संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ४|पाद ४| खण्ड ५१ पाद ४ खण्ड ५१ पाद ४ - खण्ड ५१ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ५१ Translation - भाषांतर १ - १३ - ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् ।२ - १३ - ठक्प्रकरणे तत् आह इति माशब्दादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।३ - १३ - माशब्दिकः नैत्यशब्दिकः कार्यशब्दिकः ।४ - १३ - आहौ प्रभूतादिभ्यः ।५ - १३ - आहौ प्रभूतादिभ्यः ठक् वक्तव्यः ।६ - १३ - प्रभूतम् आह प्राभूतिकः ।७ - १३ - पार्याप्तिकः ।८ - १३ - पृच्छतौ सुस्नातादिभ्यः ।९ - १३ - पृच्छतौ सुस्नातादिभ्यः ठक् वक्तव्यः ।१० - १३ - सौस्नातिकः सौखरात्रिकः सौखशायिकः ।११ - १३ - गच्छतौ परदारादिभ्यः ।१२ - १३ - गच्छतौ परदारादिभ्यः ठक् वक्तव्यः ।१३ - १३ - पारदारिकः गौरुतल्पिकः ।१ - ४ - इह केषाम् चित् सांहितिकम् षत्वम् केषाम् चित् षिदर्थम् ।२ - ४ - तत्र न ज्ञायते केषाम् सांहितिकम् षत्वम् केषाम् षिदर्थम् इति ।३ - ४ - परिगणनम् कर्तव्यम् ।४ - ४ - आकर्षात् पर्पादेः भस्त्रादिभ्यः कुसीद्सूत्रात् च आवसथात् किसरादेः षितः षट् एते ठगधिकारे ।१ - २ - वीवधात् च इति वक्तव्यम् ।२ - २ - वैवधिकः ।१ - २३ - नित्यग्रहणम् किमर्थम् ।२ - २३ - विभषा मा भूत् ।३ - २३ - न एतत् अस्ति प्रयोजनम् ।४ - २३ - पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् ।५ - २३ - इदम् तर्हि प्रयोजनम् ।६ - २३ - त्रेः मम्नित्यवचनम् विषयार्थम् ।७ - २३ - नित्यम् त्र्यन्तम् मब्विषयम् एव यथा स्यात् ।८ - २३ - केवलस्य प्रयोगः मा भूत् ।९ - २३ - अस्ति प्रयोजनम् एतत् ।१० - २३ - किम् तर्हि इति. तत्र यथाधिकारम् तद्विषयप्रसङ्गः ।११ - २३ - तत्र यथाधिकारम् तद्विषयता प्राप्नोति ।१२ - २३ - निर्वृत्ते इत् वर्तते ।१३ - २३ - तेन निर्वृत्ते एव त्र्यन्तम् मब्विषयम् स्यात् ।१४ - २३ - ये अन्ये उपचाराः तत्र न स्यात् ।१५ - २३ - कृत्रिमम् महत् सुविहितम् इति ।१६ - २३ - एवम् तर्हि भावे इति प्रकृत्य इमप् वक्तव्यः कुट्टिमा भूमिः सेकिमः असिः इति एवमर्थम् ।१७ - २३ - ततः वक्तव्यम् त्रेः ।१८ - २३ - त्रेः मप् भवति ।१९ - २३ - ततः नित्यम् ।२० - २३ - नित्यम् त्र्यन्तात् इमप् इति ।२१ - २३ - किमर्थम् इदम् ।२२ - २३ - नित्यम् त्र्यन्तम् इमब्विषये एव यथा स्यात् ।२३ - २३ - केवलस्य प्रयोगः मा भूत् इति ।१ - ३ - अयम् योगः शक्यः अवक्तुम् ।२ - ३ - कथम् चूर्णी चूर्णिनौ चूर्णिनः इति ।३ - ३ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।१ - १४ - लवणात् लुग्वचनानर्थक्यम् रसवाचिव्तात् ।२ - १४ - लवणात् लुग्वचनम् अनर्थकम् ।३ - १४ - किम् कारणम् ।४ - १४ - रसवाचिव्तात् ।५ - १४ - रसवाची एषः लवणशब्दः ।६ - १४ - न एषः संसृष्टनिमित्तः ।७ - १४ - आतः च रसवाची ।८ - १४ - असंसृष्टे च दर्शनात् ।९ - १४ - असंसृष्टे अपि हि लवणशब्दः वर्तते ।१० - १४ - तत् यथा ।११ - १४ - लवणम् क्षीरम् लवणम् पानीयम् इति ।१२ - १४ - संसृष्टे च अदर्शनात् ।१३ - १४ - संसृष्टे अपि च यदा न उपलभ्यते तदा आह ।१४ - १४ - अलवणः सूपः अलवणः शाकम् इति ।१ - १५ - अयुक्तः अयम् निर्देशः ।२ - १५ - यत् असौ अल्पम् दत्त्वा बहु गृह्णाति तत् गर्ह्यम् ।३ - १५ - कथम् तर्हि निर्देशः कर्तव्यः ।४ - १५ - प्रयच्छति गर्हाय इति ।५ - १५ - सः तर्हि तथा निर्देशः कर्तव्यः ।६ - १५ - न कर्तव्यः ।७ - १५ - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।८ - १५ - गर्ह्यार्थम् गर्ह्यम् ।९ - १५ - मेस्याल्लोपः वा ।१० - १५ - मेस्याच्छब्दलोपः वा द्रष्टव्यः ।११ - १५ - द्विगुणम् मे स्यात् इति प्रयच्छति द्वैगुणिकः ।१२ - १५ - त्रैगुणिकः ।१३ - १५ - वृद्धेः वृधुषिभावः ।१४ - १५ - वृद्धेः वृधुषिभावः वक्तव्यः ।१५ - १५ - वार्धुषिकः ।१ - ३ - अधर्मात् च ।२ - ३ - अधर्मात् च इति वक्तव्यम् ।३ - ३ - आधर्मिकः ।१ - १० - नृनराभ्याम् अञ्वचनम् ।२ - १० - नृनराभ्याम् च इति वक्तव्यम् ।३ - १० - नुः धर्म्या नारी ।४ - १० - नरस्य अपि नारी ।५ - १० - विशसितुः इड्लोपः च ।६ - १० - विशसितुः इड्लोपः च अञ् च वक्तव्यः ।७ - १० - विशसितुः धर्म्यम् वैशस्त्रम् ।८ - १० - विभाजयितुः णिलोपः च ।९ - १० - विभाजयितुः णिलोपः च अञ् च वक्तव्यः ।१० - १० - विभाजयितुः धर्म्यम् वैभाजित्रम् ।१ - ७ - किम् यस्य मृदङ्गः शिल्पम् सः मार्दङ्गिकः ।२ - ७ - किम् च अतः ।३ - ७ - कुम्भकारे प्राप्नोति ।४ - ७ - एवम् तर्हि उत्तरपदलोपः द्रष्टव्यः ।५ - ७ - शिल्पम् इव शिल्पम् ।६ - ७ - मृदङ्ग्वादनम् शिल्पम् अस्य मार्दङ्गिकः ।७ - ७ - पैठरिकः ।१ - १६ - किमर्थम् इदम् उच्यते ।२ - १६ - न कक् एव उच्यते का रूपसिद्धिः शाक्तीकः याष्टीकः इति ।३ - १६ - शक्तियष्ट्योः ईकारः अन्ते कशब्दः च प्रत्ययः ।४ - १६ - न सिध्यति ।५ - १६ - विभाषा च एव हि शक्तियष्ट्योः ईकारः अपि च के अणः इति ह्रस्वत्वम् प्रसज्येत ।६ - १६ - एवम् तर्हि इकक् उच्यते ।७ - १६ - का रूपसिद्धिः ।८ - १६ - शाक्तीकः याष्टीकः इति ।९ - १६ - सवर्णदीर्घत्वेन सिद्धम् ।१० - १६ - न सिध्यति ।११ - १६ - यस्य इति च लोपः प्राप्नोति ।१२ - १६ - इकारोच्चारणसामार्थ्यात् न भविष्यति ।१३ - १६ - यदि तर्हि प्राप्नुवन् विधिः उच्चारणसामर्थ्यात् बाध्यते सवर्णदीर्घत्वम् अपि न प्राप्नोति ।१४ - १६ - यम् विधिम् प्रति उपदेशः अनर्थकः सः विधिः बाध्यते ।१५ - १६ - यस्य तु विधेः निमित्तम् एव न असौ बाध्यते ।१६ - १६ - यस्य इति लोपम् च प्रति इकारोच्चारणम् अनर्थकम् सवर्णदीर्घत्वस्य तु निमित्तम् एव ।१ - ७ - किम् यस्य अस्ति मतिः सः आस्तिकः ।२ - ७ - किम् च अतः ।३ - ७ - चौरे अपि प्राप्नोति ।४ - ७ - एवम् तर्हि इतिलोपः अत्र द्रष्टव्यः ।५ - ७ - अस्ति इति अस्य मतिः आस्तिकः ।६ - ७ - न अस्ति इति अस्य मतिः नास्तिकः ।७ - ७ - दिष्टम् इति अस्य मतिः दैष्टिकः ।१ - ६ - किम् यस्य छत्रधारणम् शीलम् सः छात्रः ।२ - ६ - किम् च अतः ।३ - ६ - राजपुरुषे प्राप्नोति ।४ - ६ - एवम् तर्हि उत्तरपदलोपः अत्र द्रष्टव्यः. छत्रम् इव छत्रम् ।५ - ६ - गुरुः छत्रम् ।६ - ६ - गुरुणा शिष्यः छत्रवत् छाद्यः शिष्येण च गुरुः छत्रवत् परिपाल्यः ।१ - १२ - हितम् भक्षाः इति चतुर्थीनिर्देशः ।२ - १२ - हितम् भक्षाः इति चतुर्थीनिर्देशः कर्तव्यः ।३ - १२ - इतरथा हि अनिर्देशः ।४ - १२ - इतरथा हि निर्देशः न भवति ।५ - १२ - हितशब्देन च योगे चतुर्थी विधीयते ।६ - १२ - सा प्राप्नोति ।७ - १२ - सः तर्हि चतुर्थीनिर्देशः कर्तव्यः ।८ - १२ - न कर्तव्यः ।९ - १२ - एवम् वक्ष्यामि ।१० - १२ - हितम् भक्षाः तस्मै ।११ - १२ - ततः दीयते नियुक्तम् ।१२ - १२ - तत् अस्मै इति ।१ - १८ - वहत्यभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानानर्थक्यम् विहितत्वात् ।२ - १८ - वहत् इति अभिधाने रथशकटहलसीरेभ्यः प्रत्ययविधानम् अनर्थकम् ।३ - १८ - किम् कारणम् ।४ - १८ - विहितत्वात् ।५ - १८ - विहितः अत्र प्रत्ययः तस्य इदम् इति ।६ - १८ - शब्दभेदात् अविधानम् ।७ - १८ - शब्दभेदात् अविधिः सः भवति ।८ - १८ - अन्यः हि शब्दः रथम् वहति अन्यः हि रथस्य वोढा इति ।९ - १८ - शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयत्वात् प्रत्ययविधानस्य अर्थसामान्यात् सिद्धम् ।१० - १८ - शब्दभेदात् अविधानम् इति चेत् अर्थाश्रयः प्रत्ययविधिः ।११ - १८ - सः एव अर्थ रथम् वहति सः एव रथस्य वोढा इति ।१२ - १८ - तत्र अर्थसामान्यात् सिद्धम् ।१३ - १८ - इदम् तर्हि प्रयोजनम् ।१४ - १८ - यः द्वौ रथौ वहति सः द्विरथ्यः ।१५ - १८ - यः द्वयोः रथयोः वोढा सः द्विरथः ।१६ - १८ - तेन सति लुक् भवति ।१७ - १८ - अनेन सति कस्मात् न भवति ।१८ - १८ - प्राक् दीव्यतः इति उच्यते ।१ - १२ - किम् निपात्यते ।२ - १२ - जनन्याः जनीभावः निपात्यते यत् च प्रत्ययः ।३ - १२ - जन्याः इति निपातनानर्थक्यम् पञ्चमीनिर्देशात् ।४ - १२ - जन्याः इति निपातनम् अनर्थकम् ।५ - १२ - किम् कारणम् ।६ - १२ - पञ्चमीनिर्देशात् ।७ - १२ - जननीशब्दात् एषा पञ्चमी ।८ - १२ - इदम् तर्हि प्रयोजनम् ।९ - १२ - सर्वकालः प्रत्ययविधिः यथा विज्ञायेत ।१० - १२ - जनीम् वहन्ति जन्याः ।११ - १२ - जनीम् वोढारः जन्याः ।१२ - १२ - जनीम् अवाक्षुः जन्याः इति ।१ - ११ - विध्यति अकरणेन ।२ - ११ - विध्यति अकरणेन इति वक्तव्यम् ।३ - ११ - इतरथा ह अतिप्रसङ्गः ।४ - ११ - अधनुषा इति उच्यमाने अत्रिप्रसङ्गः भवति ।५ - ११ - इह अपि प्रसज्येत ।६ - ११ - शर्कराभिः विध्यति ।७ - ११ - कण्टकैः विध्यति इति ।८ - ११ - तत् तर्हि वक्तव्यम् ।९ - ११ - न वक्तव्यम् ।१० - ११ - कस्मात् न भवति शर्कराभिः विध्यति कण्टकैः विध्यति इति ।११ - ११ - अनभिधानात् ।१ - १० - गृहपतिना संयुक्ते इति उच्यते ।२ - १० - तत्र दक्षिणाग्नौ अपि प्राप्नोति ।३ - १० - दक्षिणाग्निः अपि गृहपतिना संयुज्यते ।४ - १० - एवम् तर्हि गृहपतिना संयुक्ते इति उच्यते सर्वः च गृहपतिना संयुक्तः ।५ - १० - तत्र प्रकर्षगतिः भविष्यति साधीयः यः गृहपतिना संयुक्तः इति ।६ - १० - कः च साधीयः ।७ - १० - यस्मिन् पत्नीसंयाज्याः क्रियन्ते ।८ - १० - अथ वा गृहपतिः नाम मन्त्रः ।९ - १० - सः यस्मिन् उच्यते ।१० - १० - अथ वा सञ्ज्ञायाम् इति वर्तते ।१ - ९ - मासतन्वोः अनन्तरार्थे वा ।२ - ९ - मासतन्वोः अनन्तरार्थे वा इति वक्तव्यम् ।३ - ९ - मधु अस्मिन् असिति मधु अनन्तरम् वा मधव्यः माधवः ।४ - ९ - लुगकारेकाररेफाः च ।५ - ९ - लुगकारेकाररेफाः च प्रत्ययाः वक्तव्याः ।६ - ९ - लुक् मधुः तपः नभः ।७ - ९ - अकारः इषः ऊर्जः ।८ - ९ - इकारः शुचिः ।९ - ९ - रेफः च शुक्रः ।१ - १८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् ।२ - १८ - अक्षरसमूहे छन्दसः उपसङ्ख्यानम् कर्तव्यम् ।३ - १८ - ओ श्रावय इति चतुरक्षरम् ।४ - १८ - अस्तु श्रौषट् इति चतुरक्षरम् ।५ - १८ - ये यजामहे इति पञ्चाक्षरम् ।६ - १८ - यज इति द्व्यक्षरम् ।७ - १८ - द्व्यक्षरः वषट्कारः ।८ - १८ - एषः वै सप्तदशाक्षरः छन्दस्यः प्रज्ञापतिः यज्ञम् अनु विहितः ।९ - १८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।१० - १८ - छन्दसि बहुभिर्वसव्यैरुपसङ्ख्यानम् ।११ - १८ - हस्तौ पृणस्व बहुविः वसव्यैः ।१२ - १८ - अग्निरीशेवसव्यस्य ।१३ - १८ - अग्निरीशेवसव्यस्य उपसङ्ख्यानम् कर्तव्यम् ।१४ - १८ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।१५ - १८ - न कर्तव्यम् ।१६ - १८ - स्वार्थविज्ञानात् सिद्धम् ।१७ - १८ - स्वार्थविज्ञानात् सिद्धम् एतत् ।१८ - १८ - वसवः एव वसव्याः पान्तु । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP