१ - क्रियते न्यासे एव ।११ - २१ - समः सुटि इति द्विसकारकः निर्देशः समः सुटि सकारः भवति ।१२ - २१ - तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।१३ - २१ - यदि तत् अनुवर्तते नश्छव्यप्रशान् इति अत्र अपि प्राप्नोति ।१४ - २१ - सम्बन्धम् अनुवर्तिष्यते ।१५ - २१ - समःसुटि ।१६ - २१ - पुमः खयि अम्परे सः भवति ।१७ - २१ - नः छवि अप्रशान् रुः भवति पुमः खयि अम्परे सकारः ।१८ - २१ - उभयथर्क्षु दीर्घादटिसमानपादे नृ̄न्पे स्वतवान्पायौ रुः भवति पुमः खयि अम्परे सकारः ।१९ - २१ - कान् आम्रेडिते सकारः ।२० - २१ - पुमः खयि अम्परे इति निवृत्तम् ।२१ - २१ - समः वा लोपम् एके इच्छन्ति संस्कर्ता सम्̐स्कर्ता१ - २२ - ढलोपे अपदान्तग्रहणम् ।२ - २२ - ढलोपे अपदान्तग्रहणम् कर्तव्यम् ।३ - २२ - इह मा भूत् ।४ - २२ - श्वलिट् ढौकते ।५ - २२ - गुडलिट् ढौकते ।६ - २२ - तत् तर्हि वक्तव्यम् ।७ - २२ - न वक्तव्यम् ।८ - २२ - जश्त्वम् अत्र बाधकम् भविष्यति ।९ - २२ - जश्भावात् इति चेत् उत्तरत्र ढस्य अभावात् अपवादप्रसङ्गः । जश्भावात् इति चेत् उत्तरत्र ढकारस्य अभावात् असिद्धत्वात् अपवादः अयम् विज्ञायते ।१० - २२ - कस्य ।११ - २२ - जश्त्वस्य ।१२ - २२ - तस्मात् सिद्धवचनम् । तस्मात् सिद्धत्वम् वक्तव्यम् ।१३ - २२ - कस्य ।१४ - २२ - ष्टुत्वस्य ।१५ - २२ - सङ्ग्रहणम् वा । सङ्ग्रहणम् वा कर्तव्यम् ।१६ - २२ - सङि ढः इति वक्तव्यम् ।१७ - २२ - तत्तर्हि वक्तव्यम् ।१८ - २२ - न वक्तव्यम् ।१९ - २२ - आनन्तर्यम् इह आश्रीयते ढकारस्य ढकारे इति ।२० - २२ - क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।२१ - २२ - ष्टुत्वे सन्निपातकृतम् आनन्तर्यम् जश्त्वे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् ।२२ - २२ - यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः१ - २९ - विसर्जनीयः अनुत्तरपदे ।२ - २९ - विसर्जनीयः अनुत्तरपदे इति वक्तव्यम् ।३ - २९ - इह मा भूत् ।४ - २९ - नार्कुटः नार्पत्यः इति ।५ - २९ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।६ - २९ - किम् कारणम् ।७ - २९ - बहिरङलक्षणत्वात् ।८ - २९ - बहिरङ्गः रेफः ।९ - २९ - अन्तरङ्गः विसर्जनीयः ।१० - २९ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।११ - २९ - न एषः युक्तः परिहारः ।१२ - २९ - अन्तरङ्गम् बहिरङ्गम् इति प्रतिद्वन्द्वभाविनौ एतौ पक्षौ ।१३ - २९ - सति अन्तरङ्गे बहिरङ्गम् सति बहिरङ्गे अन्तर्गम् ।१४ - २९ - न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति ।१५ - २९ - किम् कारणम् ।१६ - २९ - असिद्धत्वात् ।१७ - २९ - न च अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति ।१८ - २९ - तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य ।१९ - २९ - अनिमित्तम् बहिरङ्गम् अन्तरङ्गस्य ।२० - २९ - किम् कारणम् ।२१ - २९ - असिद्धत्वात् ।२२ - २९ - कथम् असिद्धत्वम् यावता पूर्वत्र असिद्धम् इति असिद्धा परिभाषा ।२३ - २९ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।२४ - २९ - कथम् ।२५ - २९ - कार्यकालम् सञ्ज्ञापरिभाषम् इति खरवसानयोर्विसर्जनीयः उपस्थितम् इदम् भवति असिद्धम् बहिरङ्गम् अन्तरङ्गे इति ।२६ - २९ - एवम् एषा सिद्धा परिभाषा भवति ।२७ - २९ - कुतः नु खलु एतत् द्वयोः परिभाषयोः सावकाशयोः समवस्थितयोः पूर्वत्र असिद्धम् इति च असिद्धम् बहिरङ्गम् अन्तरङ्गे इति च पूर्वत्रासिद्धम् इति एताम् उपमृद्य असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एतया व्यवस्था भविष्यति न पुनः असिद्धम् बहिरङ्गम् अन्तरङ्गे इति एताम् उपमृद्य पुर्वत्रासिद्धम् इति एतया व्यवस्था स्यात् ।२८ - २९ - अतः किम् ।२९ - २९ - अतः अयुक्तः परिहारः न वा बहिरङ्गलक्षणत्वात् इति१ - ५ - किमर्थम् इदम् उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धम् ।२ - ५ - नियमार्थः अयम् आरम्भः ।३ - ५ - रोः एव सुपि न अन्यस्य सुपि ।४ - ५ - क्व मा भूत् ।५ - ५ - गीर्षु धूर्षु१ - २४ - अश्ग्रहणम् अनर्थकम् अन्यत्र अभावात् ।२ - २४ - अश्ग्रहणम् अनर्थकम् ।३ - २४ - किम् कारणम् ।४ - २४ - अन्यत्र अभावात् ।५ - २४ - न हि अन्यत्र रुः अस्ति अन्यत् अतः अशः ।६ - २४ - ननु च अयम् अस्ति. छन्दःसु पयःसु इति ।७ - २४ - किम् पुनः कारणम् सुकारपरः एव उदाह्रियते न पुनः अयम् वृक्षः तत्र प्लक्षः तत्र इति ।८ - २४ - अस्ति अत्र विशेषः ।९ - २४ - विसर्जनीये कृते न भविष्यति ।१० - २४ - इह अपि तर्हि विसर्जनीये कृते न भविष्यति ।११ - २४ - छन्दःसु पयःस्विति ।१२ - २४ - स्थानिवद्भावात् प्राप्नोति ।१३ - २४ - ननु च इह अपि स्थानिवद्भावात् प्राप्नोति ।१४ - २४ - वृक्षः तत्र प्लक्षः तत्र इति ।१५ - २४ - अनल्विधौ स्थानिवद्भावः ।१६ - २४ - अथ अयम् अल्विधिः स्यात् शक्यम् अश्ग्रहणम् अवक्तुम् ।१७ - २४ - बाढम् शक्यम् ।१८ - २४ - अल्विधिः तर्हि भविष्यति ।१९ - २४ - कथम् ।२० - २४ - इदम् अस्ति रोरि इति ।२१ - २४ - ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः ।२२ - २४ - ततः रोः सुपि विसर्जनीयः रः इति एव ।२३ - २४ - उत्तरार्थम् तर्हि अश्ग्रहणम् कर्तव्यम् हलिसर्वेषाम् हलि अशि इति यथा स्यात् ।२४ - २४ - इह मा भूत् वृक्षवयतेः अप्रत्ययः वृक्षव् करोति१ - ४ - किमर्थम् इदम् उच्यते न लोपः शाकल्यस्य इति एव सिद्धम् ।२ - ४ - ओकारात् लोपवचनम् नित्यार्थम् ।३ - ४ - ओकारात् लोपवचनम् क्रियते ।४ - ४ - नित्यार्थः अयम् आरम्भः१ - ७ - पदे इति किमर्थम् ।२ - ७ - तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् ।३ - ७ - पदे इति शक्यम् अवक्तुम् ।४ - ७ - कस्मात् न भवति तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् इति ।५ - ७ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।६ - ७ - उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ङमोह्रस्वादचिङमुण्नित्यम् इति अपदे मा भूत् ।७ - ७ - दण्डिना शकटिना१ - ५ - यवलपरे यवलाः वा ।२ - ५ - यवलपरे हकारे यवलाः वा इति वक्तव्यम् ।३ - ५ - किय्ह्यः किम् ह्यः ।४ - ५ - किव्ह्वलयति किम् ह्वलयति ।५ - ५ - किल्ह्लादयति किम् ह्लादयति१ - ३० - इह धुडादिषु केचित् पूर्वान्ताः केचित् परादयः ।२ - ३० - यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः ।३ - ३० - कः च अत्र विशेषः ।४ - ३० - धुगादिषु ष्टुत्वणत्वप्रतिषेधः ।५ - ३० - धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः ।६ - ३० - ष्टुत्वस्य तावत् ।७ - ३० - श्वलिट्त्साये ।८ - ३० - मधुलिट्त्साये ।९ - ३० - ष्टुनाष्टुः इति ष्टुत्वम् प्राप्नोति ।१० - ३० - परादौ पुनः सति नपदान्ताट्टोरनाम् इति प्रतिषेधः सिद्धः भवति ।११ - ३० - णत्वस्य ।१२ - ३० - कुर्वन्नास्ते ।१३ - ३० - कृषन्नास्ते ।१४ - ३० - रषाभ्यान्नोणःसमानपदे इत् णत्वम् प्राप्नोति ।१५ - ३० - परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति ।१६ - ३० - सन्तु तर्हि परादयः ।१७ - ३० - परादौ छत्वषत्वविधिप्रतिषेधः । यदि परादयः छत्वम् विधेयम् षत्वम् च प्रतिषेध्यम् ।१८ - ३० - छत्वम् विधेयम् ।१९ - ३० - कुर्वञ्च्छेते ।२० - ३० - कृषञ्च्छेते ।२१ - ३० - यत् हि तत् शश्छोऽटि इति झयः पदान्तात् इति एवम् तत् ।२२ - ३० - किम् पुनः कारणम् झयः पदान्तात् इति एवम् तत् ।२३ - ३० - इह मा भूत् ।२४ - ३० - पुरा क्रूरस्य विसृपः विरप्शिन् इति ।२५ - ३० - षत्वम् च प्रतिषेध्यम् ।२६ - ३० - प्रत्यङ्क्सिञ्च ।२७ - ३० - उदङ्क्सिञ्च ।२८ - ३० - आदेशप्रत्यययोः इति षत्वम् प्राप्नोति ।२९ - ३० - पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति ।३० - ३० - तस्मात् सन्तु यथान्यासम् एव केचित् पूर्वान्ताः केचित् परादयः ।१ - ८ - अयम् तु खलु शि तुक् छत्वार्थम् नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।२ - ८ - न एषः दोषः ।३ - ८ - श्चुत्वे योगविभागः करिष्यते ।४ - ८ - इदम् अस्ति क्षुभ्नादिषु न णकारः भवति ।५ - ८ - ततः स्तोः श्चुना ।६ - ८ - स्तोः श्चुना सन्निपाते न णकारः भवति ।७ - ८ - ततः श्चुः ।८ - ८ - श्चुः च भवति स्तोः श्चुना सन्निपाते१ - २८ - ङमुटि पदादिग्रहणम् ।२ - २८ - ङमुटि पदादिग्रहणम् कर्तव्यम् ।३ - २८ - इह मा भूत् ।४ - २८ - दण्डिना शकटिना इति ।५ - २८ - तत् तर्हि वक्तव्यम् ।६ - २८ - न वक्तव्यम् ।७ - २८ - पदात् इति वर्तते ।८ - २८ - एवम् अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति ।९ - २८ - न एषः दोषः ।१० - २८ - उक्तम् एतत् उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।११ - २८ - एवम् अपि पदात् इति वक्तव्यम् ।१२ - २८ - यत् हि तत् प्रकृतम् प्राक् सुपि कुत्सनात् इति एवम् तत् ।१३ - २८ - एवम् तर्हि ङमः एव अयम् ङमुट् क्रियते ।१४ - २८ - कथम् ।१५ - २८ - पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी ।१६ - २८ - का तर्हि ।१७ - २८ - सम्बन्धषष्ठी ।१८ - २८ - पदान्तस्य ङमः ङमुट् भवति ह्रस्वात् उत्तरस्य अचि इति ।१९ - २८ - यदि ङमः एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति ।२० - २८ - पदान्तस्य न इति प्रतिषेधः भविष्यति ।२१ - २८ - पदान्तस्य इति उच्यते न एषः पदान्तः ।२२ - २८ - पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते ।२३ - २८ - एवम् अपि न सिध्यति ।२४ - २८ - किम् कारणम् ।२५ - २८ - उक्तम् एतत् न वा पदाधिकारस्य विशेषणत्वात् इति ।२६ - २८ - एवम् तर्हि पदे इति वर्तते ।२७ - २८ - क्व प्रकृतम् ।२८ - २८ - उञि च पदे इति१ - ९ - किमर्थम् मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धम् ।२ - ९ - न सिध्यति ।३ - ९ - प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति ।४ - ९ - यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति ।५ - ९ - न एवम् शक्यम् ।६ - ९ - इह हि दोषः स्यात् ।७ - ९ - किम्वावपनम् महत् ।८ - ९ - मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत ।९ - ९ - वत्वे पुनः सति असिद्धत्वात् न भविष्यति१ - ३१ - इह कस्मात् न भवति वृक्षः , प्लक्षः इति ।२ - ३१ - संहितायाम् इति वर्तते ।३ - ३१ - एवम् अपि अत्र प्राप्नोति ।४ - ३१ - किम् कारणम् ।५ - ३१ - परः सन्निकर्षः संहिता इति उच्यते ।६ - ३१ - सः यथा एव परेण परः सन्निकर्षः एवम् पूर्वेण अपि ।७ - ३१ - एवम् तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधिष्यते ।८ - ३१ - अथ वा संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते साधीयः यः परः सन्निकर्षः इति ।९ - ३१ - कः च साधीयः ।१० - ३१ - यः पूर्वपरयोः ।११ - ३१ - यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधते अथ अपि संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति ।१२ - ३१ - इष्यन्ते इतः उत्तरम् अवसाने संहिताकार्याणि तानि न सिध्यन्ति ।१३ - ३१ - अणः अप्रगृह्यस्य अनुनासिकः इति ।१४ - ३१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् खरवसानयोर्विस्जनीयः इति आह ।१५ - ३१ - इतरथा खरवसानयोः सः भवति इति एव ब्रूयात् ।१६ - ३१ - तत् च लघु भवति विसर्जनीयस्य सः इति एतत् च न वक्तव्यं भवति ।१७ - ३१ - अवश्यम् शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थम् विसर्जनीयग्रहणम् कर्तव्यम् ।१८ - ३१ - अथ इदानीम् एतत् अपि रसान्निध्यार्थम् पुरस्तात् अपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवम् अपि कुप्वोः Xक्कXप्पौ च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नम् भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणम् कर्तव्यम् स्यात् ।१९ - ३१ - एवम् अपि एकम् विसर्जनीयग्रहणम् व्याजः भवति ।२० - ३१ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति ।२१ - ३१ - एवम् अपि अनैकान्तिकम् ज्ञापकम् ।२२ - ३१ - एतावत् ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वम् भवति इति तत्र कुतः एतत् इह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति ।२३ - ३१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् शर्परे विसर्जनीयः इति आह ।२४ - ३१ - अथ वा हलि इति वर्तते ।२५ - ३१ - क्व प्रकृतम् ।२६ - ३१ - हलि सर्वेषाम् इति ।२७ - ३१ - यदि तत् अनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वम् प्राप्नोति ।२८ - ३१ - शमु नः ।२९ - ३१ - शमु योः अस्तु ।३० - ३१ - एवम् तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते ।३१ - ३१ - अथ वा सम्बन्धम् अनुवर्तिष्यते१ - ४ - वाशर्प्रकरणे खर्परे लोपः ।२ - ४ - वाशर्प्रकरणे खर्परे लोपः वक्तव्यः ।३ - ४ - वृक्षाः स्थातारः ।४ - ४ - वृक्षाः स्थातारः१ - ३२ - सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः ।२ - ३२ - सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः ।३ - ३२ - विसर्जनीयादेशे हि शर्परयोः एव आदेशप्रसङ्गः । विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् ।४ - ३२ - अद्भिः प्सातम् ।५ - ३२ - वासः क्षौमम् ।६ - ३२ - वचनात् न भविष्यतः ।७ - ३२ - अस्ति वचने प्रयोजनम् ।८ - ३२ - किम् ।९ - ३२ - पुरुषः त्सरुकः ।१० - ३२ - तत् तर्हि वक्तव्यम् ।११ - ३२ - न वक्तव्यम् ।१२ - ३२ - यत् एतत् विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवर्तिष्यते तस्मिन् च शर्परे विसर्जनीयः असिद्धः ।१३ - ३२ - न असिद्धः ।१४ - ३२ - कथम् ।१५ - ३२ - अधिकारः नाम त्रिप्रकारः ।१६ - ३२ - कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वम् वेश्म अभिज्वलयति ।१७ - ३२ - अपरः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् ।१८ - ३२ - अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।१९ - ३२ - तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एतत् विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवृत्तम् सत् अन्यत् सम्पद्यते तस्मिन् च शर्परे विसर्जनीयः सिद्धः ।२० - ३२ - एवम् च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् ।२१ - ३२ - अद्भिः प्सातम् ।२२ - ३२ - वासः क्षौमम् इति ।२३ - ३२ - एवम् तर्हि योगविभागः करिष्यते ।२४ - ३२ - शर्परे विसर्जनीयः ।२५ - ३२ - वा शरि ।२६ - ३२ - ततः कुप्वोः ।२७ - ३२ - कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति ।२८ - ३२ - किमर्थम् इदम् ।२९ - ३२ - कुप्वोः ह्क्कह्प्पौ वक्ष्यति तद्बाधनार्थम् ।३० - ३२ - ततः ह्क्कह्प्पौ भवतः कुप्वोः इति एव ।३१ - ३२ - शर्परयोः इति निवृत्तम् ।३२ - ३२ - अथ वा शर्परेविसर्जनीयः इति एतत् कुप्वोः ह्क्कह्प्पौ च इति अत्र अनुवर्तिष्यते१ - ३४ - सः अपदादौ अनव्ययस्य ।२ - ३४ - सः अपदादौ अनव्ययस्य इति वक्तव्यम् ।३ - ३४ - इह मा भूत् ।४ - ३४ - प्रातःकल्पम् पुनःकल्पम् ।५ - ३४ - रोः काम्ये नियमार्थम् । रोः काम्ये इति वक्तव्यम् ।६ - ३४ - किम् प्रयोजनम् ।७ - ३४ - नियमार्थम् ।८ - ३४ - रोः एव काम्ये न अन्यस्य ।९ - ३४ - पयस्काम्यति ।१० - ३४ - क्व मा भूत् ।११ - ३४ - गीःकाम्यति पूःकाम्यति ।१२ - ३४ - उपध्मानीयस्य च सत्वम् वक्तव्यम् ।१३ - ३४ - किम् प्रयोजनम् ।१४ - ३४ - अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् ।१५ - ३४ - यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति ।१६ - ३४ - दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति ।१७ - ३४ - यदि दकारोपधः पठ्यते का रूपसिद्धिः उब्जिता उब्जितुम् इति ।१८ - ३४ - असिद्धे भः उद्जेः ।१९ - ३४ - इदम् अस्ति स्तोःश्चुनाश्चुः ।२० - ३४ - ततः वक्ष्यामि ।२१ - ३४ - भः उद्जेः ।२२ - ३४ - उद्जेः च श्चुना सन्निपाते भः भवति इति ।२३ - ३४ - तत् तर्हि वक्तव्यम् ।२४ - ३४ - न वक्तव्यम् ।२५ - ३४ - निपातनात् एतत् सिद्धम् ।२६ - ३४ - किम् निपातनम् ।२७ - ३४ - भुजन्युब्जौपाण्युपतापयोः इति ।२८ - ३४ - इह अपि प्राप्नोति ।२९ - ३४ - अभ्युद्गः समुद्गः ।३० - ३४ - अकुत्वविषये निपातनम् ।३१ - ३४ - अथ वा न एतत् उब्जेः रूपम् ।३२ - ३४ - किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते ।३३ - ३४ - अभ्युद्गतः अभ्युद्गः ।३४ - ३४ - समुद्गतः समुद्गः१ - ४१ - किम् अविशेषेण सत्वम् उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वम् उच्यते आहोस्वित् इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते ।२ - ४१ - किम् च अतः ।३ - ४१ - यदि अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति ।४ - ४१ - अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते सत्वम् अपि अनुवर्तते उताहो न ।५ - ४१ - किम् च अतः ।६ - ४१ - यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।७ - ४१ - अथ निवृत्तम् नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणम् कर्तव्यम् ।८ - ४१ - तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न ।९ - ४१ - किम् च अतः ।१० - ४१ - यदि अनुवर्तते षत्वम् अपि प्राप्नोति ।११ - ४१ - अथ निवृत्तम् इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणम् कर्तव्यम् ।१२ - ४१ - तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न ।१३ - ४१ - किम् च अतः ।१४ - ४१ - यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।१५ - ४१ - अथ निवृत्तम् तिरसः अन्यतरस्याम् इति अत्र सकारग्रहणम् कर्तव्यम् ।१६ - ४१ - तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न ।१७ - ४१ - किम् च अतः ।१८ - ४१ - यदि अनुवर्तते षत्वम् अपि प्राप्नोति ।१९ - ४१ - अथ निवृत्तम् द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणम् कर्तव्यम् ।२० - ४१ - तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न ।२१ - ४१ - किम् च अतः ।२२ - ४१ - यदि अनुवर्तते सत्वम् अपि प्राप्नोति ।२३ - ४१ - अथ निवृत्तम् अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणम् कर्तव्यम् ।२४ - ४१ - यथा इच्छसि तथा अस्तु ।२५ - ४१ - अस्तु तावत् अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते ।२६ - ४१ - ननु च उक्तम् निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति ।२७ - ४१ - न एषः दोषः ।२८ - ४१ - आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः ।२९ - ४१ - किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति यत् अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति असमासेपिग्रहणम् करोति ।३० - ४१ - अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वम् विधीयते ।३१ - ४१ - ननु च उक्तम् सत्वम् अपि अनुवर्तते उताहो न किम् च अतः यदि अनुवर्तते सत्वम् अपि प्राप्नोति इति ।३२ - ४१ - न एषः दोषः ।३३ - ४१ - सम्बन्धम् अनुवर्तिष्यते ।३४ - ४१ - सः अपदादौ ।३५ - ४१ - इणःषः ।३६ - ४१ - नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः ।३७ - ४१ - इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः ।३८ - ४१ - तिरसः अन्यतरस्याम् सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः ।३९ - ४१ - द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्याम् सकारः ।४० - ४१ - अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य ।४१ - ४१ - सकारः अनुवर्तते षकारग्रहणम् निवृत्तम्१ - १२ - इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः ।२ - १२ - इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः वक्तव्यः ।३ - १२ - पुंस्कामा मुहुःकामः इति ।४ - १२ - वृद्धिभूतानाम् षत्वम् वक्तव्यम् ।५ - १२ - दौष्कुल्यम् नैष्पुरुष्यम् ।६ - १२ - प्लुतानाम् तादौ च । प्लुतानाम् तादौ च कुप्वोः च इति वक्तव्यम् ।७ - १२ - सर्पि३ष्टर ।८ - १२ - बर्ही३ष्टर नि३ष्कुल दु३ष्पुरुष ।९ - १२ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् ।१० - १२ - किम् कारणम् ।११ - १२ - बहिरन्गलक्षणत्वात् वृद्धेः ।१२ - १२ - बहिरङ्गलक्षणा वृद्धिः१ - ९ - इह कस्मात् न भवति ।२ - ९ - पितुः करोति ।३ - ९ - मातुः करोति ।४ - ९ - अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत ।५ - ९ - अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् ।६ - ९ - लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति ।७ - ९ - एवम् तर्हि ।८ - ९ - भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।९ - ९ - यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति१ - ३९ - द्विस्त्रिश्चतुर्ग्रहणम् किमर्थम् ।२ - ३९ - इह मा भूत् ।३ - ३९ - पञ्चकृत्वः करोति ।४ - ३९ - अथ कृत्वोर्थग्रहणम् किमर्थम् ।५ - ३९ - इह मा भूत् ।६ - ३९ - चतुष्कपालः चतुष्कण्टकः इति ।७ - ३९ - न एतत् अस्ति ।८ - ३९ - अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति ।९ - ३९ - न अप्राप्ते पूर्वेण इयम् विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवम् चतुष्कपाले अपि बाधिका स्यात् ।१० - ३९ - न अत्र पूर्वेण षत्वम् प्राप्नोति ।११ - ३९ - किम् कारणम् ।१२ - ३९ - अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् ।१३ - ३९ - लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति ।१४ - ३९ - तस्मात् कृत्वोर्थग्रहणम् कर्तव्यम् ।१५ - ३९ - द्विस्त्रिश्चतुर्ग्रहणम् शक्यमवक्तुम् ।१६ - ३९ - कस्मात् न भवति पञ्चकृत्वः करोति इति ।१७ - ३९ - इदुदुपधस्य इति वर्तते ।१८ - ३९ - न एवम् शक्यम् ।१९ - ३९ - अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत ।२० - ३९ - तत्र कः दोषः ।२१ - ३९ - इह एव स्यात् द्विष्करोति द्विः करोति ।२२ - ३९ - इह न स्यात् चतुष्करोति चतुः करोति इति ।२३ - ३९ - द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते ।२४ - ३९ - द्विस्त्रिश्चतुर्णाम् कृत्रोऽर्थे वर्तमानानाम् यः विसर्जनीयः इति ।२५ - ३९ - एतत् अपि न अस्ति प्रयोजनम् ।२६ - ३९ - पदस्य इति वर्तते तत् कृत्वोऽर्थग्रहणेन विशेषयिष्यः ।२७ - ३९ - पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति ।२८ - ३९ - कृत्वसुजर्थे षत्वम् ब्रवीति ।२९ - ३९ - कस्मात् चतुष्कपाले मा ।३० - ३९ - षत्वम् विभाषया भूत् ।३१ - ३९ - ननु सिद्धम् तत्र पूर्वेण ।३२ - ३९ - सिद्धे हि अयम् विधत्ते चतुरः षत्वम् तदा अपि क्र्त्वोऽर्थे ।३३ - ३९ - लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि ।३४ - ३९ - एवम् सति तु इदानीम् द्विः त्रिः चतुः इति अनेन किम् कार्यम् ।३५ - ३९ - अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चित् अपि अस्ति ।३६ - ३९ - अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत ।३७ - ३९ - चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि ।३८ - ३९ - तस्मिन् तु गृह्यमाणे युक्तम् चतुरः विशेषणम् भवति ।३९ - ३९ - प्रकृतम् पदम् तदन्तम् तस्य अपि विशेषणम् न्याय्यम्१ - २९ - अनुत्तरपदस्थस्य इति किमर्थम् ।२ - २९ - परमसर्पिःकुण्डिका ।३ - २९ - अथ इदानीम् अनेन मुक्ते पूर्वेण षत्वम् विभाषा कस्मात् न भवति इसुसोः सामर्थ्ये इति ।४ - २९ - नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः ।५ - २९ - तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह ।६ - २९ - व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यम् ।७ - २९ - किम् पुनः कारणम् व्यपेक्षासामर्थ्यम् आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र ।८ - २९ - ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत । ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वम् न स्यात् सर्पिष् करोति ।९ - २९ - सर्पिः करोति इति ।१० - २९ - तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते ।११ - २९ - अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः । यदि कृदन्तम् एतत् ततः अधिकस्य षत्वम् न प्राप्नोति ।१२ - २९ - किम् कारणम् ।१३ - २९ - प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति ।१४ - २९ - वाक्ये अपि तर्हि न प्राप्नोति ।१५ - २९ - परमसर्पिष्करोति परमसर्पिः करोति इति ।१६ - २९ - वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत । यत् अयम् अनुत्तरपदस्थस्य इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति ।१७ - २९ - अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् । अथ अव्युत्पन्नम् प्रातिपदिकम् ततः नित्ये षत्वे प्राप्ते इयम् विभाषा आरभ्यते ।१८ - २९ - सिद्धम् च मे समासे ।१९ - २९ - षत्वम् ।२० - २९ - किमर्थम् तर्हि इदम् उच्यते ।२१ - २९ - प्रतिषेधार्थः तु यत्नः अयम् । अनुत्तरपदस्थस्य इति प्रतिषेधम् वक्ष्यामि इति ।२२ - २९ - नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः ।२३ - २९ - तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह ।२४ - २९ - ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत ।२५ - २९ - तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते ।२६ - २९ - अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः ।२७ - २९ - वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत ।२८ - २९ - अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् ।२९ - २९ - सिद्धम् च मे समासे प्रतिषेधार्थः तु यत्नः अयम् ।१ - १२ - अथ मूर्धन्यग्रहणम् किमर्थम् न अपदान्तस्य षः भवति इति एव उच्येत ।२ - १२ - तत्र अयम् अपि अर्थः षकारग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते ।३ - १२ - क्व प्रकृतम् ।४ - १२ - इणःषः इति ।५ - १२ - न एवम् शक्यम् ।६ - १२ - अवश्यम् मूर्धन्यग्रहणम् कर्तव्यम् इहार्थम् उत्तरार्थम् च ।७ - १२ - इहार्थम् तावत् ।८ - १२ - इणःषीध्वंलुङ्लिटाम्धोऽङ्गात् इति अत्र ंऊर्धन्यग्रहणम् न कर्तव्यम् भवति ।९ - १२ - उत्तरार्थम् च ।१० - १२ - रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणम् न कर्तव्यम् भवति ।११ - १२ - तत्र अयम् अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति ।१२ - १२ - अपदान्ताभिसम्बद्धम् मूर्धन्यग्रहणम् अनुवर्तते । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP