पाद ४ - खण्ड ५८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६ - पादशतग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् ।

२ - ६ - पादशतग्रहणम् अनर्थकम् ।

३ - ६ - किम् कारणम् ।

४ - ६ - अन्यत्र अपि दर्शनात् ।

५ - ६ - अन्यत्र अपि हि वुन् दृश्यते ।

६ - ६ - द्विमोदिकाम् ददाति ।

१ - ४ - कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् ।

२ - ४ - कन्प्रकरणे चञ्चद्ब्र्हतोः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४ - चँचत्कः ।

४ - ४ - बृहत्कः ।

१ - १५ - अनत्यन्तगतौ क्तान्तात् तमादयः पूर्वविप्रतिषिद्धम् ।

२ - १५ - अनत्यन्तगतौ क्तान्तात् तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

३ - १५ - अनत्यन्तगतौ क्तान्तात् कन् भवति इति अस्य अवकाशः अनत्यन्तगतेः वचनम् प्रकर्षस्य अवचनम् ।

४ - १५ - भिन्नकम् ।

५ - १५ - छिन्नकम् ।

६ - १५ - तमादीनाम् अवकाशः प्रकर्षस्य वचनम् अनत्यन्तगतेः अवचनम् ।

७ - १५ - पटुतरः ।

८ - १५ - पटुतमः ।

९ - १५ - उभयवचने उभयम् प्राप्नोति ।

१० - १५ - भिन्नतरकम् ।

११ - १५ - छिन्नतरकम् ।

१२ - १५ - तमादयः भवन्ति पूर्वविप्रतिषेधेन ।

१३ - १५ - तदन्तात् च स्वार्थे कन्वचनम् ।

१४ - १५ - तदन्तात् च स्वार्थे कन् वक्तव्यः ।

१५ - १५ - भिन्नतरकम् ।

१ - ५ - सामिवचने प्रतिषेधानर्थक्यम् प्रकृत्यभिहितत्वात् ।

२ - ५ - सामिवचने प्रतिषेधः अनर्थकः ।

३ - ५ - किम् कारणम् ।

४ - ५ - प्रकृत्यभिहितत्वात् ।

५ - ५ - प्रकृत्यभिहितः सः अर्थः इति कृत्वा कन् न भविष्यति ।

१ - ३९ - अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् ।

२ - ३९ - अध्युत्तरपदात् प्रत्ययविधेः अनुपपत्तिः ।

३ - ३९ - किम् कारणम् ।

४ - ३९ - विग्रहाभावात् ।

५ - ३९ - विग्रहपूर्विका तद्धितोत्पत्तिः ।

६ - ३९ - न च अध्युत्तरपदेन विग्रहः दृश्यते ।

७ - ३९ - तस्मात् तत्र इदम् इति सधीनर् ।

८ - ३९ - तस्मात् तत्र इदम् इति सधीनर् प्रत्ययः वक्तव्यः ।

९ - ३९ - राजनि इदम् राजाधीनम् ।

१० - ३९ - यदि सधीनर् क्रियते सकारस्य इत्सञ्ज्ञा न प्राप्नोति ।

११ - ३९ - इह च श्र्यधीनः भ्र्वधीनः इति अङ्गस्य इति इयङुवङौ स्याताम् ।

१२ - ३९ - सूत्रम् च भिद्यते ।

१३ - ३९ - यथान्यासम् एव अस्तु ।

१४ - ३९ - ननु च उक्तम् अध्युत्तरपदात् प्रत्ययविधानानुपपत्तिः विग्रहाभावात् इति ।

१५ - ३९ - न एषः दोषः ।

१६ - ३९ - अस्ति कारणम् येन अत्र विग्रहः न भवति ।

१७ - ३९ - किम् कारणम् ।

१८ - ३९ - नित्यप्रत्ययः अयम् ।

१९ - ३९ - के पुनः नित्यप्रत्ययाः ।

२० - ३९ - तमादयः प्राक् कनः ञ्यादयः प्राक् वुनः आमादयः प्राक् मयटः बृहतीजात्यन्ताः समासान्ताः च इति ।

२१ - ३९ - एवम् तर्हि न अयम् प्रत्ययविधिः उपालभ्यते ।

२२ - ३९ - किम् तर्हि ।

२३ - ३९ - प्रकृतिः उपालभ्यते ।

२४ - ३९ - अध्युत्तरपदा प्रकृतिः न अस्ति ।

२५ - ३९ - किम् कारणम् ।

२६ - ३९ - विग्रहाभावात् ।

२७ - ३९ - विग्रहपूर्विका समासवृत्तिः ।

२८ - ३९ - न च अधिना विग्रहः दृश्यते ।

२९ - ३९ - एवम् तर्हि बहुव्रीहिः भविष्यति ।

३० - ३९ - किम् कृतम् भवति ।

३१ - ३९ - भवति वै कः चित् अस्वपदविग्रहः अपि बहुव्रीहिः ।

३२ - ३९ - तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।

३३ - ३९ - न एवम् शक्यम् ।

३४ - ३९ - इह हि महदधीनम् इति आत्त्वकपौ प्रसज्येयाताम् ।

३५ - ३९ - एवम् तर्हि अव्ययीभावः भविष्यति ।

३६ - ३९ - एवम् अपि अधेः पूर्वनिपातः प्राप्नोति ।

३७ - ३९ - राजदन्तादिषु पाठः करिष्यते ।

३८ - ३९ - अथ वा सप्तमीसमासः अयम् ।

३९ - ३९ - अधिः शौण्डादिषु पठ्यते ।

१ - ८ - दिग्ग्रहणम् किमर्थम् ।

२ - ८ - अस्त्रियाम् इति इयति उच्यमाने प्राचीना ब्राह्मणी अवाचीना शिखा इति अत्र अपि प्रसज्येत ।

३ - ८ - दिग्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

४ - ८ - अथ स्त्रीग्रहणम् किमर्थम् यावता दिक्शब्दः स्त्रीविषयः एव ।

५ - ८ - भवति वै कः चित् दिक्शब्दः अस्त्रीविषयः अपि ।

६ - ८ - तत् यथा प्राक् प्राचीनम् ।

७ - ८ - प्रत्यक् प्रतीचीनम् ।

८ - ८ - उचक् उदीचीनम् ।

१ - ५ - स्त्रीग्रहणम् किमर्थम् न स्वार्थिकः अयम् स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

२ - ५ - एवम् तर्हि सिद्धे सति यत् स्त्रीग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि ।

३ - ५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

४ - ५ - गुडकल्पा द्राक्षा ।

५ - ५ - तैलकल्पा प्रसन्ना पयस्कल्पा यवागूः इति एतत् सिद्धम् भवति ।

१ - ४८ - सकृदादेशे अभ्यावृत्तिग्रहणम् निवर्त्यम् ।

२ - ४८ - किम् प्रयोजनम् ।

३ - ४८ - पुनः पुनः आवृत्तिः अभ्यावृत्तिः ।

४ - ४८ - न च एकस्य पुनः पुनः आवृत्तिः भवति ।

५ - ४८ - अथ क्रियाग्रहणम् अनुवर्तते आहोस्वित् न ।

६ - ४८ - किम् च अर्थः अनुवृत्त्या ।

७ - ४८ - बाढम् अर्थः ।

८ - ४८ - इह मा भूत् एकः भुङ्क्ते इति ।

९ - ४८ - अथ अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति ।

१० - ४८ - एकः पाकः इति ।

११ - ४८ - पूर्वयोः च योगयोः कस्मात् न भवति ।

१२ - ४८ - द्वौ पाकौ. त्रयः पाकाः ।

१३ - ४८ - चत्वारः पाकाः ।

१४ - ४८ - पञ्च पाकाः ।

१५ - ४८ - दश पाकाः इति ।

१६ - ४८ - न एतत् क्रियागणनम् ।

१७ - ४८ - किम् तर्हि ।

१८ - ४८ - द्रव्यगणनम् एतत् ।

१९ - ४८ - कथम् ।

२० - ४८ - कृदभिहितः भावः द्रव्यवत् भवति इति ।

२१ - ४८ - इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति ।

२२ - ४८ - सकृत् भुक्त्वा ।

२३ - ४८ - सकृत् भोक्तुम् इति ।

२४ - ४८ - पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति ।

२५ - ४८ - यदि खलु अपि पुनः पुनः आवृत्तिः अभ्यावृत्तिः द्विः आवृत्ते सकृत् इति स्यात् त्रिः आवृत्ते द्विः इति ।

२६ - ४८ - एवम् तर्हि अनुवर्तते अभ्यावृत्तिग्रहणम् न तु पुनः पुनः आवृत्तिः अभ्यावृत्तिः ।

२७ - ४८ - किम् तर्हि अभिमुक्ःी प्रवृत्तिः अभ्यावृत्तिः ।

२८ - ४८ - पूर्वा च परे प्रति अभिमुक्ःी परे च पूर्वाम् प्रति अभिमुख्यौ ।

२९ - ४८ - यत् अपि उच्यते अनुवर्तमाने अपि क्रियाग्रहणे इह कस्मात् न भवति ।

३० - ४८ - एकः पाकः इति ।

३१ - ४८ - पूर्वयोः च योगयोः कस्मात् न भवति ।

३२ - ४८ - द्वौ पाकौ. त्रयः पाकाः ।

३३ - ४८ - चत्वारः पाकाः ।

३४ - ४८ - पञ्च पाकाः ।

३५ - ४८ - दश पाकाः इति परिहृतम् एतत् ।

३६ - ४८ - न एतत् क्रियागणनम् ।

३७ - ४८ - किम् तर्हि ।

३८ - ४८ - द्रव्यगणनम् एतत् ।

३९ - ४८ - कथम् ।

४० - ४८ - कृदभिहितः भावः द्रव्यवत् भवति इति ।

४१ - ४८ - ननु च उक्तम् इह अपि तर्हि द्रव्यगणनात् न प्राप्नोति ।

४२ - ४८ - सकृत् भुक्त्वा ।

४३ - ४८ - सकृत् भोक्तुम् इति ।

४४ - ४८ - पूर्वयोः च योगयोः द्विः भुक्त्वा द्विः बोक्तुम् त्रिः भुक्त्वा त्रिः भोक्तुम् पञ्चकृत्वा भुक्त्वा पञ्चकृत्वा भोक्तुम् दशकृत्वा भुक्त्वा दशकृत्वा भोक्तुम् इति द्रव्यगणनान् न प्राप्नोति ।

४५ - ४८ - न एषः दोषः ।

४६ - ४८ - क्रियागणनात् भविष्यति ।

४७ - ४८ - कथम् ।

४८ - ४८ - कृदभिहितः भावः द्रव्यवत् अपि क्रियावत् अपि भवति ।

१ - ९ - देवतान्तात् इति उच्यते ।

२ - ९ - तत इदम् न सिध्यति ।

३ - ९ - पितृदेवत्यम् इति ।

४ - ९ - किम् कारणम् ।

५ - ९ - न हि ल्पितरः देवता ।

६ - ९ - न एषः दोषः ।

७ - ९ - दिवेः ऐश्वर्यकर्मणः देवः ।

८ - ९ - तस्मात् स्वार्थे तल् ।

९ - ९ - एवम् च कृत्वा देवदेवत्यम् अपि सिद्धम् भवति ।

१ - ९ - तलि स्त्रीलिङ्गवचनम् ।

२ - ९ - तलि स्त्रीलिङ्गम् वक्तव्यम् ।

३ - ९ - देवता ।

४ - ९ - किम् पुनः कारणम् न सिध्यति ।

५ - ९ - देवशब्दः अयम् पुंलिङ्गः स्वार्थिकः च अयम् ।

६ - ९ - स्वार्थिकाः च प्रकृतितः लिङ्गवचनानि अनुवर्तन्ते ।

७ - ९ - उक्तम् वा ।

८ - ९ - किम् उक्तम् ।

९ - ९ - स्वार्थिकाः अतिवर्तन्ते अपि लिङ्गवचनानि इति ।

१ - ८८ - लोहितात् लिङ्गबाधनम् वा ।

२ - ८८ - लोहितात् लिङ्गबाधनम् वा इति वक्तव्यम् ।

३ - ८८ - लोहितिक ।

४ - ८८ - लोहिनिका ।

५ - ८८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् ।

६ - ८८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् ।

७ - ८८ - ओ श्रावय इति चतुरक्षरम् ।

८ - ८८ - अस्तु श्रौषट् इति चतुरक्षरम् ।

९ - ८८ - ये यजामहे इति पञ्चाक्षरम् ।

१० - ८८ - यज इति द्व्यक्षरम् ।

११ - ८८ - द्व्यक्षरः वषट्कारः ।

१२ - ८८ - एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः ।

१३ - ८८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

१४ - ८८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।

१५ - ८८ - हस्तौ पृणस्व बहुविः वसव्यैः ।

१६ - ८८ - अग्निरीशेवसव्यस्य ।

१७ - ८८ - अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् ।

१८ - ८८ - उक्तम् वा ।

१९ - ८८ - किम् उक्तम् ।

२० - ८८ - स्वार्थविज्ञानात् सिद्धम् इति ।

२१ - ८८ - अपस्यः वसानाः ।

२२ - ८८ - अपः वसानाः ।

२३ - ८८ - स्वे ओक्ये ।

२४ - ८८ - स्वे ओके ।

२५ - ८८ - कव्यः असि हव्यसूदन ।

२६ - ८८ - कविः असि ।

२७ - ८८ - रौद्रेण अनीकेन कव्यतायै ।

२८ - ८८ - कवितयै ।

२९ - ८८ - आमुष्यायणस्य ।

३० - ८८ - अमुष्यपुत्रस्य ।

३१ - ८८ - क्षेम्यस्य ईशे ।

३२ - ८८ - क्षेमस्य ईशे ।

३३ - ८८ - क्षेम्यम् अध्यवस्यति ।

३४ - ८८ - क्षेमम् अध्यवस्यति ।

३५ - ८८ - आयुः वर्चस्यम् ।

३६ - ८८ - वर्चः एव वर्चस्यम् ।

३७ - ८८ - निष्केवल्यम् ।

३८ - ८८ - निष्केवलम् ।

३९ - ८८ - उक्थ्यम् ।

४० - ८८ - उक्थम् ।

४१ - ८८ - जन्यम् ताभिः सजन्यम् ताभिः ।

४२ - ८८ - जनम् ताभिः सजनं ताभिः ।

४३ - ८८ - स्तोमैः जनयामि नव्यम् ।

४४ - ८८ - नवम् ।

४५ - ८८ - प्र नः नव्येभिः ।

४६ - ८८ - नवैः ।

४७ - ८८ - ब्रह्म पूर्व्यम् ।

४८ - ८८ - पाथः पूर्व्यम् ।

४९ - ८८ - तनुषु पूर्व्यम् ।

५० - ८८ - पूर्वम् ।

५१ - ८८ - पूर्व्याहः ।

५२ - ८८ - पूर्वाहः ।

५३ - ८८ - पूर्व्याः विशः ।

५४ - ८८ - पूर्वाः विशः ।

५५ - ८८ - पूर्व्यासः ।

५६ - ८८ - पूर्वासः ।

५७ - ८८ - सः प्र पूर्व्यः ।

५८ - ८८ - सः प्र पूर्वः ।

५९ - ८८ - अग्निम् वै पूर्व्यम् ।

६० - ८८ - पूर्वम् ।

६१ - ८८ - तम् जुषस्व यविष्ठ्य ।

६२ - ८८ - यविष्ठ ।

६३ - ८८ - होत्रवाहम् यविष्ठ्यम् ।

६४ - ८८ - यविष्ठम् ।

६५ - ८८ - त्वम् ह यत् यविष्ठ्य ।

६६ - ८८ - यविष्ठ ।

६७ - ८८ - समावत् वसति समावत् गृह्णाति ।

६८ - ८८ - समम् वसति समम् गृह्णाति ।

६९ - ८८ - समावत् देवयज्ञे हस्तौ ।

७० - ८८ - समम् ।

७१ - ८८ - समावत् वीर्यावहानि ।

७२ - ८८ - समानि ।

७३ - ८८ - समावत् वीर्याणि करोति ।

७४ - ८८ - समानि ।

७५ - ८८ - उ ईवते उ लोकम् ।

७६ - ८८ - यः ईवते ब्रह्मणे ।

७७ - ८८ - यः इयते ।

७८ - ८८ - नवस्य नूत्नप्तनखाः च ।

७९ - ८८ - नवस्य नू इति अयम् आदेशः वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः ।

८० - ८८ - नूत्नम् ।

८१ - ८८ - नूतनम् ।

८२ - ८८ - नवीनम् ।

८३ - ८८ - नः च पुराणे प्रात् ।

८४ - ८८ - नः च पुराणे प्रात् वक्तव्यः त्नप्तनखाः च प्रत्ययाः वक्तव्याः ।

८५ - ८८ - प्रणम् ।

८६ - ८८ - प्रत्नम् ।

८७ - ८८ - प्रतनम् ।

८८ - ८८ - प्रीणम् ।

१ - ५१ - तत् इति अनेन किम् प्रतिनिर्दिश्यते ।

२ - ५१ - वाक् एव ।

३ - ५१ - यत् एव वाचा व्यवहिर्यते तत् कर्मणा क्रियते ।

४ - ५१ - अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि ।

५ - ५१ - अण्प्रकरणे कुलालवरुडनिषादचण्डालामित्रेभ्यः छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

६ - ५१ - कौलालः ।

७ - ५१ - वाऋउडः ।

८ - ५१ - नैषादः ।

९ - ५१ - चाण्डालः ।

१० - ५१ - आमित्रः ।

११ - ५१ - भागरूपनामभ्यः धेयः ।

१२ - ५१ - भागरूपनामभ्यः धेयः वक्तव्यः ।

१३ - ५१ - भागधेयम् ।

१४ - ५१ - रूपधेयम् ।

१५ - ५१ - नामधेयम् ।

१६ - ५१ - मित्रात् छन्दसि ।

१७ - ५१ - मित्रात् छन्दसि धेयः वक्तव्यः ।

१८ - ५१ - मित्रधेये यतस्व ।

१९ - ५१ - अण् अमित्रात् च ।

२० - ५१ - अण् अमित्रात् च इति वक्तव्यम् ।

२१ - ५१ - मैत्रः ।

२२ - ५१ - आमित्रः ।

२३ - ५१ - सान्नाय्यानुजावरानुषूकचातुष्प्राश्यराक्षोघ्नवैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनानि निपात्न्यन्ते ।

२४ - ५१ - सान्नाय्यम् ।

२५ - ५१ - आनुजावरः ।

२६ - ५१ - आनुषूकः ।

२७ - ५१ - चातुष्प्राश्यः ।

२८ - ५१ - राक्षोघ्नः ।

२९ - ५१ - वैयातः ।

३० - ५१ - वैकृतः ।

३१ - ५१ - वारिवस्कृतः ।

३२ - ५१ - आग्रायणः ।

३३ - ५१ - आग्रहायणः ।

३४ - ५१ - सान्तपनः ।

३५ - ५१ - अग्नीध्रसाधारणात् अञ् ।

३६ - ५१ - अग्नीध्रसाधारणात् अञ् वक्तव्यः ।

३७ - ५१ - आग्नीध्रम् ।

३८ - ५१ - साधारणम् ।

३९ - ५१ - अयवसमरुद्भ्याम् छन्दसि ।

४० - ५१ - अयवसमरुद्भ्याम् छन्दसि अञ् वक्तव्यः ।

४१ - ५१ - आयवसे वर्धन्ते ।

४२ - ५१ - मारुतम् शर्धः ।

४३ - ५१ - नवसूरमर्तयविष्ठेभ्यः यत् ।

४४ - ५१ - नवसूरमर्तयविष्ठेभ्यः यत् वक्तव्यः ।

४५ - ५१ - नव्यः ।

४६ - ५१ - सूर्यः ।

४७ - ५१ - मर्त्यः ।

४८ - ५१ - यविष्थ्यः ।

४९ - ५१ - क्षेमात् यः ।

५० - ५१ - क्षेमात् यः वक्तव्यः ।

५१ - ५१ - क्षेम्यः तिष्ठन् प्रतरणः सुवीरः ।

१ - ७ - बह्वल्पार्थात् मङ्गलवचनम् [ऋमङ्गलामङ्गलवचनम्] । बह्वल्पार्थात् मङ्गलवचनम् [मङ्गलामङ्गलवचनम् ] कर्तव्यम् ।

२ - ७ - बहुशः देहि ।

३ - ७ - अनिष्टेषु श्राद्धादिषु मा भूत् ।

४ - ७ - इष्टेषु प्राशित्रादिषु यथा स्यात् ।

५ - ७ - अल्पशः देहि ।

६ - ७ - इष्टेषु प्राशित्रादिषु मा भूत् ।

७ - ७ - अनिष्टेषु श्राद्धादिषु यथा स्यात् ।

१ - ५ - तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् ।

२ - ५ - तसिप्रकरणे आद्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५ - आदितः ।

४ - ५ - मध्यतः ।

५ - ५ - अन्ततः ।

१ - २१ - च्विविधौ अभूततद्भावग्रहणम् ।

२ - २१ - च्विविधौ अभूततद्भावग्रहणम् कर्तव्यम् ।

३ - २१ - इह मा भूत् ।

४ - २१ - सम्पद्यन्ते यवाः ।

५ - २१ - सम्पद्यन्ते शालयः इति ।

६ - २१ - अथ क्रियमाणे अपि वा अभूततद्भावग्रहणे इह कस्मात् न भवति ।

७ - २१ - सम्पद्यन्ते अस्मिन् क्षेत्र शालयः इति ।

८ - २१ - प्रकृतिविवक्षाग्रहणम् च ।

९ - २१ - प्रकृतिविवक्षाग्रहणम् च कर्तव्यम् ।

१० - २१ - समीपादिभ्यः उपसङ्ख्यानम् ।

११ - २१ - समीपादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।

१२ - २१ - समीपी भवति ।

१३ - २१ - अभ्याशी भवति ।

१४ - २१ - अन्तिकी भवति ।

१५ - २१ - किम् पुनः कारणम् न सिध्यति ।

१६ - २१ - न हि असमीपम् समीपम् भवति ।

१७ - २१ - किम् तर्हि ।

१८ - २१ - असमीपस्थम् समीपस्थम् भवति ।

१९ - २१ - तत् तर्हि वक्तव्यम् ।

२० - २१ - न वक्तव्यम् ।

२१ - २१ - तात्स्थ्यात् ताच्छब्द्यम् भविष्यति ।

१ - १७ - किमर्थः चकारः ।

२ - १७ - स्वरार्थः ।

३ - १७ - चितः अन्तः उदात्तत्ः भवति इति उदात्तत्वम् यथा स्यात् ।

४ - १७ - न एतत् अस्ति प्रयोजनम् ।

५ - १७ - एकाच् अयम् ।

६ - १७ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

७ - १७ - प्रत्ययस्वरेण एव सिद्धम् ।

८ - १७ - अतः उत्तरम् पठति ।

९ - १७ - डाचि चित्करणम् विशेषणार्थम् ।

१० - १७ - डाचि चित्करणम् क्रियते विशेषणार्थम् ।

११ - १७ - क्व विशेषणाऋथेन अर्थः ।

१२ - १७ - लोहितादिडाज्भ्यः क्यष् इति ।

१३ - १७ - डा इति हि उच्यमाने इडा अतः अपि प्रसज्येत ।

१४ - १७ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति ।

१५ - १७ - इह तर्हि प्राप्नोति ।

१६ - १७ - नाभा पृथिव्याः निहितः दविद्युतत् ।

१७ - १७ - तस्मात् चकारः कर्तव्यः ।

१ - २ - भद्रात् च इति वक्तव्यम् ।

२ - २ - भद्रा करोति ।

१ - ७० - अन्तग्रहणम् किमर्थम् ।

२ - ७० - अन्तः यथा स्यात् ।

३ - ७० - न एअतत् अस्ति प्रयोजनम् ।

४ - ७० - प्रत्यय्परत्वेन अपि एतत् सिद्धम् ।

५ - ७० - इदम् तर्हि प्रयोजनम् ।

६ - ७० - तद्ग्रहणेन ग्रहणम् यथा स्यात् ।

७ - ७० - कानि पुनः तद्ग्रहणस्य प्रयोजनानि ।

८ - ७० - प्रयोजनम् अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसञ्ज्ञाः ।

९ - ७० - अव्ययीभावः प्रयोजनम् ।

१० - ७० - प्रतिराजम् ।

११ - ७० - उपराजम् ।

१२ - ७० - अव्ययीभावः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।

१३ - ७० - न एतत् अस्ति प्रयोजनम् ।

१४ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

१५ - ७० - इदम् तर्हि प्रयोजनम् ।

१६ - ७० - न अव्ययीभावात् अतः अम् तु अपञ्चम्याः इति एषः विधिः यथा स्यात् ।

१७ - ७० - अव्ययीभाव ।

१८ - ७० - द्विगु ।

१९ - ७० - द्विगुसञ्ज्ञा च प्रयोजनम् ।

२० - ७० - पञ्चगवम् ।

२१ - ७० - दशगवम् ।

२२ - ७० - द्विगुः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।

२३ - ७० - न एतत् अस्ति प्रयोजनम् ।

२४ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

२५ - ७० - इदम् तर्हि प्रयोजनम् ।

२६ - ७० - द्विपुरी ।

२७ - ७० - त्रिपुरी ।

२८ - ७० - द्विगोः अकारान्तात् इति ईकारः यथा स्यात् ।

२९ - ७० - एतत् अपि न अस्ति प्रयोजनम् ।

३० - ७० - पुरशब्दः अयम् अकारान्तः ।

३१ - ७० - तेन समासः भविष्यति ।

३२ - ७० - आतः च अकारान्तः इति आह ।

३३ - ७० - क्षेमे सुभिक्षे कृतसञ्चयानि पुराणि विनयन्ति कोपम् इति ।

३४ - ७० - इदम् तर्हि प्रयोजनम् ।

३५ - ७० - द्विधुरी त्रिधुरी ।

३६ - ७० - द्विगोः अकारान्तात् इति ङीप् यथा स्यात् ।

३७ - ७० - द्विगु ।

३८ - ७० - द्वन्द्व ।

३९ - ७० - द्वन्द्वसञ्ज्ञा च प्रयोजनम् ।

४० - ७० - वाक्त्वचम् ।

४१ - ७० - स्रक्त्वचम् ।

४२ - ७० - द्वन्द्वः च समासः नपुंसकलिङ्गः भवति इति नपुंसकलिङ्गता यथा स्यात् ।

४३ - ७० - न एतत् अस्ति प्रयोजनम् ।

४४ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

४५ - ७० - इदम् तर्हि प्रयोजनम् ।

४६ - ७० - इदम् तर्हि प्रयोजनम् ।

४७ - ७० - कोशः च निषत् च कोशनिषदम् ।

४८ - ७० - कोशनिषदिनी ।

४९ - ७० - द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः इति इनिः यथा स्यात् ।

५० - ७० - द्वन्द्व ।

५१ - ७० - तत्पुरुष ।

५२ - ७० - तत्पुरुषसञ्ज्ञा च प्रयोजनम् ।

५३ - ७० - परमधुरा उत्तमधुरा ।

५४ - ७० - परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति परवल्लिङ्गता यथा स्यात् ।

५५ - ७० - न एतत् अस्ति प्रय्जोनम् ।

५६ - ७० - उत्तरपदार्थप्रधानः तत्पुरुषः ।

५७ - ७० - इदम् तर्हि प्रयोजनम् ।

५८ - ७० - अर्धधुरा ।

५९ - ७० - एतत् अपि न अस्ति प्रयोजनम् ।

६० - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

६१ - ७० - इदम् तर्हि प्रयोजनम् ।

६२ - ७० - इदम् तर्हि ।

६३ - ७० - निर्धुरः ।

६४ - ७० - अव्ययम् तत्पुरुषे प्रकृतिस्वरम् भवति इति एषः स्वरः यथा स्यात् ।

६५ - ७० - तत्पुरुष ।

६६ - ७० - बहुव्रीहि ।

६७ - ७० - बहुव्रीहिसञ्ज्ञा च प्रयोजनम् ।

६८ - ७० - उच्चधुरः ।

६९ - ७० - नीचधुरः ।

७० - ७० - बहुव्रीहौ प्रकृत्या पूर्वपदम् भवति इति एषः स्वरः यथा स्यात् ।

१ - ८ - इदम् विप्रतिषिद्धम् ।

२ - ८ - कः प्रतिषेधः ।

३ - ८ - परिगणिताभ्यः प्रकृतिभ्यः समासान्तः विधीयते न च तत्र का चित् पूजनान्ता प्रकृतिः निर्दिश्यते ।

४ - ८ - न एतत् विप्रतिषिद्धम् ।

५ - ८ - न एवम् विज्ञायते ।

६ - ८ - याभ्यः प्रकृतिभ्यः समासान्तः विधीयते न चेत् ताः पूजनान्ताः भवन्ति इति ।

७ - ८ - कथम् तर्हि ।

८ - ८ - न चेत् ताः पूजनात् पराः भवन्ति इति ।

१ - १२ - पूजायाम् स्वतिग्रहणम् ।

२ - १२ - पूजायाम् स्वतिग्रहणम् कर्तव्यम् ।

३ - १२ - सुराजा ।

४ - १२ - अतिराजा ।

५ - १२ - क्व मा भूत् ।

६ - १२ - परमगवः ।

७ - १२ - उत्तमगवः ।

८ - १२ - प्राग्बहुव्रीहिग्रहणम् च ।

९ - १२ - प्राग्बहुव्रीहिग्रहणम् च कर्तव्यम् ।

१० - १२ - इह मा भूत् ।

११ - १२ - स्वक्षः ।

१२ - १२ - अत्यक्षः इति ।

१ - ५ - क्षेपे इति किमर्थम् ।

२ - ५ - कस्य राजा किंराजा ।

३ - ५ - क्षेपे इति शक्यम् अकर्तुम् ।

४ - ५ - कस्मात् न भवति कस्य राजा किंराजा इति ।

५ - ५ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

१ - १७ - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् निस्त्रिंशाद्यर्थम् ।

२ - १७ - डच्प्रकरणे सङ्ख्यायाः तत्पुरुषस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - १७ - किम् प्रयोजनम् ।

४ - १७ - निस्त्रिंशाद्यर्थम् ।

५ - १७ - निस्त्रिंशानि वर्षाणि ।

६ - १७ - निश्चत्वारिंशानि वर्षाणि ।

७ - १७ - अन्यत्र अधिकलोपात् ।

८ - १७ - अन्यत्र अधिकलोपात् इति वक्तव्यम् ।

९ - १७ - इह मा भूत् ।

१० - १७ - एकाधिका विंशतिः एकविंशतिः ।

११ - १७ - द्व्यधिका विंशतिः द्वाविंशतिः ।

१२ - १७ - अव्ययादेः इति वक्तव्यम् ।

१३ - १७ - इह मा भूत् ।

१४ - १७ - गोत्रिंशत् ।

१५ - १७ - गोचत्वारिंशत् इति ।

१६ - १७ - तत् तर्हि वक्तव्यम् ।

१७ - १७ - यदि अपि एतत् उच्यते अथ वा एतर्हि अन्यत्र अधिकलोपात् इति एतत् न क्रियते ।

१ - १५ - अनक्षे इति कथम् इदम् विज्ञायते ।

२ - १५ - न चेत् अक्षधूरन्तः समासः इति आहोस्वित् न चेत् अक्षः समासार्थः इति ।

३ - १५ - किम् च अतः ।

४ - १५ - यदि विज्ञायते न चेत् अक्षधूरन्तः समासः इति सिद्धम् अक्षस्य धूः अक्षधूः इति ।

५ - १५ - इदम् तु न सिध्यति ।

६ - १५ - दृढधूः अयम् अक्षः ।

७ - १५ - अस्तु तर्हि न चेत् अक्षः समासार्थः इति ।

८ - १५ - सिद्धम् दृढधूः अक्षः इति ।

९ - १५ - इदम् तु न सिध्यति ।

१० - १५ - अक्षस्य धूः अक्षधूः इति ।

११ - १५ - एवम् तर्हि न एवम् विज्ञायते न चेत् अक्षधूरन्तः समासः इति न अपि न चेत् अक्षः समासार्थः इति ।

१२ - १५ - कथम् तर्हि ।

१३ - १५ - न चेत् अक्षस्य धूः इति ।

१४ - १५ - एवम् च कृत्वा न अपि न चेत् अक्षधूरन्तः समासः इति विज्ञायते न अपि न चेत् अक्षः समासार्थः इति ।

१५ - १५ - अथ च उभयोः न भवति ।

१ - ६ - अदर्शनात् इति उच्यते ।

२ - ६ - तत्र इदम् न सिध्यति ।

३ - ६ - कवराक्षम् ।

४ - ६ - अदर्शनात् इति शक्यम् अकर्तुम् ।

५ - ६ - कथम् ब्राह्मणक्षि क्षत्रियाक्षि ।

६ - ६ - अप्राण्यङ्गात् इति वक्तव्यम् ।

१ - २८ - आद्याः त्रयः बहुव्रीहयः ।

२ - २८ - अद्रष्टा चतुर्णाम् अचतुरः ।

३ - २८ - विद्रष्टा चतुर्णाम् विचतुरः ।

४ - २८ - सुद्रष्टा चतुर्णाम् सुचतुरः ।

५ - २८ - ततः परे एकादश द्वन्द्वाः ।

६ - २८ - स्त्रीपुंस धेन्वनडुह ऋक्साम वाङ्मनस अक्षिभ्रुव दारगव ऊर्वष्ठीव पदष्ठीव नक्तन्दिव रात्रिन्दिव अहर्दिव ।

७ - २८ - ततः अव्ययीभावः ।

८ - २८ - सह रजसा सरजसम् ।

९ - २८ - ततः तत्पुरुषः ।

१० - २८ - निश्रितम् श्रेयः निःश्रेयसम् ।

११ - २८ - ततः षष्ठीसमासः ।

१२ - २८ - पुरुषस्य आयुः पुरुषायुषम् ।

१३ - २८ - ततः द्विगू ।

१४ - २८ - द्वे आयुषी द्व्यायुषम् ।

१५ - २८ - त्रीणि आयूंषि त्र्यायुषम् ।

१६ - २८ - ततः द्वन्द्वः ।

१७ - २८ - ऋक् च यजुः च र्ग्यजुषम् ।

१८ - २८ - जातादयः उक्षान्ताः समानाधिकरणाः ।

१९ - २८ - जातः उक्षा जातोक्षः ।

२० - २८ - महान् उक्षा महोक्षः ।

२१ - २८ - वृद्धः उक्षा वृद्धोक्षः ।

२२ - २८ - ततः अव्ययीभावः ।

२३ - २८ - शुनः समीपम् उपशुनम् ।

२४ - २८ - ततः सप्तमीसमासः गोष्ठे श्वा गोष्ठश्वः ।

२५ - २८ - चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् ।

२६ - २८ - चतुरः अच्प्रकरणे त्र्युपाभ्याम् उपसङ्ख्यानम् कर्तव्यम् ।

२७ - २८ - त्रिचतुराः ।

२८ - २८ - उपचतुराः ।

१ - ३ - पल्यराजभ्याम् च इति वक्तव्यम् ।

२ - ३ - पल्यवर्चसम् ।

३ - ३ - राजवर्चसम् ।

१ - ५ - अहर्ग्रहणम् द्वन्द्वार्थम् ।

२ - ५ - अहर्ग्रहणम् द्वन्द्वार्थम् द्रष्टव्यम् ।

३ - ५ - किम् उच्यते द्वन्द्वार्थम् इति न पुनः तत्पुरुषार्थम् अपि स्यात् ।

४ - ५ - तत्पुरुषाभावात् ।

५ - ५ - न हि रात्र्यन्तः अहरादिः तत्पुरुषः अस्ति ।

१ - ५ - अह्नः अह्नवचनानर्थक्यम् च अह्नः टखोः नियमवचनात् ।

२ - ५ - अह्नः अह्नवचनम् अनर्थकम् ।

३ - ५ - किम् कारणम् ।

४ - ५ - अह्नः टखोः नियमवचनात् ।

५ - ५ - अह्नः टखोः एव इति एतत् नियमार्थम् भविष्यति ।

१ - ५ - अनसन्तात् नपुंसकात् छन्दसि वा इति वक्तव्यम् ।

२ - ५ - ब्रह्मसामम् ।

३ - ५ - ब्रह्मसाम ।

४ - ५ - देवच्छन्दसम् ।

५ - ५ - देवच्छन्दः ।

१ - ९ - किमर्थम् षच् प्रत्ययान्तरम् विधीयते न टच् प्रकृतः सः अनुवर्तिष्यते ।

२ - ९ - अतः उत्तरम् पठति ।

३ - ९ - षचि प्रत्ययान्तरकरणम् अनन्तोदात्तार्थम् ।

४ - ९ - षचि प्रत्ययान्तरम् क्रियते ।

५ - ९ - किम् प्रयोजनम् ।

६ - ९ - अनन्तोदात्तार्थम् ।

७ - ९ - अनन्तोदात्ताः प्रयोजयन्ति ।

८ - ९ - चक्रसक्थम् ।

९ - ९ - चक्रसक्थी ।

१ - ६ - किमर्थम् मूर्ध्नः ष प्रत्ययान्तरम् विधीयते न षच् प्रकृतः सः अनुवर्तिष्यते ।

२ - ६ - मूर्ध्नः च षवचनम् ।

३ - ६ - किम् ।

४ - ६ - अनन्तोदात्तार्थम् इति एव ।

५ - ६ - द्विमूर्धः ।

६ - ६ - त्रिमूर्धः ।

१ - २२ - अपि प्रधानपूरणीग्रहणम् ।

२ - २२ - अपि प्रधानपूरणीग्रहणम् कर्तव्यम् ।

३ - २२ - प्रधानम् या पूरणी इति वक्तव्यम् ।

४ - २२ - इह मा भूत् ।

५ - २२ - कल्याणी पञ्चमी अस्य पक्षस्य कल्याणपञ्चमीकः पक्षः ।

६ - २२ - अथ इह कथम् भवितव्यम् ।

७ - २२ - कल्याणी पञ्चमी असाम् रात्रीणाम् इति ।

८ - २२ - कल्याणीपञ्चमाः रात्रयः इति भवितव्यम् ।

९ - २२ - रत्रयः अत्र प्रधानम् ।

१० - २२ - नेतुः नक्षत्रे उपसङ्ख्यानम् ।

११ - २२ - नेतुः नक्षत्रे उपसङ्ख्यानम् कर्तव्यम् ।

१२ - २२ - पुष्यनेत्राः ।

१३ - २२ - मृगनेत्राः ।

१४ - २२ - छन्दसि च ।

१५ - २२ - छन्दसि च नेतुः उपसङ्ख्यानम् कर्तव्यम् ।

१६ - २२ - बृहस्पतिनेत्राः ।

१७ - २२ - सोमनेत्राः ।

१८ - २२ - मासात् भृतिप्रत्ययपूर्वपदात् ठज्विधिः ।

१९ - २२ - मासात् भृतिप्रत्ययपूर्वपदात् ठच् विधेयः ।

२० - २२ - पञ्चकमासिकः ।

२१ - २२ - षट्कमासिकः ।

२२ - २२ - दशकमासिकः ।

१ - ५ - खरखुराभ्याम् च नस् वक्तव्यः ।

२ - ५ - खरणाः ।

३ - ५ - खुरणाः ।

४ - ५ - शितिनाः अर्चनाः अहिनाः इति नैगमाः ।

५ - ५ - शितिनाः अर्चनाः अहिनाः ।

१ - २ - वेः ग्रः वक्तव्यः ।

२ - २ - विग्रः ।

१ - ३ - ऊधसः अनङि स्त्रीग्रहणम् ।

२ - ३ - ऊधसः अनङि स्त्रीग्रहणम् कर्तव्यम् इह मा भूत् ।

३ - ३ - महोधाः पर्जन्यः इति ।

१ - ६ - गन्धस्य इत्त्वे तदेकान्तग्रहणम् ।

२ - ६ - गन्धस्य इत्त्वे तदेकान्तग्रहणम् कर्तव्यम् इह मा भूत् ।

३ - ६ - शोभनाः गन्धाः अस्य सुगन्धः आपणिकः इति ।

४ - ६ - अथ अनुलिप्ते कथम् भवितव्यम् ।

५ - ६ - यदि तावत् यत् अनुगतम् तत् अभिसमीक्षितम् सुगन्धिः इति भवितव्यम् ।

६ - ६ - अथ यत् प्रविशीर्णम् सुगन्धः इति भवितव्यम् ।

१ - २९ - शेषात् इति उच्यते ।

२ - २९ - कः शेषः नाम ।

३ - २९ - याभ्यः प्रकृतिभ्यः समासान्तः नि विधीयते सः शेषः ।

४ - २९ - किमर्थम् पुनः शेषग्रहणम् क्रियते ।

५ - २९ - याभ्यः प्रकृतिभ्यः समासान्तः विधीयते ताभ्यः मा भूत् इति ।

६ - २९ - न एतत् अस्ति प्रयोजनम् ।

७ - २९ - ये प्रतिपदम् विधीयन्ते ते तत्र बाधकाः भविष्यन्ति ।

८ - २९ - अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशाः च समासान्ताः ।

९ - २९ - कः अवकाशः ।

१० - २९ - विभाषा कप् ।

११ - २९ - यदा न कप् सः अवकाशः ।

१२ - २९ - कपः प्रसङ्गे उभयम् प्राप्नोति ।

१३ - २९ - परत्वात् कप् प्राप्नोति ।

१४ - २९ - तस्मात् शेषग्रहणम् कर्तव्यम् ।

१५ - २९ - किम् पुनः इदम् शेषग्रहणम् कबपेक्षम् यस्मात् बहुव्रीहेः कप् इति आहोस्वित् समासान्तापेक्षम् यस्मात् बहुव्रीहेः समासान्तः न विहितः इति ।

१६ - २९ - किम् च अतः ।

१७ - २९ - यदि विज्ञायते कबपेक्षम् अनृचः बह्वृचः इति अत्र अपि प्राप्नोति ।

१८ - २९ - अथ समासान्तापेक्षम् अनृक्कम् बह्वृक्कम् सूक्तम् इति न सिध्यति ।

१९ - २९ - अस्तु कबपेक्षम् ।

२० - २९ - कथम् अनृचः बह्वृचः इति ।

२१ - २९ - विशेषे एतत् वक्तव्यम् ।

२२ - २९ - अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।

२३ - २९ - इदम् तर्हि ऊधसः अनङि स्त्रीग्रहणम् चोदितम् ।

२४ - २९ - तस्मिन् क्रियमाणे अपि प्राप्नोति ।

२५ - २९ - एवम् तर्हि न एव कबपेक्षम् शेषग्रहणम् न अपि समासान्तापेक्षम् ।

२६ - २९ - किम् तर्हि अनन्तरः यः बहुव्रीह्यधिकारः सः अपेक्ष्यते ।

२७ - २९ - अनन्तरे बहुव्रीह्यधिकारे यस्मात् बहुव्रीहेः समासान्तः न विहितः इति ।

२८ - २९ - कथम् अनृचः बह्वृचः इति ।

२९ - २९ - वक्तव्यम् एव अनृचः माणवे बह्वृचः चरणशाखायाम् इति ।

१ - ६ - ईयसः उपसर्जनदीर्घत्वम् च ।

२ - ६ - ईयसः उपसर्जनदीर्घत्वम् च वक्तव्यम् ।

३ - ६ - बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी ।

४ - ६ - विद्यमानश्रेयसी ।

५ - ६ - पुंवद्वचनात् सिद्धम् ।

६ - ६ - पुंवद्भावः अत्र भवति ईयसः बहुव्रीहौ पुंवद्वचनम् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP