संस्कृत सूची|संस्कृत स्तोत्र साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद ४| खण्ड ४१ पाद ४ खण्ड ४१ पाद ४ - खण्ड ४१ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ४१ Translation - भाषांतर १ - ८० - हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।२ - ८० - हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् इति ।३ - ८० - किम् प्रयोजनम् ।४ - ८० - लादेशप्रतिषेधार्थम् ।५ - ८० - लादेशौ हिस्वौ मा भूताम् इति ।६ - ८० - किम् च स्यात् यदि लादेशौ हिस्वौ स्याताम् ।७ - ८० - तिङन्तम् पदम् इति पदसञ्ज्ञा न स्यात् ।८ - ८० - मात् भूत् एवम् ।९ - ८० - सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।१० - ८० - कथम् स्वाद्युत्पत्तिः ।११ - ८० - लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् ।१२ - ८० - लकारः कृत् ।१३ - ८० - तस्य कृत्त्वात् कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।१४ - ८० - प्रातिपदिकाश्रया स्वाद्युत्पत्तिः अपि भविष्यति ।१५ - ८० - यदि स्वाद्युत्पत्तिः सुपाम् श्रवणम् प्राप्नोति ।१६ - ८० - अव्ययात् इति सुब्लुक् भविष्यति ।१७ - ८० - कथम् अव्ययत्वम् ।१८ - ८० - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।१९ - ८० - निपातम् अव्ययम् इति अव्ययसञ्ज्ञा ।२० - ८० - इह तर्हि सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति तिङ् अतिङः इति निघातः न प्राप्नोति ।२१ - ८० - समसङ्ख्यार्थम् च ।२२ - ८० - समसङ्ख्यार्थम् च हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् हिः परस्मैपदानाम् यथा स्यात् स्वः आत्मनेपदानाम् ।२३ - ८० - व्यतिकरः मा भूत् इति ।२४ - ८० - न वा तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।२५ - ८० - न वा हिस्वोः परस्मैपदात्मनेपदग्रहणम् कर्तव्यम् ।२६ - ८० - किम् कारणम् ।२७ - ८० - तध्वमोः आदेशवचनम् ज्ञापकम् पदादेशस्य ।२८ - ८० - यत् अयम् वा च तध्वमोः इति आह तत् ज्ञापयति आचार्यः पदादेशौ हिस्वौ इति ।२९ - ८० - तत्र पदादेशे पित्त्वाटोः प्रतिषेधः ।३० - ८० - तत्र पदादेशे पित्त्वस्य आटः च प्रतिषेधः वक्तव्यः ।३१ - ८० - पित्त्वस्य तावत् ।३२ - ८० - सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।३३ - ८० - आटः खलु अपि ।३४ - ८० - सः अहम् लुनीहि लुनीहि इति एवम् लुनानि ।३५ - ८० - पित्त्वस्य तावत् न वक्तव्यः ।३६ - ८० - पित्प्रतिषेधे योगविभागः करिष्यते ।३७ - ८० - इह सेः हि भवति ।३८ - ८० - ततः अपित् च ।३९ - ८० - अपित् च भवति यावान् हिः नाम ।४० - ८० - आटः च अपि न वक्तव्यः ।४१ - ८० - आटि कृते साट्कस्य आदेशः भविष्यति ।४२ - ८० - इदम् इह सम्प्रधार्यम् आट् क्रियताम् आदेशः इति ।४३ - ८० - किम् अत्र कर्तव्यम् ।४४ - ८० - परत्वात् आडागमः ।४५ - ८० - नित्यः आदेशः ।४६ - ८० - कृते अपि आटि प्राप्नोति अकृते अपि प्राप्नोति ।४७ - ८० - आट् अपि नित्यः ।४८ - ८० - कृते अपि आदेशे प्राप्नोति अकृते अपि प्राप्नोति ।४९ - ८० - अनित्यः आट् ।५० - ८० - अन्यस्य कृते अपि आदेशे प्राप्नोति अन्यस्य अकृते अपि प्राप्नोति ।५१ - ८० - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।५२ - ८० - आदेशः अपि अनित्यः ।५३ - ८० - अन्यस्य कृते आटि प्राप्नोति अन्यस्य अकृते ।५४ - ८० - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।५५ - ८० - उभयोः अनित्ययोः परत्वात् आडागमः ।५६ - ८० - आटि कृते साट्कस्य आदेशः भविष्यति ।५७ - ८० - इदम् तर्हि सः अहम् भुङ्क्ष्व भुङ्क्ष्व इति एवम् भुनजै इति श्नसोः अल्लोपः इति अकारलोपः न प्राप्नोति ।५८ - ८० - समसङ्ख्यार्थत्वम् च अपि अपरिहृतम् एव. सिद्धम् तु लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् ।५९ - ८० - सिद्धम् एतत् ।६० - ८० - कथम् ।६१ - ८० - लोड्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्वे भवतः इति वक्तव्यम् ।६२ - ८० - केन विहितस्य क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् उच्यते ।६३ - ८० - एतत् एव ज्ञापयति आचार्यः भवति क्रियासमभिहारे लोट् इति यत् अयम् क्रियासमभिहारे लोड्मध्यमपुरुषैकवचनस्य द्विर्वचनम् शास्ति ।६४ - ८० - कुतः नु खलु एतत् ज्ञापकात् अत्र लोट् भविष्यति ।६५ - ८० - न पुनः यः एव असौ अविशेषविहितः सः यदा क्रियासमभिहारे भवति तदा अस्य द्विर्वचनम् भवति इति ।६६ - ८० - लोड्मध्यमपुरुषैकवचने एव खलु अपि सिद्धम् स्यात् ।६७ - ८० - इमौ च अन्यौ हिस्वौ सर्वेषाम् पुरुषाणाम् सर्वेषाम् वचनानाम् इष्येते ।६८ - ८० - सूत्रम् च भिद्यते ।६९ - ८० - यथान्यासम् एव अस्तु ।७० - ८० - ननु च उक्तम् हिस्वोः परस्मैपदात्मनेपदग्रहणम् लादेशप्रतिषेधार्थम् ।७१ - ८० - समसङ्ख्यार्थम् च इति ।७२ - ८० - न एषः दोषः ।७३ - ८० - योगविभागात् सिद्धम् ।७४ - ८० - योगविभागः करिष्यते ।७५ - ८० - क्रियासमभिहारे लोट् भवति ।७६ - ८० - ततः लोटः हिस्वौ भवतः ।७७ - ८० - लोट् इति एव अनुवर्तते ।७८ - ८० - लोटः यौ हिस्वौ इति ।७९ - ८० - कथम् वा च तध्वमोः इति ।८० - ८० - वा च तध्वम्भाविनः लोटः इति एवम् एतत् विज्ञायते ।१ - १० - किमर्थम् इदम् उच्यते ।२ - १० - अनुप्रयोगः यथा स्यात् ।३ - १० - न एतत् अस्ति प्रयोजनम् ।४ - १० - हिस्वान्तम् अव्यक्तपदार्थकम् ।५ - १० - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।६ - १० - इदम् तर्हि प्रयोजनम् ।७ - १० - यथाविधि इति वक्ष्यामि इति ।८ - १० - एतत् अपि न अस्ति प्रयोजनम् ।९ - १० - समुच्चये सामान्यवचनस्य इति वक्ष्यति ।१० - १० - तत्र अन्तरेण वचनम् यथाविधि अनुप्रयोगः भविष्यति ।१ - ९ - किमर्थम् इदम् उच्यते ।२ - ९ - अनुप्रयोगः यथा स्यात् ।३ - ९ - न एतत् अस्ति प्रयोजनम् ।४ - ९ - हिस्वान्तम् अव्यक्तपदार्थकम् ।५ - ९ - तेन अपरिसमाप्तः अर्थः इति कृत्वा अनुप्रयोगः भविष्यति ।६ - ९ - इदम् तर्हि प्रयोजनम् ।७ - ९ - सामान्यवचनस्य इति वक्ष्यामि इति ।८ - ९ - एतत् अपि न अस्ति प्रयोजनम् ।९ - ९ - सामान्यवचनस्य अनुप्रयोगः अस्तु विशेषवचनस्य इति सामान्यवचनस्य अनुप्रयोगः भविष्यति लघुत्वात् ।१ - १० - उपसंवादाशङ्कयोः वचनानर्थक्यम् लिङर्थत्वात् ।२ - १० - उपसंवादाशङ्कयोः वचनम् नर्थकम् ।३ - १० - किम् कारणम् ।४ - १० - लिङर्थत्वात् ।५ - १० - लिङर्थे लेट् इति एव सिद्धम् ।६ - १० - कः पुनः लिङर्थः ।७ - १० - के चित् तावत् आहुः ।८ - १० - हेतुहेतुमतोः लिङ् इति ।९ - १० - अपरे आहुः वक्तव्यः एव एतस्मिन् विशेषे लिङ् ।१० - १० - प्रयुज्यते हि लोके यदि मे भवान् इदम् कुर्यात् अहम् अपि ते इदम् दद्याम् ।१ - १६ - तुमर्थे इति उच्यते ।२ - १६ - कः तुमर्थः ।३ - १६ - कर्ता ।४ - १६ - यदि एवम् न अर्थः तुमर्थग्रहणेन ।५ - १६ - येन एव खलु अपि हेतुना कर्तरि तुमुन् भवति तेन एव हेतुना सयादयः अपि भविष्यन्ति ।६ - १६ - एवम् तर्हि सिद्धे सति यत् तुमर्थग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यः कर्तुः तुमुनः अर्थः इति ।७ - १६ - कः पुनः असौ ।८ - १६ - भावः ।९ - १६ - कुतः नु खलु एतत् भावे तुमुन् भविष्यति ।१० - १६ - न पुनः कर्मादिषु कारकेषु इति ।११ - १६ - ज्ञापकात् अयम् कर्तुः अपकृष्यते ।१२ - १६ - न च अन्यस्मिन् अर्थे आदिश्यते ।१३ - १६ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यति तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।१४ - १६ - सः असौ स्वार्थे भवन् भावे भविष्यति ।१५ - १६ - किम् एतस्य ज्ञापने प्रयोजनम् ।१६ - १६ - अव्ययकृतः भावे भवन्ति इति एतत् न वक्तव्यम् भवति ।१ - १२ - किमर्थम् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् क्रियते न उदीचाम् मेङः इति एव उच्येत ।२ - १२ - तत्र अयम् अपि अर्थः ।३ - १२ - उदीचाम् मेङः इति व्यतिहारग्रहणम् न कर्तव्यम् भवति ।४ - १२ - किम् कारणम् ।५ - १२ - तद्विषयः हि सः ।६ - १२ - वय्तिहारविषयः एव मयतिः ।७ - १२ - एवम् तर्हि सिद्धे सति यत् मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति तत् ज्ञापयति आचार्यः न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति ।किम् एतस्य ज्ञापने प्रयोजनम् ।८ - १२ - तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति उक्तम् ।९ - १२ - तत् न वक्तव्यम् भवति ।१० - १२ - किमर्थम् पुनः इदम् उच्यते न समानकर्तृकयोः पूर्वकाले इति एव सिद्धम् ।११ - १२ - अपूर्वकालार्थः अयम् आरम्भः ।१२ - १२ - पूर्वम् हि असौ याचते पश्चात् अपमयते ।१ - १७ - इह कस्मात् न भवति पूर्वम् भुङ्क्ते पश्चात् व्रजति ।२ - १७ - स्वशब्देन उक्तत्वात् न भवति ।३ - १७ - न तर्हि इदानीम् इदम् भवति पूर्वम् भुक्त्वा ततः व्रजति इति ।४ - १७ - न एतत् क्रियापौर्वकाल्यम् ।५ - १७ - किम् तर्हि ।६ - १७ - कर्तृपौर्वकाल्यम् ।७ - १७ - पूर्वम् हि असौ भुक्त्वा अन्येभ्यः भोक्तृभ्यः ततः पश्चात् व्रजति अन्येभ्यः व्रजितृभ्यः ।८ - १७ - इह कस्मात् न भवति आस्यते भोक्तुम् इति ।९ - १७ - कुतः कस्मात् न भवति ।१० - १७ - किम् आसेः आहोस्वित् भुजेः ।११ - १७ - भुजेः कस्मात् न भवति ।१२ - १७ - अपूर्वकालत्वात् ।१३ - १७ - आसेः तर्हि कस्मात् न भवति ।१४ - १७ - यस्मात् अत्र लट् भवति ।१५ - १७ - एतत् अत्र प्रष्टव्यम् ।१६ - १७ - लट् अत्र कथम् भवति इति ।१७ - १७ - लट् च अत्र वासरूपेण भविष्यति ।१ - ४० - समानकर्तृकयोः इति बहुषु अप्राप्तिः ।२ - ४० - समानकर्तृकयोः इति बहुषु क्त्वा न प्राप्नोति ।३ - ४० - स्नात्वा भुक्त्वा पीत्वा व्रजति इति ।४ - ४० - किम् पुन कारणम् न सिध्यति ।५ - ४० - द्विवचननिर्देशात् ।६ - ४० - द्विवचनेन अयम् निर्देशः क्रियते ।७ - ४० - तेन द्वयोः एव पौर्वकाल्ये स्यात् ।८ - ४० - बहूनाम् न स्यात् ।९ - ४० - सिद्धम् तु क्रियाप्रधनत्वात् ।१० - ४० - सिद्धम् एतत् ।११ - ४० - कथम् ।१२ - ४० - क्रियाप्रधनत्वात् ।१३ - ४० - क्रियाप्रधानः अयम् निर्देशः ।१४ - ४० - न अत्र निर्देशः तन्त्रम् ।१५ - ४० - कथम् पुनः तेन एव नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।१६ - ४० - तत्कारी च भवान् तद्द्वेषी च ।१७ - ४० - नान्तरीयकत्वात् अत्र द्विवचनेन निर्देशः क्रियते ।१८ - ४० - अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः ।१९ - ४० - तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।२० - ४० - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।२१ - ४० - तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।२२ - ४० - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।२३ - ४० - एवम् इह अपि नान्तरीयकत्वात् द्विवचनेन निर्देशः क्रियते ।२४ - ४० - न हि अत्र निर्देशः तन्त्रम् ।२५ - ४० - एवम् अपि लोकविज्ञानात् न सिध्यति । तत् यथा ।२६ - ४० - लोके ब्राह्मणानाम् पूर्वम् आनीयताम् इति उक्ते सर्वपूर्वः आनीयते ।२७ - ४० - एवम् इह अपि सर्वपूर्वायाः क्रियायाः प्राप्नोति ।२८ - ४० - अनन्त्यवचनात् तु सिद्धम् ।२९ - ४० - समानकर्तृकयोः अनन्त्यस्य इति वक्तव्यम् ।३० - ४० - सिध्यति ।३१ - ४० - सूत्रम् तर्हि भिद्यते ।३२ - ४० - यथान्यासम् एव अस्तु ।३३ - ४० - ननु च उक्तम् समानकर्तृकयोः इति बहुषु अप्राप्तिः इति ।३४ - ४० - परिहृतम् एतत् सिद्धम् तु क्रियाप्रधनत्वात् इति ।३५ - ४० - ननु च उक्तम् एवम् अपि लोकविज्ञानात् न सिध्यति इति ।३६ - ४० - न एषः दोषः सर्वेषाम् अत्र व्रजिक्रियाम् प्रति पौर्वकाल्यम् ।३७ - ४० - स्नात्वा व्रजति भुक्त्वा व्रजति पीत्वा व्रजति इति ।३८ - ४० - एवम् च कृत्वा प्रयोगः अनियतः भवति ।३९ - ४० - स्नात्वा भुक्त्व पीत्वा व्रजति ।४० - ४० - पीत्वा स्नात्वा भुत्वा व्रजति इति ।१ - ११ - व्यादाय स्वपिति इति उपसङ्ख्यानम् अपूर्वकालत्वात् ।२ - ११ - व्यादाय स्वपिति इति उपसङ्ख्यानम् कर्तव्यम् ।३ - ११ - किम् पुनः कारणम् न सिध्यति ।४ - ११ - अपूर्वकालत्वात् ।५ - ११ - पूर्वम् हि असौ स्वपिति पश्चात् व्याददाति ।६ - ११ - न वा स्वप्नस्य अवकालत्वात् ।७ - ११ - न वा कर्तव्यम् ।८ - ११ - किम् कारणम् ।९ - ११ - स्वप्नस्य अवकालत्वात् ।१० - ११ - अवरकालः स्वप्नः ।११ - ११ - अवश्यम् असौ व्यादाय मुहुर्तम् अपि स्वपिति ।१ - १३ - किम् इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।२ - १३ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।३ - १३ - आभीक्ष्ण्ये इति वा नित्ये प्राप्ते अन्यत्र वा अप्राप्ते ।४ - १३ - किम् च अतः ।५ - १३ - यदि प्राप्ते आभीक्ष्ण्ये अनिष्टा विभाषा प्राप्नोति अन्यत्र च इष्टा न सिध्यति ।६ - १३ - अथ अप्राप्ते ।७ - १३ - अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः ।८ - १३ - अग्रादिषु अप्राप्तविधेः समासप्रतिषेधः वक्तव्यः ।९ - १३ - सः तर्हि वक्तव्यः ।१० - १३ - न वक्तव्यः ।११ - १३ - उक्तम् एतत् अमा एव अव्ययेन इति अत्र एवकारकरणस्य प्रजोजनम् ।१२ - १३ - अमा एव अव्ययेन यत् तुल्यविधानम् उपपदम् तत्र समासः यथा स्यात् ।१३ - १३ - अमा च अन्येन च यत् तुल्यविधानम् उपपदम् तत्र मा भूत् इति ।१ - १० - किमर्थम् स्वादुमि मकारान्तत्वम् निपात्यते न खमुञ् प्रकृतः सः अनुवर्तिष्यते ।२ - १० - स्वादुमि मान्तनिपातनम् ईकाराभावार्थम् ।३ - १० - स्वादुमि मान्तनिपातनम् क्रियते ईकाराभावार्थम् ।४ - १० - ईकारः मा भूत् इति ।५ - १० - स्वाद्वीम् कृत्वा यवागूम् भुङ्क्ते ।६ - १० - स्वादुङ्कारम् यवागूम् भुङ्क्ते ।७ - १० - च्व्यन्तस्य च मकारान्तार्थम् ।८ - १० - च्व्यन्तस्य च मकारान्तत्वम् निपात्यते ।९ - १० - अस्वादु स्वादु कृत्वा भुङ्क्ते ।१० - १० - स्वादुङ्कारम् भुङ्क्ते ।१ - ७१ - आ च तुमुनः समानाधिकरणे ।२ - ७१ - आ च तुमुनः प्रत्ययाः समानाधिकरणे वक्तव्याः ।३ - ७१ - केन ।४ - ७१ - अनुप्रयोगेण ।५ - ७१ - किम् प्रयोजनम् ।६ - ७१ - स्वादुङ्कारम् यवागूः भुज्यते देवदत्तेन इति देवदत्ते तृतीया यथा स्यात् ।७ - ७१ - किम् च कारणम् न स्यात् ।८ - ७१ - णमुला अभिहितः कर्ता इति ।९ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।१० - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यवाग्वाम् द्वितीया प्राप्नोति ।११ - ७१ - किम् कारणम् ।१२ - ७१ - णमुला अनभिहितम् कर्म इति ।१३ - ७१ - यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।१४ - ७१ - इह हि स्वादुङ्कारम् यवागूम् भुङ्क्ते देवदत्तः इति यवाग्वाम् द्वितीया न स्यात् ।१५ - ७१ - किम् कारणम् ।१६ - ७१ - णमुला अभिहितम् कर्म इति ।१७ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।१८ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।१९ - ७१ - किम् कारणम् ।२० - ७१ - णमुला अनभिहितः कर्ता इति ।२१ - ७१ - अथ अनेन क्त्वायाम् अर्थः पक्त्वा ओदनः भुज्यते देवदत्तेन इति ।२२ - ७१ - बाढम् अर्थः ।२३ - ७१ - देवदत्ते तृतीया यथा स्यात् ।२४ - ७१ - किम् च कारणम् न स्यात् ।२५ - ७१ - क्त्वया अभिहितः कर्ता इति ।२६ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।२७ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।२८ - ७१ - किम् कारणम् ।२९ - ७१ - क्त्वया अनभिहितम् कर्म इति ।३० - ७१ - यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।३१ - ७१ - इह हि पक्त्वा ओदनम् भुङ्क्ते देवदत्तः इति ओदने द्वितीया न स्यात् ।३२ - ७१ - किम् कारणम् ।३३ - ७१ - क्त्वया अभिहितम् कर्म इति ।३४ - ७१ - ननु च भुजिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।३५ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।३६ - ७१ - किम् कारणम् ।३७ - ७१ - क्त्वया अनभिहितः कर्ता इति ।३८ - ७१ - अथ अनेन तुमुनि अर्थः ।३९ - ७१ - भोक्तुम् ओदनः पच्यते देवदत्तेन ।४० - ७१ - बाढम् अर्थः ।४१ - ७१ - देवदत्ते तृतीया यथा स्यात् ।४२ - ७१ - किम् च कारणम् न स्यात् ।४३ - ७१ - तुमुना अभिहितः कर्ता इति ।४४ - ७१ - ननु च पचिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।४५ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ओदने द्वितीया प्राप्नोति ।४६ - ७१ - किम् कारणम् ।४७ - ७१ - तुमुना अनभिहितम् कर्म इति ।४८ - ७१ - यदि पुनः अयम् कर्मणि विज्ञायेत ण एवम् शक्यम् ।४९ - ७१ - इह हि भोक्तुम् ओदनम् पचति देवदत्तः इति ओदने द्वितीया न स्यात् ।५० - ७१ - किम् कारणम् ।५१ - ७१ - तुमुना अभिहितम् कर्म इति ।५२ - ७१ - ननु च पचिप्रत्ययेन अनभिहितम् कर्म इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया ।५३ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति द्वितीया देवदत्ते तृतीया प्राप्नोति ।५४ - ७१ - किम् कारणम् ।५५ - ७१ - तुमुना अनभिहितः कर्ता इति ।५६ - ७१ - अथ अनेन इह अर्थः पक्त्वा ओदनम् ग्रामः गम्यते देवदत्तेन ।५७ - ७१ - बाढम् अर्थः ।५८ - ७१ - देवदत्ते तृतीया यथा स्यात् ।५९ - ७१ - किम् च कारणम् न स्यात् ।६० - ७१ - क्त्वया अभिहितः कर्ता इति ।६१ - ७१ - ननु च गमिप्रत्ययेन अनभिहितः कर्ता इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया ।६२ - ७१ - यदि सति अभिधाने च अनभिधाने च कुतः चित् अनभिधानम् इति कृत्वा अनभिहिताश्रयः विधिः भविष्यति तृतीया यत् उक्तम् ओदने द्वितीया प्राप्नोति इति सः दोषः न जायते ।६३ - ७१ - तत् तर्हि वक्तव्यम् आ च तुमुनः समानाधिकरणे इति ।६४ - ७१ - न वक्तव्यम् ।६५ - ७१ - अव्ययकृतः भावे भवन्ति इति भावे भविष्यन्ति ।६६ - ७१ - किम् वक्तव्यम् एतत् ।६७ - ७१ - न हि ।६८ - ७१ - कथम् अनुच्यमानम् गंस्यते ।६९ - ७१ - तुमर्थे इति वर्तते ।७० - ७१ - तुमर्थः च कः ।७१ - ७१ - भावः ।१ - ७ - ऊलोपश्चास्यान्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् ।२ - ७ - कथम् गोष्पदम् वृष्टः देवः इति ।३ - ७ - प्रातिः पूरणकर्मा ।४ - ७ - तस्मात् एषः कः ।५ - ७ - यदि कः विभतीनाम् श्रवणम् प्राप्नोति ।६ - ७ - श्रूयन्ते एव अत्र विभक्तयः ।७ - ७ - तत् यथा एकेन गोष्पदप्रेण ।१ - २० - हनः करणे अनर्थकम् वचनम् हिंसार्थेभ्यः णमुल्विधानात् ।२ - २० - हनः करणे अनर्थकम् वचनम् ।३ - २० - किम् कारणम् ।४ - २० - हिंसार्थेभ्यः णमुल्विधानात् ।५ - २० - हिंसार्थेभ्यः णमुल्विधीयते ।६ - २० - तेन एव सिद्धम् ।७ - २० - अर्थवत् तु अहिंसार्थस्य विधानात् ।८ - २० - अर्थवत् तु हन्तेः णमुल्वचनम् ।९ - २० - कः अर्थः ।१० - २० - अहिंसार्थस्य विधानात् ।११ - २० - अहिंसार्थानाम् णमुल् यथा स्यात् ।१२ - २० - अस्ति पुनः अयम् क्व चित् हन्तिः अहिंसार्थः यदर्थः विधिः स्यात् ।१३ - २० - अस्ति इति आह ।१४ - २० - पाण्युपघातम् वेदिम् हन्ति ।१५ - २० - नित्यसमासार्थम् च ।१६ - २० - नित्यसमासार्थम् च हिंसार्थात् अपि हन्तेः अनेन विधिः एषितव्यः ।१७ - २० - कथम् पुनः इच्छता अपि हिंसार्थात् हन्तेः अनेन विधिः लभ्यः ।१८ - २० - अनेन अस्तु तेन वा इति तेन स्यात् विप्रतिषेधेन ।१९ - २० - हन्तेः पूर्वविप्रतिषेधः वार्त्तिकेन एव ज्ञापितः ।२० - २० - यत् अयम् नित्यसमासार्थम् च इति आह तत् ज्ञापयति आचार्यः हिंसार्थात् अपि हन्तेः अनेन विधिः भवति इति ।१ - ७ - इह कस्मात् न भवति ।२ - ७ - ग्रामे बद्धः इति ।३ - ७ - एवम् वक्ष्यामि ।४ - ७ - अधिकरणे बन्धः सञ्ज्ञायाम् ।५ - ७ - ततः कर्त्रोः जीवपुरुषयोः नशिवहोः इति ।६ - ७ - कथम् अट्टालिकाबन्धम् बद्धः चण्डालिकाबनधम् बद्धः ।७ - ७ - उपमाने कर्मणि च इति एवम् भविष्यति ।१ - ३ - अयुक्तः अयम् निर्देशः ।२ - ३ - तिरश्चि इति भवितव्यम् ।३ - ३ - सौत्रः अयम् निर्देशः ।१ - ६ - अर्थग्रहणम् किमर्थम् ।२ - ६ - नाधाप्रत्यये इति इयति उच्यमाने इह एव स्यात् द्विधाकृत्य ।३ - ६ - इह न स्यात् द्वैधङ्कृत्य ।४ - ६ - अर्थग्रहणे पुनः क्रियमाणे न दोषः भवति ।५ - ६ - नाधाप्रत्यये सिद्धम् भवति यः च अन्यः तेन समानार्थः ।६ - ६ - अथ प्रत्ययग्रहणम् किमर्थम् इह मा भूत् हिरुक् कृत्वा पृथक् कृत्वा१ - ३ - अयुक्तः अयम् निर्देशः ।२ - ३ - अनूचि इति भवितव्यम् ।३ - ३ - सौत्रः अयम् निर्देशः ।१ - ८६ - किमर्थम् इदम् उच्यते ।२ - ८६ - कर्तरि कृद्वचनम् अनादेशे स्वाऋथविज्ञानात् ।३ - ८६ - कर्तरि कृतः भवन्ति इति उच्यते अनादेशे स्वाऋथविज्ञानात् ।४ - ८६ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति ।५ - ८६ - तत् यथा ।६ - ८६ - गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।७ - ८६ - एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।८ - ८६ - स्वार्थे मा भूवन् कर्तरि यथा स्युः इति एवमर्थम् इदम् उच्यते ।९ - ८६ - न एतत् अस्ति प्रयोजनम् ।१० - ८६ - यम् इच्छति स्वार्थे आह तम् ।११ - ८६ - भावे घञ् भवति इति ।१२ - ८६ - कर्मणि तर्हि मा भूवन् इति ।१३ - ८६ - कर्मणि अपि यम् इच्छति आह तम् ।१४ - ८६ - धः कर्मणि ष्ट्रन् इति ।१५ - ८६ - करणाधिकरणयोः तर्हि मा भूवन् इति ।१६ - ८६ - करणाधिकरणयोः अपि यम् इच्छति आह तम् ।१७ - ८६ - ल्युट् करणाधिकरणयोः भवति इति ।१८ - ८६ - सम्प्रदानापादानयोः तर्हि मा भूवन् इति ।१९ - ८६ - सम्प्रदानापादानयोः अपि यम् इच्छति आह तम् ।२० - ८६ - दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।२१ - ८६ - यः इदानीम् अन्यः प्रत्ययः शेषः सः अन्तरेण वचनम् कर्तरि एव भविष्यति ।२२ - ८६ - तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।२३ - ८६ - ननु च उक्तम् यम् इच्छति स्वार्थे आह तम् ।२४ - ८६ - भावे घञ् भवति इति ।२५ - ८६ - अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।२६ - ८६ - अनेन इदानीम् आभ्यन्तरे भावे स्युः ।२७ - ८६ - तत्र मा भूवन् इति कर्तृग्रहणम् ।२८ - ८६ - कः पुनः अनयोः भावयोः विशेषः ।२९ - ८६ - उक्तः भावभेदः भाष्ये ।३० - ८६ - अस्ति प्रयोजनम् एतत् ।३१ - ८६ - किम् तर्हि इति ।३२ - ८६ - तत्र ख्युनादिप्रतिषेधः नानावाक्यत्वात् ।३३ - ८६ - तत्र ख्युनादीनाम् प्रतिषेधः वक्तव्यः ।३४ - ८६ - ख्युनादयः कर्तरि मा भूवन् इति ।३५ - ८६ - ननु च करणे खुनादयः विधीयन्ते ।३६ - ८६ - ते कर्तरि न भविष्यन्ति ।३७ - ८६ - तेन च करणे स्युः अनेन च कर्तरि ।३८ - ८६ - ननु च अपवादत्वात् ख्युनादय्ः बाधकाः स्युः ।३९ - ८६ - न स्युः ।४० - ८६ - किम् कारणम् ।४१ - ८६ - नानावाक्यत्वात् ।४२ - ८६ - नानावाक्यम् तत् च इदम् च ।४३ - ८६ - समानवाक्ये अपवादैः उत्सर्गाह्ः बाध्यन्ते ।४४ - ८६ - नानावाक्यत्वात् बाधनम् न प्राप्नोति ।४५ - ८६ - तद्वत् च कृत्येषु एवकारकरणम् ।४६ - ८६ - एवम् च कृत्वा कृत्येषु एवकारः क्रियते ।४७ - ८६ - तयोः एव कृत्यक्तखलर्थाः इति भावे च अकर्मकेभ्यः इति ।४८ - ८६ - किम् प्रयोजनम् ।४९ - ८६ - तत् च भव्याद्यर्थम् ।५० - ८६ - भव्यादिषु समावेशः सिद्धः भवति ।५१ - ८६ - गेयः माणवकः साम्नाम् ।५२ - ८६ - गेयानि माणवकेन सामानि इति ।५३ - ८६ - ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य ।५४ - ८६ - यत् अयम् कर्तरि च ऋषिदेवतयोः इति सिद्धे सति समावेशे समावेशार्थम् चकारम् शास्ति तत् ज्ञापयति आचार्यः न भवति समावेशः इति ।५५ - ८६ - किमर्थम् तर्हि कृत्येषु एवकारः क्रियते ।५६ - ८६ - एवकारकरणम् च चार्थे ।५७ - ८६ - एवकारकरणम् च चार्थे द्रष्टव्यम् ।५८ - ८६ - तयोः भावकर्मणोः कृत्या भवन्ति भव्यादीनाम् कर्तरि च इति ।५९ - ८६ - किम् प्रयोजनम् ।६० - ८६ - तत् च भव्याद्यर्थम् ।६१ - ८६ - भव्यादिषु समावेशः सिद्धः भवति ।६२ - ८६ - गेयः माणवकः साम्नाम् ।६३ - ८६ - गेयानि माणवकेन सामानि इति ।६४ - ८६ - यत् तावत् उच्यते ऋषिदेवतयोः तु कृद्भिः समावेशवचनम् ज्ञापकम् असमावेशस्य इति ।६५ - ८६ - न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः अपवादैः बाध्यन्ते इति ।६६ - ८६ - एषः एव न्यायः यत् उत अपवादैः उत्सर्गाः बाध्येरन् ।६७ - ८६ - ननु च उक्तम् नानावाक्यत्वात् बाधनम् न प्राप्नोति इति ।६८ - ८६ - न विदेशस्थम् इति कृत्वा नानावाक्यम् भवति ।६९ - ८६ - विदेशस्थम् अपि सत् एकवाक्यम् भवति ।७० - ८६ - तत् यथा द्वितीये अध्याये लुक् उच्यते ।७१ - ८६ - तस्य चतुर्थषष्ठयोः अलुक् उच्यते अपवादः ।७२ - ८६ - यत् अपि उच्यते एवकारकरणम् च चार्थे इति ।७३ - ८६ - कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते ।७४ - ८६ - कथम् एवकारः चार्थे वर्तते ।७५ - ८६ - सः एषः एवकारः स्वार्थे वर्तते ।७६ - ८६ - किम् प्रयोजनम् ।७७ - ८६ - ज्ञापकार्थम् ।७८ - ८६ - एतत् ज्ञापयति अचार्यः इतः उत्तरम् समावेशः भवति इति ।७९ - ८६ - किम् एतस्य ज्ञपने प्रयोजनम् ।८० - ८६ - तत् च भव्याद्यर्थम् ।८१ - ८६ - भव्यादिषु समावेशः सिद्धः भवति ।८२ - ८६ - गेयः माणवकः साम्नाम् ।८३ - ८६ - गेयानि माणवकेन सामानि इति ।८४ - ८६ - यदि एतत् ज्ञप्यते इह अपि समावेशः प्राप्नोति दाशगोघ्नौ सम्प्रदाने भीमादयः अपादाने इति ।८५ - ८६ - अत्र अपि सिद्धम् भवति ।८६ - ८६ - यत् अयम् आदिकर्मणि क्तः कर्तरि च इति सिद्धे समावेशे समावेशम् शास्ति तत् ज्ञपयति आचार्यः प्राक् अमुतः समावेशः भवति इति ।१ - २७ - किम् पुनः अयम् प्रत्ययनियमः धातोः परः अकारः अकशब्दः वा नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।२ - २७ - आहोस्वित् सञ्ज्ञानियमः धातोः परः अकारः अकशब्दः वा स्वभावतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च भवति प्रत्ययसञ्ज्ञः च इति ।३ - २७ - कः च अत्र विशेषः ।४ - २७ - तत्र प्रत्ययनियमे अनिष्टप्रसङ्गः ।५ - २७ - तत्र प्रत्ययनियमे सति अनिष्टम् प्राप्नोति ।६ - २७ - काष्ठभित् अब्राह्मणः , बलभित् अब्राह्मणः ।७ - २७ - एषः अपि नियोगतः कर्तारम् ब्रुवन् कृत्सञ्ज्ञः च स्यात् प्रत्ययसञ्ज्ञः च ।८ - २७ - सञ्ज्ञानियमे सिद्धम् ।९ - २७ - सञ्ज्ञानियमे सति सिद्धम् भवति ।१० - २७ - यदि सञ्ज्ञानियमः विभक्तादिषु दोषः ।११ - २७ - विभक्ताः भ्रातरः पीताः गावः इति न सिध्यति ।१२ - २७ - प्रत्ययनियमे पुनः सति परिगणिताभ्यः प्रकृतिभ्यः परः क्तः नियोगतः कर्तारम् आह ।१३ - २७ - न च इमाः तत्र परिगण्यन्ते प्रकृतयः ।१४ - २७ - विभक्तादिषु च अप्राप्तिः प्रकृतेः प्रत्ययपरवचनात् ।१५ - २७ - विभक्तादिषु च प्रत्ययनियमस्य अप्राप्तिः ।१६ - २७ - किम् कारणम् ।१७ - २७ - प्रकृतेः प्रत्ययपरवचनात् ।१८ - २७ - परिगणिताभ्यः प्रकृतिभ्यः परः क्तः स्वभावतः कर्तारम् आह ।१९ - २७ - न च इमाः तत्र परिगण्यन्ते ।२० - २७ - न तर्हि इदानीम् अयम् साधुः भवति ।२१ - २७ - भवति साधुः न तु कर्तरि ।२२ - २७ - कथम् तर्हि इदानीम् अत्र कर्तृत्वम् गम्यते ।२३ - २७ - अकारः मत्वर्थीयः विभक्तम् एषाम् अस्ति विभक्ताः ।२४ - २७ - पीतम् एषाम् अस्ति पिताः इति ।२५ - २७ - अथ वा उत्तरपदलोपः अत्र द्रष्टव्यः ।२६ - २७ - विभक्तधनाः विभक्ताः ।२७ - २७ - पीतोदकाः पिताः इति ।१ - ७० - किमर्थम् इदम् उच्यते ।२ - ७० - लः एषु साधनेषु यथा स्यात् कर्तरि च कर्मणि च भावे च अकर्मकेभ्यः इति ।३ - ७० - न एतत् अस्ति प्रयोजनम् ।४ - ७० - भावकर्मणोः आत्मनेपदम् विधीयते शेषात् कर्तरि परस्मैपदम् ।५ - ७० - एतावान् च लः यत् उत परस्मैपदम् आत्मनेपदम् च ।६ - ७० - सः च अयम् एवम् विहितः ।७ - ७० - अतः उत्तरम् पठति ।८ - ७० - लग्रहणम् सकर्मकनिवृत्त्यर्थम् ।९ - ७० - लग्रहणम् क्रियते सकर्मकनिवृत्त्यर्थम् ।१० - ७० - सकर्मकाणाम् भावे लः मा भूते इति ।११ - ७० - यदि पुनः तत्र एव अकर्मकग्रहणम् क्रियेत ।१२ - ७० - तत्र अकर्मकग्रहणम् कर्तव्यम् ।१३ - ७० - ननु च इह अपि क्रियते भावे च अकर्मकेभ्यः इति ।१४ - ७० - परार्थम् एतत् भविष्यति ।१५ - ७० - तयोः एव कृत्यक्तखलर्थाः भावे च अकर्मकेभ्यः ।१६ - ७० - यावत् इह लग्रहणम् तावत् तत्र अकर्मकग्रहणम् ।१७ - ७० - इह वा लग्रहणम् क्रियेत तत्र वा अकर्मकग्रहणम् ।१८ - ७० - कः नु अत्र विशेषः ।१९ - ७० - अयम् अस्ति विशेषः ।२० - ७० - इह लग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।२१ - ७० - तत्र पुनः अकर्मकग्रहणे क्रियमाणे आनः कर्तरि न प्राप्नोति ।२२ - ७० - तत्र अपि अकर्मकग्रहणे क्रियमाणे आनः कर्तरि सिद्धः भवति ।२३ - ७० - कथम् ।२४ - ७० - भावकर्मणोः इति अतः अन्यत् यत् आत्मनेपदानुक्रमणम् सर्वम् तत् कर्त्रर्थम् ।२५ - ७० - विप्रतिषेधात् वा आनः कर्तरि ।२६ - ७० - विप्रतिषेधात् वा आनः कर्तरि भविष्यति ।२७ - ७० - तत्र भावकर्मणोः इति एतत् अस्तु कर्तरि कृत् इति ।२८ - ७० - कर्तरि कृत् इति एतत् भविष्यति विप्रतिषेधेन ।२९ - ७० - सर्वप्रसङ्गः तु ।३० - ७० - सर्वेभ्यः तु धातुभ्यः आनः कर्तरि प्राप्नोति ।३१ - ७० - परस्मैपदिभ्यः अपि ।३२ - ७० - न एषः दोषः ।३३ - ७० - अनुदात्तङितः इति एषः योगः नियमार्थः भविष्यति ।३४ - ७० - यदि एषः योगः नियमार्थः विधिः न प्रकल्पते ।३५ - ७० - आस्ते शेते इति ।३६ - ७० - अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।३७ - ७० - आसीनः शयानः ।३८ - ७० - तथा नेः विशः इति एवमादि अनुक्रमणम् यदि नियमाऋथः विधिः न प्रकल्पते ।३९ - ७० - अथ विध्यर्थः आनस्य नियमः न प्राप्नोति ।४० - ७० - अस्तु तर्हि नियमार्थम् ।४१ - ७० - ननु च उक्तम् विधिः न प्रकल्पते इति ।४२ - ७० - विधिः च प्रक्ल्̥प्तः ।४३ - ७० - कथम् ।४४ - ७० - भावकर्मणोः इति अत्र अनुदात्तङितः इति एतत् अनुवर्तिष्यते ।४५ - ७० - यदि अनुवर्तते एवम् अपि अनुदात्तङितः एव भावकर्मणोः आत्मनेपदम् प्राप्नोति ।४६ - ७० - एवम् तर्हि योगविभागः करिष्यते ।४७ - ७० - अनुदात्तङितः आत्मनेपदम् भवति ।४८ - ७० - ततः भावकर्मणोः ।४९ - ७० - ततः कर्तरि ।५० - ७० - कर्तरि च आत्मनेपदम् भवति अनुदात्तङितः इति एव ।५१ - ७० - भावकर्मणोः इति निवृत्तम् ।५२ - ७० - ततः कर्मव्यतिहारे ।५३ - ७० - कर्तरि इति एव अनुवर्तते ।५४ - ७० - अनुदात्तङितः इति अपि निवृत्तम् ।५५ - ७० - यत् अपि उच्यते नेः विशः इति एवमादि अनुक्रमणम् यदि नियमार्थम् विधिः न प्रकल्पते ।५६ - ७० - अथ विध्यर्थः आनस्य नियमः न प्राप्नोति इति ।५७ - ७० - अस्तु विध्यर्थम् ।५८ - ७० - ननु च उक्तम् आनस्य नियमः न प्राप्नोति इति ।५९ - ७० - न एषः दोषः ।६० - ७० - यथा एव अत्र अप्राप्ताः तङः भवन्ति एवम् आनः अपि भविष्यति ।६१ - ७० - सर्वत्र अप्रसङ्गः तु ।६२ - ७० - सर्वेषु तु साधनेषु आनः न प्राप्नोति ।६३ - ७० - विप्रतिषेधात् वा आनः कर्तरि इति भावकर्मणोः न स्यात् ।६४ - ७० - कर्तरि एव स्यात् ।६५ - ७० - इह पुनः लग्रहणे क्रियमाणे कर्तरि कृत् इति एतत् अस्तु लः कर्मणि च भावे च अकर्मकेभ्यः इति लः कर्मणि च भावे च अकर्मकेभ्यः इति एतत् भविष्यत् विप्रतिषेधेन ।६६ - ७० - सर्वप्रसङ्गः तु ।६७ - ७० - लादेशः सर्वेषु साधनेषु प्राप्नोति ।६८ - ७० - शतृक्वसूच भावकर्मणोः अपि प्राप्नुतः ।६९ - ७० - न एषः दोषः ।७० - ७० - शेषात् परस्मैपदम् कर्तरि इति एवम् तौ कर्तारम् ह्रियेते ।१ - ३१ - लादेशे सर्वप्रसङ्गः अविशेषात् ल्̥आदेशे सर्वप्रसङ्गः ।२ - ३१ - सर्वस्य लकारस्य आदेशः प्राप्नोति ।३ - ३१ - अस्य अपि प्राप्नोति लुनाति लभते ।४ - ३१ - किम् कारणम् ।५ - ३१ - अविशेषात् ।६ - ३१ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य लकारस्य आदेशः भवति इति ।७ - ३१ - अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।८ - ३१ - अर्थवद्ग्रहणात् सिद्धम् ।९ - ३१ - अर्थवतः लकारस्य ग्रहणम् न च एषः अर्तह्वत् ।१० - ३१ - अर्थवद्ग्रहणात् सिद्धम् इति चेत् न वर्णग्रहणेषु । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तत् न ।११ - ३१ - किम् कारणम् ।१२ - ३१ - वर्णग्रहणम् इदम् ।१३ - ३१ - न च एतत् वर्णग्रहणेषु भवति अर्थवद्ग्रहणे न अनर्थकस्य इति ।१४ - ३१ - तस्मात् विशिष्तग्रहणम् ।१५ - ३१ - तस्मात् विशिष्तस्य लकारस्य ग्रहणम् कर्तव्यम् ।१६ - ३१ - न कर्तव्यम् ।१७ - ३१ - धातोः इति वर्तते ।१८ - ३१ - एवम् अपि शाला माला मल्लः इति अत्र प्राप्नोति ।१९ - ३१ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।२० - ३१ - एवम् अपि नन्दनः अत्र प्राप्नोति ।२१ - ३१ - इत्सञ्ज्ञा अत्र बाधिका भविष्यति ।२२ - ३१ - इह अपि तर्हि बाधेत ।२३ - ३१ - पचति पठति इति ।२४ - ३१ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।२५ - ३१ - इदम् अस्ति इत्कार्यम् लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।२६ - ३१ - लिति इति उच्यते ।२७ - ३१ - न च अत्र लितम् पश्यामः ।२८ - ३१ - अथ अपि कथम् चित् वचनात् वा अनुवर्तनात् वा इत्सञ्ज्ञ्कानाम् आदेशः स्यात् एवम् अपि न दोषः ।२९ - ३१ - आचार्यप्रवृत्तिः ज्ञापयति न लादेशे लित्कार्यम् भवति इति यत् अयम् णलम् लितम् करोति ।३० - ३१ - अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि नो दोषः ।३१ - ३१ - क्रियते विशिष्टग्रहणम् लस्य इति ।१ - १२ - लादेशः वर्णविधेः पूर्वविप्रतिषिद्धम् । लादेशः वर्णविधेः भवति पूर्वविप्रतिषेधेन ।२ - १२ - लादेशस्य अवकाशः पचतु पठतु ।३ - १२ - वर्णविधेः अवकाशः दध्यत्र मध्वत्र ।४ - १२ - इह उभयम् प्राप्नोति ।५ - १२ - पचतु अत्र ।६ - १२ - पठतु अत्र ।७ - १२ - लादेशः भवति पूर्वविप्रतिषेधेन ।८ - १२ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।९ - १२ - न वक्तव्यः ।१० - १२ - उक्तम् वा ।११ - १२ - किम् उक्तम् ।१२ - १२ - लादेशः वर्णविधेः इति ।१ - ४० - टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः ।२ - ४० - टितः एत्वे आत्मनेपदेषु आनप्रतिषेधः वक्तव्यः ।३ - ४० - पचमानः यजमानः ।४ - ४० - टितः इति एत्वम् प्राप्नोति ।५ - ४० - उक्तम् वा ।६ - ४० - किम् उक्तम् ।७ - ४० - ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य इति ।८ - ४० - न एतत् अस्ति उक्तम् ।९ - ४० - एवम् किल तत् उक्तम् स्यात् यदि एवम् विज्ञायेत ।१० - ४० - टित् आत्मनेपदम् टिदात्मनेपदम् ।११ - ४० - टिदात्मनेपदानाम् इति ।१२ - ४० - तत् च न ।१३ - ४० - टितः लकारस्य यानि आत्मनेपदानि इति एवम् एतत् विज्ञायते ।१४ - ४० - अवश्यम् च एतत् एवम् विज्ञेयम् ।१५ - ४० - टित् आत्मनेपदम् टिदात्मनेपदम् ।१६ - ४० - टिदात्मनेपदानाम् इति विज्ञायमाने अकुर्वि अत्र अपि प्रसज्येत ।१७ - ४० - न एषः टित् ।१८ - ४० - कः तर्हि ।१९ - ४० - ठित् ।२० - ४० - सः च अवश्यम् ठित् कर्तव्यः आदिः मा भूत् इति ।२१ - ४० - कथम् इटः अत् इति ।२२ - ४० - इठः अत् इति वक्ष्यामि इति ।२३ - ४० - तत् च अवश्यम् वक्तव्यम् पर्यवपाद्यस्य मा भूत् ।२४ - ४० - लविषीष्ट ।२५ - ४० - इह तर्हि इषम् ऊर्जम् अहम् इतः आदि आतः लोपः इटि च इति आकारलोपः न प्राप्नोति ।२६ - ४० - तस्मात् टित् एषः ।२७ - ४० - आदिः तर्हि कस्मात् न भवति ।२८ - ४० - सप्तदश आदेशाः स्थानेयोगत्वम् प्रयोजयन्ति ।२९ - ४० - तान् एकः न उत्सहते विहन्तुम् इति कृत्वा आदिः न भविष्यति ।३० - ४० - पर्यवपाद्यस्य कस्मात् न भवति ।३१ - ४० - लविषीष्ट इति ।३२ - ४० - असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति ।३३ - ४० - इदम् तर्हि उक्तम् प्राकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।३४ - ४० - के च प्रकृताः ।३५ - ४० - तादयः ।३६ - ४० - आने मुक् ज्ञापकम् तु एत्वे टित्तङाम् ।३७ - ४० - इशिसीरिचः डारौरःसु ।३८ - ४० - टित् अटितः ।३९ - ४० - प्रकृते तत् ।४० - ४० - गुणे कथम् ।१ - ५० - णलः शित्करणम् सर्वादेशार्थम् ।२ - ५० - णल् शित् कर्तव्यः ।३ - ५० - किम् प्रयोजनम् ।४ - ५० - सर्वादेशार्थम् ।५ - ५० - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।६ - ५० - अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।७ - ५० - उक्तम् वा ।८ - ५० - किम् उक्तम् ।९ - ५० - अनित्त्वात् सिद्धम् इति ।१० - ५० - णकारः क्रियते ।११ - ५० - तस्य अनित्त्वात् सिद्धम् ।१२ - ५० - कः एषः परिहारः न्याय्यः ।१३ - ५० - शकारम् असि चोदितः ।१४ - ५० - णकारम् करिष्यामि शकारम् न करिष्यामि इति ।१५ - ५० - णकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।१६ - ५० - अवश्यम् अत्र णकारः वृद्ध्यर्थः कर्तव्यः णिति इति वृद्धिः यथा स्यात् ।१७ - ५० - न अर्थः वृद्ध्यर्थेन णकारेण ।१८ - ५० - णित्त्वे योगविभागः करिष्यते ।१९ - ५० - इदम् अस्ति गोतः णित् ।२० - ५० - ततः अल् ।२१ - ५० - अल् च णित् भवति ।२२ - ५० - ततः उत्तमः वा इति ।२३ - ५० - एवम् तर्हि लकारः क्रियते ।२४ - ५० - तस्य अनित्त्वात् सिद्धम् ।२५ - ५० - कः एषः परिहारः न्याय्यः ।२६ - ५० - शकारम् असि चोदितः ।२७ - ५० - लकारम् करिष्यामि शकारम् न करिष्यामि इति ।२८ - ५० - लकारः अत्र क्रियेत शकारः वा कः नु अत्र विशेषः ।२९ - ५० - अवश्यम् एव अत्र स्वरार्थः लकारः कर्तव्यः लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् ।३० - ५० - न एतत् अस्ति प्रयोजनम् ।३१ - ५० - धातुस्वरे कृते द्विर्वचनम् ।३२ - ५० - तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।३३ - ५० - कथम् पुनः अयम् अन्तोदात्तः स्यात् यदा एकाच् ।३४ - ५० - व्यपदेशिवद्भावेन ।३५ - ५० - यथा एव तर्हि व्यपदेशिवद्भावेन अन्तोदात्तः एवम् आद्युदात्तः अपि ।३६ - ५० - तत्र आन्तर्यतः आद्युदात्तस्य आद्युदात्तः आदेशः प्रसज्येत ।३७ - ५० - सत्यम् एतत् ।३८ - ५० - न तु इदम् लक्षणम् अस्ति धातोः आदिः उदात्तः भवति इति ।३९ - ५० - इदम् पुनः अस्ति धातोः अन्तः उदात्तः भवति इति ।४० - ५० - सः असौ लक्षणेन अन्तोदात्तः ।४१ - ५० - तत्र आन्तर्यतः अन्तोदात्तस्य अन्तोदात्तः आदेशः भविष्यति ।४२ - ५० - एतत् अपि आदेशे न अस्ति आदेशस्य अन्तः उदात्तः भवति इति ।४३ - ५० - प्रकृतितः अनेन स्वरः लभ्यः ।४४ - ५० - प्रकृतिः च अस्य यथा एव अन्तोदात्ता एवम् आद्युदात्ता अपि ।४५ - ५० - द्विःप्रयोगे च अपि द्विर्वचने उभयोः अन्तोदात्तत्वम् प्रसज्येत ।४६ - ५० - अनुदात्तम् पदम् एकवर्जम् इति न अस्ति यौगपद्येन सम्भवः ।४७ - ५० - पर्यायः प्रसज्येत ।४८ - ५० - तस्मात् स्वरार्थः लकारः कर्तव्यः ।४९ - ५० - लकारः क्रियते ।५० - ५० - तस्य अनित्त्वात् सिद्धम् ।१ - १८ - अकारस्य शित्करणम् सर्वादेशार्थम् ।२ - १८ - अकारः शित्कर्तव्यः ।३ - १८ - किम् प्रयोजनम् ।४ - १८ - सर्वादेशार्थम् ।५ - १८ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।६ - १८ - अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।७ - १८ - ननु च अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण शकारम् सर्वादेशः भविष्यति ।८ - १८ - अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।९ - १८ - किम् ।१० - १८ - अकारवचनम् समसङ्ख्यार्थम् ।११ - १८ - सङ्ख्यातानुदेशः यथा स्यात् ।१२ - १८ - तस्मात् शित्करणम् ।१३ - १८ - तस्मात् शकारः कर्तव्यः ।१४ - १८ - न कर्तव्यः ।१५ - १८ - क्रियते न्यासे एव ।१६ - १८ - प्रश्लिष्टनिर्देशः अयम् ।१७ - १८ - अ* अ* अ ।१८ - १८ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।१ - २१ - लङ्वदतिदेशे जुस्भावप्रतिषेधः ।२ - २१ - लङ्वदतिदेशे जुस्भावस्य प्रतिषेधः वक्तव्यः ।३ - २१ - यान्तु वान्तु ।४ - २१ - लङः शाकटायनस्य एव इति जुस्भावः प्राप्नोति ।५ - २१ - उत्ववचनात् सिद्धम् ।६ - २१ - उत्वम् अत्र बाधकम् भविष्यति ।७ - २१ - अनवकाशाः हि विधयः बाधकाः भवन्ति ।८ - २१ - सावकाशम् च उत्वम् ।९ - २१ - कः अवकाशः ।१० - २१ - पचतु पठतु ।११ - २१ - अत्र अपि इकारलोपः प्राप्नोति ।१२ - २१ - तत् यथा एव उत्वम् इकारलोपम् बाधते एवम् जुस्भावम् अपि बाधते ।१३ - २१ - न बाधते ।१४ - २१ - किम् कारणम् ।१५ - २१ - येन न अप्राप्ते तस्य बाधनम् भवति ।१६ - २१ - न च अप्राप्ते इकारलोपे उत्वम् आरभ्यते ।१७ - २१ - जुस्भावे पुनः प्राप्ते च अप्राप्ते च ।१८ - २१ - अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उत्वम् इकारलोपम् बाधते जुभावम् न बाधते ।१९ - २१ - एवम् तर्हि वक्ष्यति तत्र लङ्ग्रहणस्य प्रयोजनम् ।२० - २१ - लङ् एव यः लङ् तत्र यथा स्यात् ।२१ - २१ - लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।१ - ११ - हिन्योः उत्वप्रतिषेधः ।२ - ११ - हिन्योः उकारस्य प्रतिषेधः वक्तव्यः ।३ - ११ - लुनीहि लुनानि ।४ - ११ - एः उः इति उत्वम् प्राप्नोति ।५ - ११ - न वा उच्चारणसामर्थ्यात् ।६ - ११ - न वा वक्तव्यः ।७ - ११ - किम् कारणम् ।८ - ११ - उच्चारणसामर्थ्यात् अत्र उत्वम् न भविष्यति ।९ - ११ - अलघीयः च एव हि इकारोच्चारणम् उकारोच्चारणात् ।१० - ११ - इकारम् च उच्चारयति उकारम् च न उच्चारयति ।११ - ११ - तस्य एतत् प्रयोजनम् उत्वम् मा भूत् इति ।१ - ११ - एतः ऐत्वे आद्गुणप्रतिषेधः ।२ - ११ - एतः ऐत्वे आद्गुणस्य प्रतिषेधः वक्तव्यः ।३ - ११ - पचाव इदम्(पचावेदम् - ।४ - ११ - पचाम इदम्(पचामेदम् - ।५ - ११ - आद्गुणे कृते एत ऐत् इति ऐत्वम् प्राप्नोति ।६ - ११ - न वा बहिरङ्गलक्षणत्वात् ।७ - ११ - न वा वक्तव्यः ।८ - ११ - किम् कारणम् ।९ - ११ - बहिरङ्गलक्षणत्वात् ।१० - ११ - बहिरङ्गलक्षणः आद्गुणः अन्तरङ्गलक्षणम् ऐत्वम् ।११ - ११ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।१ - २६ - यासुडादेः सीयुट्प्रतिषेधः ।२ - २६ - यासुडादेः सीयुटः प्रतिषेधः वक्तव्यः ।३ - २६ - चिनुयुः सुनुयुः ।४ - २६ - लिङः सीयुट् इति सीयुट् प्राप्नोति ।५ - २६ - न वा वाक्यापकर्षात् ।६ - २६ - न वा वक्तव्यः ।७ - २६ - किम् कारणम् ।८ - २६ - वाक्यापकर्षात् ।९ - २६ - वाक्यापकर्षात् यासुट् सीयुटम् बाधिष्यते ।१० - २६ - सुट्तिथोः तु अपकर्षविज्ञानम् ।११ - २६ - सुटः तिथोः तु अपकर्षः विज्ञायेत ।१२ - २६ - कृषीष्ट कृषीष्ठाः ।१३ - २६ - अनादेः च सुड्वचनम् ।१४ - २६ - अनादेः च सुट् वक्तव्यः ।१५ - २६ - कृषीयास्ताम् कृषीयास्थाम् ।१६ - २६ - तकारथकारादेः लिङः इति सुट् न प्राप्नोति ।१७ - २६ - न वा तिथोः प्रधानभावात् तद्विशेषणम् लिङ्ग्रहणम् ।१८ - २६ - न वा वक्तव्यम् ।१९ - २६ - किम् कारणम् ।२० - २६ - तिथोः प्रधानभावात् ।२१ - २६ - तिथौ एव तत्र प्रधानम् ।२२ - २६ - तद्विशेषणम् लिङ्ग्रहणम् ।२३ - २६ - न एवम् विज्ञायते ।२४ - २६ - तकारथकारयोः लिङः इति ।२५ - २६ - कथम् तर्हि ।२६ - २६ - तकारथकारयोः सुट् भवति तौ चेत् लिङः इति ।१ - १३ - किमर्थम् यासुटः ङित्त्वम् उच्यते ।२ - १३ - यासुटः ङिद्वचनम् पिदर्थम् ।३ - १३ - पिति वचनानि प्रयोजयन्ति ।४ - १३ - अथ किमर्थम् उदात्तवचनम् क्रियते ।५ - १३ - उदात्तवचनम् च ।६ - १३ - किम् ।७ - १३ - पिदर्थम् एव ।८ - १३ - आगमानुदात्तार्थम् वा ।९ - १३ - अथ वा एतत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति इति ।१० - १३ - असति अन्यस्मिन् प्रयोजने ज्ञापकम् भवति ।११ - १३ - उक्तम् च एतत् यासुटः ङिद्वचनम् पिदर्थम् उदात्तवचनम् च इति ।१२ - १३ - शक्यम् अनेन वक्तुम् यासुट् परस्मैपदेषु भवति अपित् च लिङ् भवति इति ।१३ - १३ - सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः आगमाः अनुदात्ताः भवन्ति ।१ - ४७ - किम् इदम् जुसि आकारग्रहणम् नियमार्थम् आहोस्वित् प्रापकम् ।२ - ४७ - कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् ।३ - ४७ - यदि सिज्ग्रहणम् अनुवर्तते ततः नियमार्थम् ।४ - ४७ - अथ निवृत्तम् ततः प्रापकम् ।५ - ४७ - कः च अत्र विशेषः ।६ - ४७ - जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् ।७ - ४७ - जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् कर्तव्यम् ।८ - ४७ - आतः सिज्लुगन्तात् इति वक्तव्यम् ।९ - ४७ - इह मा भूत् ।१० - ४७ - अकार्षुः अहार्षुः ।११ - ४७ - अस्तु तर्हि प्रापकम् ।१२ - ४७ - प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः । प्रापकम् इति चेत् प्रत्ययलक्षणप्रतिषेधः वक्तव्यः ।१३ - ४७ - अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति ।१४ - ४७ - एवकारकरणम् च ।१५ - ४७ - एवकारकरणम् च कर्तव्यम् ।१६ - ४७ - लङः शाकटायनस्य एव इति ।१७ - ४७ - नियमाऋथः पुनः सति न अर्थः एवकारेण ।१८ - ४७ - ननु च प्रापके अपि सति सिद्धि विधिः आरभ्यमाणः अन्तरेण एवकारम् नियमार्थः भविष्यति ।१९ - ४७ - इष्टतः अवधारणार्थः तर्हि एवकारः कर्तव्यः ।२० - ४७ - यथा एवम् विज्ञायेत लङः शाकटायनस्य एव ।२१ - ४७ - मा एवम् विज्ञायि लङः एव शाकटायनस्य इति ।२२ - ४७ - किम् च स्यात् ।२३ - ४७ - लुङः शाकटायनस्य न स्यात् ।२४ - ४७ - अदुः अपुः अधुः अस्थुः ।२५ - ४७ - लङ्ग्रहणम् च ।२६ - ४७ - लङ्ग्रहणम् च कर्तव्यम् ।२७ - ४७ - लङः शाकटायनस्य एव इति ।२८ - ४७ - नियमार्थे पुनः सति न अर्थः लङ्ग्रहणेन ।२९ - ४७ - आतः ङितः इति वर्तते ।३० - ४७ - न च अन्यः आकारात् अनन्तरः ङित् अस्ति अन्यत् अतः लङः ।३१ - ४७ - अस्तु तर्हि नियमार्थः ।३२ - ४७ - ननु च उक्तम् जुसि आकारग्रहणम् नियमार्थम् इति चेत् सिज्लुग्ग्रहणम् इति ।३३ - ४७ - न एषः दोषः ।३४ - ४७ - तुल्यजातीयस्य नियमः ।३५ - ४७ - कः च तुल्यजातीयः ।३६ - ४७ - यः द्वाभ्याम् अनन्तरः आतः च सिचः च ।३७ - ४७ - अथ तत् एवकारकरणम् न एव कर्तव्यम् ।३८ - ४७ - कर्तव्यम् च ।३९ - ४७ - किम् प्रयोजनम् ।४० - ४७ - उत्तरार्थम् ।४१ - ४७ - लिट् च लिङ् आशिषि आर्धधातुकम् एव यथा स्यात् ।४२ - ४७ - इतरथा हि वचनात् आर्धधातुकसञ्ज्ञा स्यात् तिङ्ग्रहणेन च ग्रहणात् सार्वधातुकसञ्ज्ञा ।४३ - ४७ - अथ तत् लङ्ग्रहणम् न एव कर्तव्यम् ।४४ - ४७ - कर्तव्यम् च ।४५ - ४७ - किम् प्रयोजनम् ।४६ - ४७ - लङ् एव यः लङ् तत्र यथा स्यात् ।४७ - ४७ - लङ्वद्भावेन यः लङ् तत्र मा भूत् इति ।१ - २१ - आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् ।२ - २१ - आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् ।३ - २१ - धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।४ - २१ - इह मा भूत् ।५ - २१ - वृक्षत्वम् वृक्षता इति ।६ - २१ - क्रियमाणे च अपि धातुग्रहणे स्वादिप्रतिषेधः ।७ - २१ - स्वादीनाम् प्रतिषेधः वक्तव्यः ।८ - २१ - इह मा भूत् ।९ - २१ - लूभ्याम् लूभिः इति ।१० - २१ - अनुक्रान्तापेक्षम् शेषग्रहणम् ।एवम् अपि अग्निकाम्प्यति वायुकाम्यति इति प्राप्नोति ।११ - २१ - तस्मात् धातुग्रहणम् कर्तव्यम् ।१२ - २१ - न कर्तव्यम् ।१३ - २१ - आ तृतीयाध्यायपरिसमाप्तेः धात्वधिकारः प्रकृतः अनुवर्तते ।१४ - २१ - क्व प्रकृतः ।१५ - २१ - धातोः एकाचः हलादेः इति ।१६ - २१ - एवम् अपि श्रीकाम्यति भूकाम्यति इति प्राप्नोति ।१७ - २१ - तद्विधानात् सिद्धम् ।१८ - २१ - विहितविशेषणम् धातुग्रहणम् ।१९ - २१ - धातोः यः विहितः इति ।२० - २१ - धातोः एषः विहितः ।२१ - २१ - सङ्कीर्त्य धातोः इति एवम् यः विहितः इति. N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP