पाद ४ - खण्ड ८१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ५४ - अथ णिग्रहणम् किमर्थम् न चङि उपधायाः ह्रस्वः इति एव उच्येत ।

२ - ५४ - चङि उपधायाः ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , ऊकारस्य एव ह्रस्वत्वम् प्रसज्येत ।

३ - ५४ - न एतत् अस्ति प्रयोजनम् ।

४ - ५४ - वृद्धिः अत्र बाधिका भविष्यति ।

५ - ५४ - वृद्धौ तर्हि कृतायाम् औकारस्य एव ह्रस्वत्वम् प्रसज्येत ।

६ - ५४ - न एतत् अस्ति ।

७ - ५४ - अन्तरङ्गत्वात् अत्र आवादेशः भविष्यति ।

८ - ५४ - न हि इदानीम् ह्रस्वभाविनी उपधा भवति ।

९ - ५४ - तस्मात् णिग्रहणम् कर्तव्यम् ।

१० - ५४ - अथ चङ्ग्रहणम् किमर्थम् न णौ उपधायाः इति एव सिद्धम् ।

११ - ५४ - णौ उपधायाः ह्रस्वः इति इयति उच्यमाने , कारयति , हारयति इति अत्र अपि प्रसज्येत ।

१२ - ५४ - न एतत् अस्ति प्रयोजनम् ।

१३ - ५४ - आचार्यप्रवृत्तिः ज्ञापयति न णौ एव ह्रस्वत्वम् भवति इति यत् अयम् मिताम् ह्रस्वत्वम् शास्ति ।

१४ - ५४ - इह अपि तर्हि न प्राप्नोति ।

१५ - ५४ - अचीकरत् , अजीहरत् ।

१६ - ५४ - वचनात् भविष्यति ।

१७ - ५४ - इह अपि तर्हि वचनात् प्राप्नोति ।

१८ - ५४ - कारयति , हारयति ।

१९ - ५४ - तस्मात् चङ्ग्रहणम् कर्तव्यम् ।

२० - ५४ - अथ उपधाग्रहणम् किमर्थम् ।

२१ - ५४ - णौ चङि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् ।

२२ - ५४ - णौ चङि उपधाग्रहणम् क्रियते अन्त्यस्य ह्रस्त्वत्वम् मा भूत् ।

२३ - ५४ - णौ चङि ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , अन्त्यस्य एव ह्रस्वत्वम् प्रसज्येत ।

२४ - ५४ - न एतत् अस्ति प्रयोजनम् ।

२५ - ५४ - अन्तरङ्गत्वात् अत्र आवादेशः भवति ।

२६ - ५४ - न हि इदानीम् ह्रस्वभावी अन्त्यः अस्ति ।

२७ - ५४ - अन्त्यः ह्रस्वभावी न अस्ति इति कृत्वा वचनात् अनन्त्यस्य भविष्यति ।

२८ - ५४ - इह अपि वचनात् प्राप्नोति ।

२९ - ५४ - अचकाङ्क्षत् , अववाञ्छत् ।

३० - ५४ - येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

३१ - ५४ - केन च न अव्यवधानम् ।

३२ - ५४ - वर्णेन ।

३३ - ५४ - एतेन पुनः सङ्घतेन वय्वधानम् भवति न भवति च ।

३४ - ५४ - उत्तरार्थम् तर्हि उपधाग्रहणम् कर्तव्यम् ।

३५ - ५४ - लोपः पिबतेः ई च अभ्यासस्य उपधायाः यथा स्यात् ।

३६ - ५४ - अपीप्यत् , अपीप्यताम् , अपीप्यन् ।

३७ - ५४ - अथ इह कथम् भवितव्यम् ।

३८ - ५४ - मा भवान् अटिटत् इति ।

३९ - ५४ - आहोस्वित् मा भवान् आटिटत् इति ।

४० - ५४ - मा भवान् आटिटत् इति भवितव्यम् ।

४१ - ५४ - ह्रस्वत्वम् कस्मात् न भवति ।

४२ - ५४ - द्विर्वचने कृते परेण रूपेण व्यवहितम् इति कृत्वा ।

४३ - ५४ - इदम् इह सम्प्रधार्यम् ।

४४ - ५४ - द्विर्वचनम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् ।

४५ - ५४ - परत्वात् ह्रस्वत्वम् ।

४६ - ५४ - नित्यम् द्विर्वचनम् ।

४७ - ५४ - कृते ह्रस्वत्वे प्राप्नोति अकृते अपि ।

४८ - ५४ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति द्विर्वचनात् ह्रस्वत्वम् बलीयः इति यत् अयम् ओणिम् ऋदितम् करोति ।

४९ - ५४ - कथम् कृत्वा ज्ञापकम् ।

५० - ५४ - ऋदित्करणे एतत् प्रयोजनम् ऋदिताम् न इति प्रतिषेधः यथा स्यात् ।

५१ - ५४ - यदि च अत्र पूर्वम् द्विर्वचनम् स्यात् ऋदित्करणम् अनर्थकम् स्यात् ।

५२ - ५४ - द्विर्वचने कृते परेण व्यवहितत्वात् ह्रस्वत्वम् न भविष्यति ।

५३ - ५४ - पश्यति तु आचार्यः द्विर्वचनात् ह्रस्वत्वम् बलीयः इति ततः ओणिम् ऋदितम् करोति ।

५४ - ५४ - तस्मात् मा भवान् अटिटत् इति एव भवितव्यम्

१ - २९ - उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानात् ।

२ - २९ - उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् वादितवन्तम् प्रयोजितवान् अवीवदद्वीणाम् परिवादकेन ।

३ - २९ - किम् पुनः कारणम् न सिध्यति ।

४ - २९ - णिचा व्यवहितत्वात् ।

५ - २९ - णिलोपे कृते न अस्ति व्यवधानम् ।

६ - २९ - स्थानिवद्भावात् व्यवधानम् एव ।

७ - २९ - प्रतिषिध्यते अत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवत् इति ।

८ - २९ - एवम् अपि अग्लोपिनाम् न इति प्रतिषेधः प्राप्नोति ।

९ - २९ - वृद्धौ कृतायाम् लोपः तत् न अग्लोपै अङ्गम् भवति ।

१० - २९ - इदम् इह सम्प्रधार्यम् ।

११ - २९ - वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

१२ - २९ - परत्वात् वृद्धिः ।

१३ - २९ - नित्यः लोपः ।

१४ - २९ - कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि ।

१५ - २९ - अनित्यः लोपः ।

१६ - २९ - अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

१७ - २९ - उभयोः अनित्ययोः परत्वात् वृद्धिः ।

१८ - २९ - वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति ।

१९ - २९ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति वृद्धेः लोपः बलीयान् इति यत् अयम् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति ।

२० - २९ - न एतत् अस्ति ज्ञापकम् ।

२१ - २९ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

२२ - २९ - किम् ।

२३ - २९ - यत्र वृद्धौ अपि कृतायाम् एव लुप्यते ।

२४ - २९ - अत्यरराजत् ।

२५ - २९ - यत् तर्हि प्रत्याहारग्रहणम् करोति ।

२६ - २९ - इतरथा हि अलोपिनाम् न इति ब्रूयात् ।

२७ - २९ - एवम् वा वृद्धेः लोपः बलीयान् इति ।

२८ - २९ - अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् इति ।

२९ - २९ - तस्मात् उपसङ्ख्यानम् कर्तव्यम् इति

१ - २८ - अग्लोपिप्रतिषेधानर्थक्यम् च स्थानिवद्भावात् ।

२ - २८ - अग्लोपिप्रतिषेधः च अनर्थकः ।

३ - २८ - किम् कारणम् ।

४ - २८ - स्थानिवद्भावात् ।

५ - २८ - स्थानिवद्भावात् अत्र ह्रस्वत्वम् न भविष्यति ।

६ - २८ - यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः ।

७ - २८ - क्व स्थानिवद्भावः न अस्ति ।

८ - २८ - यः हलचोः आदेशः ।

९ - २८ - अत्यरराजत् ।

१० - २८ - किम् पुनः कारणम् हलचोः आदेशः न स्थानिवत् इति उच्यते ।

११ - २८ - अजादेशः स्थानिवत् इति उच्यते न च अयम् अचः एव आदेशः ।

१२ - २८ - किम् तर्हि अचः अन्यस्य च ।

१३ - २८ - अग्लोपिनाम् न इति अपि तर्हि प्रतिषेधः न प्राप्नोति ।

१४ - २८ - किम् कारणम् ।

१५ - २८ - अग्लोपिनाम् न इति उच्यते न च अत्र अच् एव लुप्यते ।

१६ - २८ - किम् तर्हि ।

१७ - २८ - अच् च अन्यः च ।

१८ - २८ - यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भविष्यति ।

१९ - २८ - यथा एव तर्हि यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भवति एवम् यः अत्र अच् लुप्यते तदाश्रयः स्थानिवद्भावः भविष्यति ।

२० - २८ - एवम् तर्हि सिद्धे सति यत् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः इतः उत्तरम् स्थानिवद्भावः न भवति इति ।

२१ - २८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२२ - २८ - पूर्वत्र असिद्धे न स्थानिवत् इति उक्तम् तत् न वक्तव्यम् भवति ।

२३ - २८ - यदि एतत् ज्ञाप्यते , आदीधयतेः आदीधकः , आवेवयतेः आवेवकः ।

२४ - २८ - यीवर्णयोः दीधीवेव्योः इति लोपः न प्राप्नोति ।

२५ - २८ - इह च यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति ।

२६ - २८ - न एषः दोषः ।

२७ - २८ - यत् तावत् उच्यते आदीधयतेः आदीधकः , आवेवयतेः आवेवकः , यीवर्णयोः इति लोपः न प्राप्नोति इति यीवर्णयोः इति अत्र वर्णग्रहणसामर्थ्यात् भविष्यति ।

२८ - २८ - यत् अपि उच्यते यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति इति बहिरङ्गः यणादेशः अन्तरङ्गः स्वरः असिद्धम् बहिरङ्गम् अन्तरङ्गे

१ - ४ - काण्यादीनाम् च इति वक्तव्यम् ।

२ - ४ - के पुनः काण्यादयः ।

३ - ४ - काणिराणिश्राणिभाणिहेठिलोपयः ।

४ - ४ - अचकाणत् , अचीकणत् , अरराणत् , अरीरणत् , अशश्राणत् , अशीश्रणत् , अबभाणत् , अबीभणत् , अजिहेठत् , अजीहिठत् , अलुलोपत् , अलूलुपत्

१ - २५ - इह अवदिग्ये , अवदिग्याते , अवदिग्यरे दिग्यादेशे कृते द्विर्वचनम् प्राप्नोति तत्र साभ्यासस्य इति वक्तव्यम् ।

२ - २५ - ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशः भविष्यति ।

३ - २५ - न सिध्यति ।

४ - २५ - किम् कारणम् ।

५ - २५ - दिग्यादेशस्य परत्वात् साभ्यासस्य आदेशवचनम् ।

६ - २५ - दिग्यादेशः क्रियताम् द्विर्वचनम् इति परत्वात् दिग्यादेशेन भवितव्यम् ।

७ - २५ - तत्र साभ्यासस्य इति वक्तव्यम् ।

८ - २५ - एवम् तर्हि दिग्यादेशः द्विर्वचनम् बाधिष्यते ।

९ - २५ - पुनःप्रसङ्गविज्ञानात् द्विर्वचनम् प्राप्नोति ।

१० - २५ - पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् ।

११ - २५ - पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति ।

१२ - २५ - तत् यथा ।

१३ - २५ - अमादिषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुमः न भवन्ति ।

१४ - २५ - एवम् दिग्यादेशे कृते पुनःप्रसङ्गात् द्विर्वचनम् न भविष्यति ।

१५ - २५ - अथ वा विप्रतिषेधे पुनःप्रसङ्गः इति उच्यते विप्रतिषेधः च द्वयोः सावकशयोः ।

१६ - २५ - इह पुनः अनवकाशः दिग्यादेशः द्विर्वचनम् बाधिष्यते ।

१७ - २५ - यदि तर्हि अनवकाशाः विधयः बाधकाः भवन्ति , बभूव , भूभावः द्विर्वचनम् बाधेत ।

१८ - २५ - सावकाशः भूभावः ।

१९ - २५ - कः अवकाशः ।

२० - २५ - भविता , भवितुम् ।

२१ - २५ - इह तर्हि चक्षिङः ख्याञ् वा लिटि इति ख्याञ् द्विर्वचनम् बाधेत ।

२२ - २५ - इह च अपि बभूव इति यदि तावत् स्थाने द्विर्वचनम् भूभावः सर्वादेशः प्राप्नोति अथ द्विःप्रयोगः द्विर्वचनम् परस्य भूभावे कृते पूर्वस्य श्रवणम् प्राप्नोति ।

२३ - २५ - न एषः दोषः ।

२४ - २५ - आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

२५ - २५ - तत्र आर्धधातुकसामान्ये भूभावे कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति

१ - ३० - संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् ।

२ - ३० - संयोगादेः गुणविधाने संयोगोपधग्रहणम् कर्तव्यम् ।

३ - ३० - किमर्थम् ।

४ - ३० - कृञर्थम् ।

५ - ३० - इह अपि यथा स्यात् ।

६ - ३० - सञ्चस्करतुः , सञ्चस्करुः ।

७ - ३० - यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन ।

८ - ३० - इह अपि सस्वरतुः , सस्वरुः संयोगोपधस्य इति एव सिद्धम् ।

९ - ३० - भवेत् सिद्धम् सस्वरतुः , सस्वरुः इति इदम् तु न सिध्यति सञ्चस्करतुः , सञ्चस्करुः इति ।

१० - ३० - किम् कारणम् ।

११ - ३० - सुटः बहिरङ्गलक्षणत्वात् ।

१२ - ३० - बहिरङ्गम् सुट् ।

१३ - ३० - अन्तरङ्गः गुणः ।

१४ - ३० - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१५ - ३० - संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणम् अनन्यार्थम् विज्ञायते ।

१६ - ३० - ऋतः लिटि गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन ।

१७ - ३० - ऋतः लिटि गुणाञ् ञ्ङिति वृद्धिः भवति पूर्वविप्रतिषेधेन ।

१८ - ३० - ऋतः लिटि गुणस्य अवकाशः ।

१९ - ३० - सस्वरतुः , सस्वरुः ।

२० - ३० - ञ्णिति वृद्धेः अवकाशः ।

२१ - ३० - स्वारकः , ध्वारकः ।

२२ - ३० - इह उभयम् प्राप्नोति ।

२३ - ३० - सस्वार , दध्वार ।

२४ - ३० - ञ्णिति वृद्धिः भवति पूर्वविप्रतिषेधेन ।

२५ - ३० - पुनःप्रसङ्गविज्ञानात् वा सिद्धम् ।

२६ - ३० - अथ वा पुनःप्रसङ्गात् गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः भविष्यति ।

२७ - ३० - न एषः युक्तः परिहारः ।

२८ - ३० - पुनःप्रसङ्गः नाम सः भवति यत्र तेन एव कृते प्राप्नोति तेन एव च अकृते ।

२९ - ३० - अत्र खलु गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति अकृते च अचः ञ्णिति इति ।

३० - ३० - तस्मात् सुष्ठु उच्यते लिति गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन इति

१ - १० - किमर्थम् ह्रस्वः वा इति उच्यते न गुणः वा इति उच्येत ।

२ - १० - तत्र अयम् अपि अर्थः गुणग्रहणम् न कर्तव्यम् भवति ।

३ - १० - प्रकृतम् अनुवर्तते ।

४ - १० - क्व प्रकृतम् ।

५ - १० - ऋतः च संयोगादेः गुणः इति ।

६ - १० - ऋतः ह्रस्वत्वम् इत्त्वप्रतिषेधार्थम् ।

७ - १० - ऋतः ह्रस्वत्वम् उच्यते इत्त्वप्रतिषेधार्थम् ।

८ - १० - इत्त्वम् मा भूत् इति ।

९ - १० - गुणः वा इति इयति उच्यमाने गुणेन मुक्ते इत्त्वम् प्रसज्येत ।

१० - १० - ह्रस्वः वा इति उच्यमाने ह्रस्वेन मुक्ते यथाप्राप्तः गुणः भविष्यति

१ - ९ - के अणः ह्रस्वत्वे तद्धितग्रहणम् कृन्निवृत्त्यर्थम् ।

२ - ९ - के अणः ह्रस्वत्वे तद्धितग्रहणम् कर्तव्यम् ।

३ - ९ - किम् प्रयोजनम् ।

४ - ९ - कृन्निवृत्त्यर्थम् ।

५ - ९ - कृति मा भूत् ।

६ - ९ - राका , धाका इति ।

७ - ९ - तत् तर्हि वक्तव्यम् ।

८ - ९ - न वक्तव्यम् ।

९ - ९ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि

१ - ५ - इह कस्मात् न भवति ।

२ - ५ - प्रोह्यते , उपोह्यते ।

३ - ५ - एकादेशे कृते व्यपवर्गाभावात् ।

४ - ५ - एवम् अपि आ , ऊह्यते , ओह्यते , समोह्यते ।

५ - ५ - अणः इति वर्तते

१ - १० - एतेः लिङि उपसर्गात् ।

२ - १० - एतेः लिङि उपसर्गात् इति वक्तव्यम् ।

३ - १० - इह मा भूत् ।

४ - १० - ईयात् ।

५ - १० - तत् तर्हि वक्तव्यम् ।

६ - १० - न वक्तव्यम् ।

७ - १० - उपसर्गात् इति वर्तते ।

८ - १० - एवम् तर्हि आचार्यः अन्वाचष्टे उपसर्गात् इति अनुवर्तते इति ।

९ - १० - न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति ।

१० - १० - एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन्

१ - ६ - दीर्घोच्चारणम् किमर्थम् न रिङ् ऋतः इति एव उच्यते ।

२ - ६ - का रूपसिद्धिः मात्रीयति , पित्रीयति ।

३ - ६ - अकृत्सार्वधातुकयोः इति दीर्घत्वम् भविष्यति ।

४ - ६ - एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति ।

५ - ६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - ६ - पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति

१ - ७ - यङ्प्रकरणे हन्तेः हिंसायाम् ईट् ।

२ - ७ - यण्प्रकरणे हन्तेः हिंसायाम् ईट् वक्तव्यः ।

३ - ७ - जेघ्नीयते ।

४ - ७ - यदि ईट् अभ्यासरूपम् न सिध्यति ।

५ - ७ - एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् ईक् ।

६ - ७ - एवम् अपि उपधालोपः न प्राप्नोति ।

७ - ७ - एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी

१ - ९ - अत्यल्पम् इदम् उच्यते अपुत्रस्य इति ।

२ - ९ - अपुत्रादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् जनीयन्तः न्वग्रवः पुत्रीयन्तः सुदानवः ।

३ - ९ - छन्दसि प्रतिषेधे दीर्घप्रतिषेधः ।

४ - ९ - छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधः वक्तव्यः ।

५ - ९ - संस्वेदयुः , मित्रयुः ।

६ - ९ - न वा अश्वाघस्य आद्वचनम् अवधारणार्थम् ।

७ - ९ - न वा वक्तव्यम् ।

८ - ९ - किम् कारणम् ।

९ - ९ - अश्वाघस्य आद्वचनम् अवधारणार्थम् भविष्यति अश्वाघयोः एव छन्चसि दीर्घः भविष्यति न अन्यस्य इति

१ - ६ - श्यतेः इत्त्वम् व्रते नित्यम् ।

२ - ६ - श्यतेः इत्त्वम् व्रते नित्यम् इति वक्तव्यम् ।

३ - ६ - संशितव्रतः ।

४ - ६ - तत् तर्हि वक्तव्यम् ।

५ - ६ - न वक्तव्यम् ।

६ - ६ - देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः , मिथः ते न विभाष्यन्ते गवाक्षः संशितव्रतः

१ - ११ - अवदत्तम् विदत्तम् च प्रदत्तम् च आदिकर्मणि , सुदत्तम् अनुदत्तम् च निदत्तम् इति च इष्यते ।

२ - ११ - किम् पुनः अयम् तकारान्तः आहोस्वित् दकारान्तः उत धकारान्तः अथ वा थकारान्तः ।

३ - ११ - कः च अत्र विशेषः ।

४ - ११ - तान्ते दोषः दीर्घत्वम् स्यात् ।

५ - ११ - यदि तकारान्तः दस्ति इति दीर्घत्वम् प्राप्नोति ।

६ - ११ - दान्ते दोषः निष्ठानत्वम् ।

७ - ११ - अथ दकारान्तः रदाभ्याम् निष्ठातः इति नत्वम् प्राप्नोति ।

८ - ११ - धान्ते दोषः धत्वप्राप्तिः ।

९ - ११ - अथ धान्तः झषः तथोः धः अधः इति धत्वम् प्राप्नोति ।

१० - ११ - थान्ते अदोषः तस्मात् थान्तः ।

११ - ११ - अथ थकारान्तः न दोषः भवति

१ - ३८ - अचः उपसर्गात् तत्वे आकारग्रहणम् ।

२ - ३८ - अचः उपसर्गात् तत्वे आकारग्रहणम् कर्तव्यम् ।

३ - ३८ - न कर्तव्यम् ।

४ - ३८ - अलः अन्त्यस्य विधयः भवन्ति इति आकारस्य भविष्यति ।

५ - ३८ - न सिध्यति ।

६ - ३८ - किम् कारणम् ।

७ - ३८ - आदेः हि परस्य ।

८ - ३८ - अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति दकारस्य प्राप्नोति ।

९ - ३८ - न एषः दोषः ।

१० - ३८ - अवर्णप्रकरणात् सिद्धम् ।

११ - ३८ - अस्य इति वर्तते ।

१२ - ३८ - क्व प्रकृतम् ।

१३ - ३८ - अस्य द्वौ इति ।

१४ - ३८ - यदि अवर्णग्रहणम् अनुवर्तते दद्भावे दोषः भवति ।

१५ - ३८ - एवम् तर्हि एवम् वक्ष्यामि दः अद्घोः इति ।

१६ - ३८ - दः यः आकारः तस्य अत् भवति ।

१७ - ३८ - ततः अचः उपसर्गात् तः ।

१८ - ३८ - अस्य इति एव ।

१९ - ३८ - एवम् अपि सूत्रभेदः कृतः भवति ।

२० - ३८ - न असौ सूत्रभेदः ।

२१ - ३८ - सूत्रभेदम् कम् उपाचरन्ति ।

२२ - ३८ - यत्र तत् एव अन्यत् सूत्रम् क्रियते भूयः वा ।

२३ - ३८ - यत् हि तत् एव उपसंहृत्य क्रियते न असौ सूत्रभेदः ।

२४ - ३८ - अथ वा द्वितकारकः निर्देशः क्रियते सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति ।

२५ - ३८ - इह अपि तर्हि प्राप्नोति ।

२६ - ३८ - अद्भिः , अद्भ्यः इति ।

२७ - ३८ - अचः इति वर्तते ।

२८ - ३८ - तत् च अवश्यम् अज्ग्रहणम् अनुवर्त्यम् लवाभ्याम् इति एवमर्थम् ।

२९ - ३८ - अथ वा त्रितकारकः निर्देशः करिष्यते इहार्थौ द्वौ उत्तरार्थः च एकः ।

३० - ३८ - द्यतेः इत्त्वात् अचः तः ।

३१ - ३८ - द्यतेः इत्त्वात् अचः तः इति एतत् भवति विप्रतिषेधेन ।

३२ - ३८ - द्यतेः इत्त्वस्य अवकाशः ।

३३ - ३८ - निर्दितम् , निर्दितवान् ।

३४ - ३८ - अचः तः इति अस्य अवकाशः ।

३५ - ३८ - प्रत्तम् , अवत्तम् ।

३६ - ३८ - इह उभयम् प्राप्नोति ।

३७ - ३८ - नीत्तम् , वीत्तम् ।

३८ - ३८ - अचः तः इति एतत् भवति विप्रतिषेधेन

१ - ४ - अपः भि मासः छन्दसि ।

२ - ४ - अपः भि इति अत्र मासः छन्दसि उपसङ्ख्यानम् कर्तव्यम् मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा ।

३ - ४ - अत्यल्पम् इदम् उच्यते ।

४ - ४ - स्ववस्स्वतवसोः मासः उषसः च तः इष्यते स्ववद्भिः , स्वतवद्भिः , समुषद्भिः अजायथाः , मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा

१ - ५ - इस्त्वम् सनि राधः हिंसायाम् ।

२ - ५ - इस्त्वम् सनि राधः हिंसायाम् इति वक्तव्यम् ।

३ - ५ - प्रतिरित्सति ।

४ - ५ - हिंसायाम् इति किमर्थम् ।

५ - ५ - आरिरात्सति

१ - १९ - ज्ञपेः ईत्त्वम् अनन्त्यस्य ।

२ - १९ - ज्ञपेः ईत्त्वम् अनन्त्यस्य इति वक्तव्यम् ।

३ - १९ - ज्ञीप्सति ।

४ - १९ - तत् तर्हि वक्तव्यम् ।

५ - १९ - न वक्तव्यम् ।

६ - १९ - लोपः अन्त्यस्य बाधकः भविष्यति ।

७ - १९ - अनवकाशाः विधयः बाधकाः भवन्ति सावकाशः च णिलोपः ।

८ - १९ - कः अवकाशः ।

९ - १९ - कारणा , हारणा ।

१० - १९ - एवम् अपि ईत्त्वम् अन्त्यस्य लोपस्य बाधकम् स्यात् ।

११ - १९ - अनवकाशाः हि विधयः बाधकाः भवन्ति ईत्त्वम् अपि सावकाशम् ।

१२ - १९ - कः अवकाशः ।

१३ - १९ - अनन्त्यः ।

१४ - १९ - कथम् पुनः सति अन्त्ये अनन्त्यस्य ईत्त्वम् स्यात् ।

१५ - १९ - भवेत् यः अचा आङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् ।

१६ - १९ - वयम् तु खलु अङेन अचम् विशेषयिष्यामः ।

१७ - १९ - अङ्गस्य अचः यत्रतत्रस्थस्य इति ।

१८ - १९ - एवम् अपि उभयोः सावकाशयोः परत्वात् ईत्त्वम् प्राप्नोति ।

१९ - १९ - तस्मात् अनन्त्यस्य इति वक्तव्यम्

१ - ३ - अभ्यासस्य अनचि ।

२ - ३ - अभ्यासस्य इति यत् उच्यते तत् अनचि द्रष्टव्यम् ।

३ - ३ - पतापतः , चराचरः , वदावदः

१ - ३७ - किम् अयम् षष्ठीसमासः हलाम् आदिः हलादिः हलादिः शिष्यते इति ।

२ - ३७ - आहोस्वित् कर्मधारयः हल् आदिः हलादिः हलादिः शिष्यते इति ।

३ - ३७ - कः च अत्र विशेषः ।

४ - ३७ - हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषप्रसङ्गः ।

५ - ३७ - हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषः प्राप्नोति ।

६ - ३७ - आनक्ष , आनक्षतुः , आनक्षुः ।

७ - ३७ - अस्तु तर्हि कर्मधारयः ।

८ - ३७ - कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे लोपवचनम् ।

९ - ३७ - कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे आद्यस्य हलः अभवे लोपः वक्तव्यः ।

१० - ३७ - आटतुः , आटुः ।

११ - ३७ - तस्मात् अनादिलोपः ।

१२ - ३७ - तस्मात् अनादिः हल् लुप्यते इति वक्तव्यम् ।

१३ - ३७ - उक्तम् वा ।

१४ - ३७ - किम् उक्तम् ।

१५ - ३७ - प्रतिविधास्यते हलादिशेषः इति ।

१६ - ३७ - अयम् इदानीम् सः प्रतिविधानकालः ।

१७ - ३७ - इदम् प्रतिविधीयते ।

१८ - ३७ - इदम् प्रकृतम् अत्र लोपः अभ्यासस्य इति ।

१९ - ३७ - ततः वक्ष्यामि ।

२० - ३७ - ह्रस्वः ।

२१ - ३७ - ह्रस्वः भवति आदेशः ।

२२ - ३७ - अभ्यासस्य लोपः इति अनुवर्तते ।

२३ - ३७ - तत्र ह्रस्वभाविनाम् ह्रस्वः लोपभाविनाम् लोपः भविष्यति ।

२४ - ३७ - ततः हलादिः शेषः च इति ।

२५ - ३७ - अथ वा एवम् वक्ष्यामि ।

२६ - ३७ - ह्रस्वः अहल् ।

२७ - ३७ - ह्रस्वः भवति अभ्यासस्य इति ।

२८ - ३७ - ततः अहल् ।

२९ - ३७ - अहल् च भवति अभ्यासः ।

३० - ३७ - ततः आदिः शेषः ।

३१ - ३७ - आदिः शेषः भवति अभ्यासस्य इति ।

३२ - ३७ - अथ वा योगविभागः करिष्यते ।

३३ - ३७ - ह्रस्वादेशः भवति अभ्यासस्य ।

३४ - ३७ - ततः हल् ।

३५ - ३७ - हल् च लुप्यते अभ्यासस्य ।

३६ - ३७ - ततः आदिः शेषः ।

३७ - ३७ - आदिः शेषः च भवति अभ्यासस्य

१ - ३९ - शर्पूर्वशेषे खर्पूर्वग्रहणम् ।

२ - ३९ - शर्पूर्वशेषे खर्पूर्वग्रहणम् कर्तव्यम् ।

३ - ३९ - खर्पूर्वाः खयः शिष्यन्ते खरः लुप्यन्ते इति वक्तव्यम् ।

४ - ३९ - किम् प्रयोजनम् ।

५ - ३९ - उचिच्छिषति ।

६ - ३९ - व्युचिच्छिषति ।

७ - ३९ - तुकः श्रवणम् मा भूत् इति ।

८ - ३९ - तत् तर्हि वक्तव्यम् ।

९ - ३९ - न वक्तव्यम् ।

१० - ३९ - चर्त्वे कृते तुक् न भविष्यति ।

११ - ३९ - असिद्धम् चर्त्वम् तस्य असिद्धत्वात् तुक् प्राप्नोति ।

१२ - ३९ - सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति ।

१३ - ३९ - एवम् अपि अन्तरङ्गत्वात् प्राप्नोति तस्मात् खर्पूर्वग्रहणम् कर्तव्यम् ।

१४ - ३९ - न कर्तव्यम् ।

१५ - ३९ - एत्त्वतुग्ग्रहणम् न करिष्यते ।

१६ - ३९ - अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव ।

१७ - ३९ - आदिशेषप्रसङ्गः तु ।

१८ - ३९ - आदिशेषः तु प्राप्नोति ।

१९ - ३९ - तिष्ठासति ।

२० - ३९ - ननु च अनादिशेषः आदिशेषम् बाधिष्यते ।

२१ - ३९ - कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् ।

२२ - ३९ - असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

२३ - ३९ - यदि आदिशेषः अपि भवति शर्पूर्ववचनम् इदानीम् किमर्थम् स्यात् ।

२४ - ३९ - शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपप्रतिषेधार्थम् ।

२५ - ३९ - शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपः मा भूत् इति ।

२६ - ३९ - व्यपकर्षविज्ञानात् सिद्धम् ।

२७ - ३९ - व्यपकर्षविज्ञानात् सिद्धम् एतत् ।

२८ - ३९ - किम् इदम् व्यपकर्षविज्ञानात् इति ।

२९ - ३९ - अपवादविज्ञानात् ।

३० - ३९ - अपवादत्वात् अत्र अनादिशेषः आदिशेषम् बाधिष्यते ।

३१ - ३९ - ननु च उक्तम् कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् इति ।

३२ - ३९ - इदम् तावत् अयम् प्रष्टव्यः ।

३३ - ३९ - यदि तत् न उच्येत किम् इह स्यात् ।

३४ - ३९ - हलादिशेषः ।

३५ - ३९ - हलादिशेषः चेत् न अप्राप्ते हलादिशेषे इदम् उच्यते तत् बाधकम् भविष्यति ।

३६ - ३९ - यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति ।

३७ - ३९ - तत् यथा ।

३८ - ३९ - दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् बाधकम् भवति ।

३९ - ३९ - एवम् इह अपि सति अपि सम्भवे अनादिशेषः आदिशेषम् बाधिष्यते

१ - ३० - दाधर्ति इति किम् निपात्यते ।

२ - ३० - धारयतेः श्लौ अभ्यासस्य दीर्घत्वम् णिलुक् च ।

३ - ३० - अनिपात्यम् ।

४ - ३० - तूतुजानवदभ्यासस्य दीर्घत्वम् पर्णशुषिवत् णिलुक् भविष्यति ।

५ - ३० - धृङः वा अभ्यासस्य दीर्घत्वम् परस्मैपदम् च ।

६ - ३० - अनिपात्यम् ।

७ - ३० - तूतुजानवदभ्यासस्य दीर्घत्वम् युध्यतिवत् परस्मैपदम् भविष्यति ।

८ - ३० - दर्धर्ति इति किम् निपात्यते ।

९ - ३० - धारयतेः श्लौ अभ्यासस्य रुक् णिलुक् च ।

१० - ३० - अनिपात्यम् ।

११ - ३० - देवाअदुह्रवद्रुट् पर्णश्रुषिवत् णिलुक् भविष्यति ।

१२ - ३० - धृङः वा अभ्यासस्य रुक् परस्मैपदम् च ।

१३ - ३० - अनिपात्यम् ।

१४ - ३० - देवाअदुह्रवत् रुड्युध्यतिवत् परस्मैपदम् च भविष्यति ।

१५ - ३० - बोभूतु इति किम् निपात्यते ।

१६ - ३० - भवतेः यङ्लुगन्तस्य अगुणत्वम् निपात्यते ।

१७ - ३० - न एतत् अस्ति प्रयोजनम् ।

१८ - ३० - सिद्धम् अत्र अगुणत्वम् भूसुवोः तिङि इति ।

१९ - ३० - एवम् तर्हि नियमार्थम् भविष्यति ।

२० - ३० - अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति ।

२१ - ३० - क्व मा भूत् ।

२२ - ३० - बोभवीति इति ।

२३ - ३० - तेतिक्ते इति किम् निपात्यते ।

२४ - ३० - तिजेः यङ्लुगन्तस्य आत्मनेपदम् निपात्यते ।

२५ - ३० - न एतत् अस्ति प्रयोजनम् ।

२६ - ३० - सिद्धम् अत्र आत्मनेपदम् अनुदात्तङितः आत्मनेपदम् इति ।

२७ - ३० - नियमार्थम् तर्हि भविष्यति ।

२८ - ३० - अत्र एव यङ्लुगन्तस्य आत्मनेपदम् भवति न अन्यत्र इति ।

२९ - ३० - क्व मा भूत् ।

३० - ३० - बेभिदि इति चेच्छिदि इति

१ - २१ - किमर्थम् स्वपेः अभ्यासस्य सम्प्रसारणम् उच्यते यदा सर्वेषु अभ्यासस्थानेषु स्वपेः सम्प्रसारणम् उक्तम् ।

२ - २१ - स्वापिग्रहणम् व्यपेतार्थम् ।

३ - २१ - स्वापिग्रहणम् क्रियते व्यपेतार्थम् ।

४ - २१ - व्यपेतार्थः अयम् आरम्भः ।

५ - २१ - सुष्वापयिषति इति ।

६ - २१ - अस्ति प्रयोजनम् एतत् ।

७ - २१ - किम् तर्हि इति ।

८ - २१ - तत्र क्यजन्ते अतिप्रसङ्गः ।

९ - २१ - तत्र क्यजन्ते अतिप्रसङ्गः भवति ।

१० - २१ - इह अपि प्राप्नोति ।

११ - २१ - स्वापकम् इच्छति स्वापकीयति स्वापकीयतेः सन् सिस्वापकीयिषति इति ।

१२ - २१ - सिद्धम् तु णिग्रहणात् ।

१३ - २१ - सिद्धम् एतत् ।

१४ - २१ - कथम् ।

१५ - २१ - णिग्रहणम् कर्तव्यम् ।

१६ - २१ - न कर्तव्यम् ।

१७ - २१ - निर्देशात् एव हि व्यक्तम् ण्यन्तस्य ग्रहणम् इति ।

१८ - २१ - न अत्र निर्देशः प्रमाणम् शक्यम् कर्तुम् ।

१९ - २१ - यथा हि निर्देशः तथा इह अपि प्रसज्येत ।

२० - २१ - स्वापम् करोति स्वापयति स्वापयतेः सन् सिस्वापयिषति इति ।

२१ - २१ - तस्मात् णिग्रहणम् कर्तव्यम्

१ - १० - त्रिग्रहणानर्थक्यम् गणान्तत्वात् ।

२ - १० - त्रिग्रहणम् अनर्थकम् ।

३ - १० - किम् कारणम् ।

४ - १० - गणान्तत्वात् ।

५ - १० - त्रयः एव निजादयः ।

६ - १० - उत्तरार्थम् तु ।

७ - १० - उत्तरार्थम् तर्हि त्रिग्रहणम् कर्तव्यम् ।

८ - १० - भृञाम् इत् त्रयाणाम् यथा स्यात् ।

९ - १० - इह मा भूत् ।

१० - १० - जहाति

१ - ५ - अर्तिग्रहणम् किमर्थम् न बहुलम् छन्दसि इति एव सिद्धम् ।

२ - ५ - न हि अन्तरेण छन्दः अर्तेः श्लुः लभ्यः ।

३ - ५ - एवम् तर्हि सिद्धे यत् अर्तिग्रहणम् करोति तत् ज्ञापयति आचार्यः भाषायाम् श्लुः भवति इति ।

४ - ५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

५ - ५ - इयर्ति इति एतत् सिद्धम् भवति

१ - ३६ - ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् ।

२ - ३६ - ऐचोः यङि दीर्घत्वम् प्राप्नोति ।

३ - ३६ - डोढौक्यते , तोत्रौक्यते इति ।

४ - ३६ - ननु च ह्रस्वत्वे कृते दीर्घत्वम् न भविष्यति ।

५ - ३६ - न सिध्यति ।

६ - ३६ - किम् कारणम् ।

७ - ३६ - ह्रस्वात् हि परम् दीर्घत्वम् ।

८ - ३६ - ह्रस्वत्वम् क्रियताम् दीर्घत्वम् इति किम् अत्र कर्तव्यम् ।

९ - ३६ - परत्वात् दीर्घत्वेन भवितव्यम् ।

१० - ३६ - न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

११ - ३६ - न वा एषः दोषः ।

१२ - ३६ - किम् कारणम् ।

१३ - ३६ - अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् ।

१४ - ३६ - अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एषा परिभाषा कर्तव्या ।

१५ - ३६ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

१६ - ३६ - प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् ।

१७ - ३६ - अचीकरत् , अजीहरत् ।

१८ - ३६ - सन्वद्भावम् अपवादत्वात् दीर्घत्वम् न बाधते ।

१९ - ३६ - मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य ।

२० - ३६ - मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् इत्त्वम् न बाधते ।

२१ - ३६ - गणेः ईत्वम् हलादिशेषस्य ।

२२ - ३६ - गणेः ईत्वम् अपवादत्वात् हलादिशेषम् न बाधते ।

२३ - ३६ - इदम् अयुक्तम् वर्तते ।

२४ - ३६ - किम् अत्र अयुक्तम् ।

२५ - ३६ - ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्त्वा ततः उच्यते न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति ।

२६ - ३६ - तस्याः च परिभाषायाः प्रयोजनानि नाम उच्यन्ते प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य गणेः ईत्वम् हलादिशेषस्य इति च ।

२७ - ३६ - न च सन्वद्भावम् अपवादत्वात् दीर्घत्वम् बाधते ।

२८ - ३६ - किम् तर्हि परत्वात् ।

२९ - ३६ - न खलु अपि मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् दीर्घत्वम् बाधते ।

३० - ३६ - किम् तर्हि अन्तरङ्गत्वात् ।

३१ - ३६ - न खलु अपि गणेः ईत्त्वम् अपवादत्वात् हलादिशेषम् बाधते ।

३२ - ३६ - किम् तर्हि अनवकाशत्वात् ।

३३ - ३६ - एवम् तर्हि इयम् परिभाषा कर्तव्या अभ्यासविकारेषु बाधकाः न बाधन्ते इति ।

३४ - ३६ - सा तर्हि एषा परिभाषा कर्तव्या ।

३५ - ३६ - न कर्तव्या ।

३६ - ३६ - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् अकितः इति प्रतिषेधम् शास्ति

१ - ३६ - अकितः इति किमर्थम् ।

२ - ३६ - यंयम्यते , रंरम्यते ।

३ - ३६ - अकितः इति शक्यम् अकर्तुम् ।

४ - ३६ - कस्मात् न भवति यंयम्यते , रंरम्यते इति ।

५ - ३६ - नुकि कृते अनजन्तत्वात् ।

६ - ३६ - अतः उत्तरम् पठति ।

७ - ३६ - अकिद्वचनम् अन्यत्र किदन्तस्य अलः अन्त्यनिवृत्त्यर्थम् ।

८ - ३६ - अकिद्वचनम् क्रियते ज्ञापकार्थम् ।

९ - ३६ - किम् ज्ञाप्यम् ।

१० - ३६ - एतत् ज्ञापयति आचार्यः अन्यत्र किदन्तस्य अभ्यासस्य अलोन्त्यविधिः न भवति इति ।

११ - ३६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१२ - ३६ - प्रयोजनम् ह्रस्वत्वात्त्वेत्त्वगुणेषु ।

१३ - ३६ - ह्रस्वत्वम् ।

१४ - ३६ - अवचच्छतुः , अवचच्छुः ।

१५ - ३६ - अत्त्वम् ।

१६ - ३६ - चच्छृदतुः , चच्छृदुः ।

१७ - ३६ - इत्त्वम् ।

१८ - ३६ - चिच्छादयिषति , चिच्छर्दयिषति ।

१९ - ३६ - गुणः ।

२० - ३६ - चेच्छिद्यते , चोच्छुष्यते ।

२१ - ३६ - तुकि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति ।

२२ - ३६ - विप्रतिषेधात् सिद्धम् ।

२३ - ३६ - न एतानि सन्ति प्रयोजनानि ।

२४ - ३६ - विप्रतिषेधेन अपि एतानि सिद्धानि ।

२५ - ३६ - तुक् क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् ।

२६ - ३६ - परत्वात् एते विधयः इति ।

२७ - ३६ - तदन्ताग्रहणात् वा ।

२८ - ३६ - अथ वा न एवम् विज्ञायते अभ्यासस्य अजन्तस्य ऋकारान्तस्य अकारान्तस्य इगन्तस्य इति ।

२९ - ३६ - कथम् तर्हि ।

३० - ३६ - अभ्यासे यः अच् अभ्यासे यः ऋकारः अभ्यासे यः अकारः अभ्यासे यः इच् इति ।

३१ - ३६ - एवम् च कृत्वा दीर्घत्वम् प्राप्नोति ।

३२ - ३६ - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।

३३ - ३६ - किम् अपवादः नुक् दीर्घत्वस्य इति ।

३४ - ३६ - एवम् तर्हि सिद्धे सति यत् अकितः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अभ्यासविकारेषु बाधकाः न बाधन्ते इति ।

३५ - ३६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

३६ - ३६ - ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्तम् सः न दोषः भवति

१ - ८ - नुकि यंयम्यते , रंरम्यते इति रूपासिद्धिः ।

२ - ८ - नुकि सति यंयम्यते , रंरम्यते इति रूपम् न सिध्यति ।

३ - ८ - अनुस्वारागमवचनात् सिद्धम् ।

४ - ८ - अनुस्वारागमः वक्तव्यः ।

५ - ८ - एवम् अपि इदम् एव रूपम् स्यात् यम्̐य्यम्यते , इदम् न स्यात् यंयम्यते ।

६ - ८ - पदान्तवत् च ।

७ - ८ - पदान्तात् च इति वक्तव्यम् ।

८ - ८ - वा पदान्तस्य इति

१ - ६ - रीक् ऋत्वतः संयोगार्थम् ।

२ - ६ - रीक् ऋत्वतः इति वक्तव्यम् ।

३ - ६ - किम् प्रयोजनम् ।

४ - ६ - संयोगार्थम् ।

५ - ६ - संयोगान्ताः प्रयोजयन्ति ।

६ - ६ - वरीवृश्च्यते , परीपृच्छ्यते , बरीभृज्ज्यते

१ - ३ - मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् ।

२ - ३ - मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३ - मर्मृज्यते , मर्मृज्यमानासः

१ - १३ - किम् इदम् ऋकारग्रहणम् अङ्गविशेषणम् ।

२ - १३ - ऋकारान्तस्य अङ्गस्य इति ।

३ - १३ - आहोस्वित् अभ्यासविशेषणम् ।

४ - १३ - ऋकारान्तस्य अभ्यासस्य इति ।

५ - १३ - अङ्गविशेषणम् इति आह ।

६ - १३ - कथम् ज्ञायते ।

७ - १३ - यत् अयम् तपरकरणम् करोति ।

८ - १३ - कथम् कृत्वा ज्ञापकम् ।

९ - १३ - न हि कः चित् अभ्यासे दीर्घः अस्ति यदर्थम् तपरकरणम् क्रियेत ।

१० - १३ - अथ अङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किम् प्रयोजनम् ।

११ - १३ - इह मा भूत् ।

१२ - १३ - चाकीर्ति , चाकीर्तः , चाकिरति ।

१३ - १३ - किरतिम् चर्करीतान्तम् पचति इति अत्र यः नयेत् , प्राप्तिज्ञम् तम् अहम् मन्ये प्रारब्धः तेन सङ्ग्रहः

१ - ४८ - इह कस्मात् न भवति ।

२ - ४८ - अजजागरत् ।

३ - ४८ - लघुनि चङ्परे इति उच्यते व्यवहितम् च अत्र लघु चङ्परम् ।

४ - ४८ - इह अपि तर्हि न प्राप्नोति ।

५ - ४८ - अचीकरत् , अजीहरत् ।

६ - ४८ - वचनात् भविष्यति ।

७ - ४८ - इह अपि वचनात् प्राप्नोति ।

८ - ४८ - अजजागरत् ।

९ - ४८ - येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

१० - ४८ - केन च न अव्यवधानम् ।

११ - ४८ - वर्णेन ।

१२ - ४८ - एतेन पुनः सङ्घातेन व्यवधानम् भवति न भवति च ।

१३ - ४८ - एवम् अपि अचिक्षणत् अत्र न प्राप्नोति ।

१४ - ४८ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् इत्त्वम् इति यत् अयम् अत्स्मृदृ̄त्वरप्रथम्रदस्तृ̄स्पशाम् इति इत्त्वबाधनार्थम् अत्त्वम् शास्ति ।

१५ - ४८ - सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् ।

१६ - ४८ - सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् वादितवन्तम् प्रयोजितवान् , अवीवदत् वीणाम् परिवादकेन ।

१७ - ४८ - किम् पुनः कारणम् न सिध्यति ।

१८ - ४८ - णिचा व्यवहितत्वात् ।

१९ - ४८ - लोपे कृते न अस्ति व्यवधानम् ।

२० - ४८ - स्थानिवद्भावात् व्यवधानम् एव ।

२१ - ४८ - प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

२२ - ४८ - एवम् अपि अनग्लोपः इति प्रतिषेधम् प्राप्नोति ।

२३ - ४८ - वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति ।

२४ - ४८ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

२५ - ४८ - वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

२६ - ४८ - परत्वात् वृद्धिः ।

२७ - ४८ - नित्यः लोपः ।

२८ - ४८ - कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि ।

२९ - ४८ - लोपः अपि अनित्यः ।

३० - ४८ - अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अकृतायाम् अन्यस्य शब्दान्तस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

३१ - ४८ - उभयोः अनित्ययोः परत्वात् वृद्धिः ।

३२ - ४८ - वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति ।

३३ - ४८ - मीमादीनाम् तु लोपप्रसङ्गः ।

३४ - ४८ - मीमादीनाम् तु लोपः प्राप्नोति ।

३५ - ४८ - अमीमपत् ।

३६ - ४८ - सिद्धम् तु रूपातिदेशात् ।

३७ - ४८ - सिद्धम् एतत् ।

३८ - ४८ - कथम् ।

३९ - ४८ - रूपातिदेशः अयम् ।

४० - ४८ - सनि यादृशम् अभ्यासरूपम् तत् सन्वद्भावेन अतिदिश्यते न च मीमादीनाम् सनि अभ्यासरूपम् अस्ति ।

४१ - ४८ - अङ्गान्यत्वात् वा सिद्धम् ।

४२ - ४८ - अथ वा ण्यन्तम् एतत् अङ्गम् अन्यत् ।

४३ - ४८ - लोपे कृते न अङ्गान्यत्वम् ।

४४ - ४८ - स्थानिवद्भावात् अङ्गम् अन्यत् ।

४५ - ४८ - कथम् अजिज्ञपत् ।

४६ - ४८ - अत्र सनि अपि ण्यन्तस्य एव उपादानम् आप्ज्ञप्यृधाम् ईत् इति ।

४७ - ४८ - अत्र अङ्गान्यत्वाभावात् अभ्यासलोपः स्यात् ।

४८ - ४८ - तस्मात् पूर्वः एव परिहारः सिद्धम् तु रूपातिदेशात् इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP