संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|व्याकरणमहाभाष्य|अध्याय ३|पाद २| खण्ड ३७ पाद २ खण्ड ३७ खण्ड ३८ पाद २ - खण्ड ३७ व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे. Tags : grammerpaninivyakaranamahabhashyaपाणिनिव्याकरणव्याकरणमहाभाष्य खण्ड ३७ Translation - भाषांतर १ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् ।२ - २५ - इह मा भूत् ।३ - २५ - आदित्यम् पश्यति ।४ - २५ - हिववन्तम् श्र्णोति ।५ - २५ - ग्रामम् गच्छति इति ।६ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् ।७ - २५ - कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।८ - २५ - वेदाध्यायः चर्चापारः शमनीपारः ।९ - २५ - यत्र च नियुक्तः । यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् ।१० - २५ - छत्रधारः द्वारपालः ।११ - २५ - हृग्रहिनीवहिभ्यः च ।१२ - २५ - हृग्रहिनीवहिभ्यः च इति वक्तव्यम् ।१३ - २५ - हृ ।१४ - २५ - भारहारः ।१५ - २५ - ग्रहि ।१६ - २५ - कमण्डलुग्राहः ।१७ - २५ - नी. उष्ट्रप्रणायः ।१८ - २५ - वहि ।१९ - २५ - भारवाहः ।२० - २५ - अपरिगणनम् वा ।२१ - २५ - न वा अर्थः परिगणनेन ।२२ - २५ - कस्मात् न भवति आदित्यम् पश्यति , हिमवन्तम् श्र्णोति ।२३ - २५ - ग्रामम् गच्छति इति ।२४ - २५ - अनभिधानात् ।२५ - २५ - अनभिधानात् एव न भविष्यति ।१ - ५१ - अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन ।२ - ५१ - अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन ।३ - ५१ - अनुपपदस्य अवकाशः पचति इति पचः ।४ - ५१ - कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः ।५ - ५१ - ओदनपाचे उभयम् प्राप्नोति ।६ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।७ - ५१ - अनुपपदस्य अवकाशः विक्षिपः विलिखः ।८ - ५१ - कर्मोपपदस्य सः एव ।९ - ५१ - काष्ठभेदे उभयम् प्राप्नोति ।१० - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।११ - ५१ - अनुपपदस्य अवकाशः जानाति इति ज्ञः ।१२ - ५१ - कर्मोपपदस्य सः एव ।१३ - ५१ - अर्थज्ञे उभयम् प्राप्नोति ।१४ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।१५ - ५१ - न एषः युक्तः विप्रतिषेधः ।१६ - ५१ - अनुपपदः तृतीयः ।१७ - ५१ - ण्वुल्तृजचः ।१८ - ५१ - तेषाम् णः ।१९ - ५१ - णस्य कः ।२० - ५१ - सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।२१ - ५१ - कर्मोपपदः अपि तृतीयः ।२२ - ५१ - ण्वुल्तृजचः ।२३ - ५१ - तेषाम् अण् ।२४ - ५१ - अणः कः ।२५ - ५१ - उभयोः तृतीययोः युक्तः विप्रतिषेधः ।२६ - ५१ - अनुपपदस्य अवकाशः लिम्पति इति लिम्पः ।२७ - ५१ - कर्मोपपदस्य सः एव ।२८ - ५१ - कुड्यलेपे उभयम् प्राप्नोति ।२९ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।३० - ५१ - न एषः युक्तः विप्रतिषेधः ।३१ - ५१ - अनुपपदः तृतीयः ।३२ - ५१ - ण्वुल्तृजचः ।३३ - ५१ - तेषाम् कः ।३४ - ५१ - कस्य कः ।३५ - ५१ - सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।३६ - ५१ - का तर्हि गतिः ।३७ - ५१ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते ।३८ - ५१ - कर्मोपपदम् न बाधिष्यते ।३९ - ५१ - अनुपपदस्य अवकाशः सुग्लः सुम्लः ।४० - ५१ - कर्मोपपदस्य सः एव ।४१ - ५१ - वडवासन्दाये उभयम् प्राप्नोति ।४२ - ५१ - कर्मोपदः भवति विप्रतिषेधेन ।४३ - ५१ - न एषः युक्तः विप्रतिषेधः ।४४ - ५१ - अनुपपदः तृतीयः ।४५ - ५१ - ण्वुल्तृजचः ।४६ - ५१ - तेषाम् णः ।४७ - ५१ - णस्य कः ।४८ - ५१ - सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत ।४९ - ५१ - का तर्हि गतिः ।५० - ५१ - पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते ।५१ - ५१ - कर्मोपपदम् न बाधिष्यते ।१ - ३६ - शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च ।२ - ३६ - शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।३ - ३६ - शीलि ।४ - ३६ - मांसशीलः मांसशीला ।५ - ३६ - शीलि ।६ - ३६ - कामि ।७ - ३६ - मांसकामः मांसकामा ।८ - ३६ - कामि ।९ - ३६ - भक्षि ।१० - ३६ - मांसभक्षः मांसभक्षा ।११ - ३६ - भक्षि आचरि ।१२ - ३६ - कल्याणाचारः कल्याणाचारा ।१३ - ३६ - ईक्षिक्षमिभ्याम् च । ईक्षिक्षमिभ्याम् च इति वक्तव्यम् ।१४ - ३६ - सुखप्रतीक्षः सुखप्रतीक्षा ।१५ - ३६ - कल्याणक्षमः कल्याणक्षमा ।१६ - ३६ - किमर्थम् इदम् उच्यते ।१७ - ३६ - पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति ।१८ - ३६ - न एतत् अस्ति प्रयोजनम् ।१९ - ३६ - इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति ।२० - ३६ - यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः ।२१ - ३६ - एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति ।२२ - ३६ - किम् एतस्य ज्ञापने प्रयोजनम् ।२३ - ३६ - काण्डलावः ।२४ - ३६ - काण्डानि लावः अस्य इति बहुव्रीहिः न भवति ।२५ - ३६ - भवति तु बहुर्वीहिः अपि ।२६ - ३६ - मांसे कामः अस्य मांसकामः मांसकामकः इति वा ।२७ - ३६ - न तु अम्भोभिगमा ।२८ - ३६ - न तु इदम् भवति अम्भः अभिगमः अस्याः इति ।२९ - ३६ - किम् तर्हि ।३० - ३६ - अम्भोभिगामी इति एव भवति ।३१ - ३६ - काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति ।३२ - ३६ - न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति ।३३ - ३६ - आन्नादाय इति च कृताम् व्यत्ययः छन्दसि ।३४ - ३६ - आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः ।३५ - ३६ - अन्नादाय अन्नपतये ।३६ - ३६ - ये आहुतिम् अन्नादीम् कृत्वा ।१ - ९१ - कविधौ सर्वत्र प्रसारणिभ्यः डः ।२ - ९१ - कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः ।३ - ९१ - ब्रह्मज्यः ।४ - ९१ - किम् उच्यते सर्वत्र इति ।५ - ९१ - अन्यत्र अपि न अवश्यम् इह एव ।६ - ९१ - ह्व अन्यत्र ।७ - ९१ - आह्वः प्रह्वः इति ।८ - ९१ - के हि सम्प्रसारणप्रसङ्गः ।९ - ९१ - के हि सति सम्प्रसारणम् प्रसज्येत ।१० - ९१ - सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् ।११ - ९१ - सः तर्हि वक्तव्यः ।१२ - ९१ - न वक्तव्यः ।१३ - ९१ - अस्तु अत्र सम्प्रसारणम् ।१४ - ९१ - सम्प्रसारणे कृते आकारलोपः ।१५ - ९१ - तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति ।१६ - ९१ - पूर्वत्वे कृते प्राप्नोति ।१७ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।१८ - ९१ - आकारलोपः क्रियताम् पूर्वत्वम् इति ।१९ - ९१ - किम् अत्र कर्तव्यम् ।२० - ९१ - परत्वात् आकारलोपः ।२१ - ९१ - न सिध्यति ।२२ - ९१ - अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति ।२३ - ९१ - एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति ।२४ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।२५ - ९१ - आकारलोपः क्रियताम् सम्प्रसारणम् इति ।२६ - ९१ - किम् अत्र कर्तव्यम् ।२७ - ९१ - परत्वात् आकारलोपः ।२८ - ९१ - नित्यम् सम्प्रसारणम् ।२९ - ९१ - कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति ।३० - ९१ - आकारलोपः अपि नित्यः ।३१ - ९१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।३२ - ९१ - अनित्यः आकारलोपः ।३३ - ९१ - न हि कृते सम्प्रसारणे प्राप्नोति ।३४ - ९१ - अन्तरङ्गम् हि पूर्वत्वम् भाधते ।३५ - ९१ - यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।३६ - ९१ - न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति ।३७ - ९१ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।३८ - ९१ - उभयोः नित्ययोः परत्वात् आकारलोपः ।३९ - ९१ - आकारलोपे कृते सम्प्रसारणम् ।४० - ९१ - सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति ।४१ - ९१ - एवम् अपि न सिध्यति ।४२ - ९१ - यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः ।४३ - ९१ - आदिष्टात् च एषः अचः पूर्वः भवति ।४४ - ९१ - एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति ।४५ - ९१ - इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् ।४६ - ९१ - जुहुवतुः झुहुवुः इति ।४७ - ९१ - अस्ति अत्र विशेषः ।४८ - ९१ - अकृते अत्र आत्त्वे पूर्वत्वम् भवति ।४९ - ९१ - इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति ।५० - ९१ - किम् अत्र कर्तव्यम् ।५१ - ९१ - परत्वात् पूर्वत्वम् ।५२ - ९१ - न सिध्यति ।५३ - ९१ - अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति ।५४ - ९१ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।५५ - ९१ - आत्त्वम् क्रियताम् सम्प्रसारणम् इति ।५६ - ९१ - किम् अत्र कर्तव्यम् ।५७ - ९१ - परत्वात् आत्त्वम् ।५८ - ९१ - नित्यम् सम्प्रसारणम् ।५९ - ९१ - कृते अपि आत्त्वे प्राप्नोति अकृते अपि ।६० - ९१ - आत्त्वम् अपि नित्यम् ।६१ - ९१ - कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति ।६२ - ९१ - अनित्यम् आत्त्वम् ।६३ - ९१ - न हि सम्प्रसारणे कृते प्राप्नोति ।६४ - ९१ - परत्वात् पूर्वत्वेन एव भवितव्यम् ।६५ - ९१ - यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् ।६६ - ९१ - न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति ।६७ - ९१ - अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् ।६८ - ९१ - उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् ।६९ - ९१ - एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते ।७० - ९१ - सम्प्रसारणात् परः पूर्वः भवति ।७१ - ९१ - तत एङः ।७२ - ९१ - एङः च सम्प्रसारणात् पूर्वः भवति ।७३ - ९१ - किमर्थम् इदम् ।७४ - ९१ - अकृते आत्त्वे पूर्वत्वम् यथा स्यात् ।७५ - ९१ - ततः पदान्तात् अति ।७६ - ९१ - एङः इति एव ।७७ - ९१ - इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् ।७८ - ९१ - आह्वः प्रह्वः इति ।७९ - ९१ - अस्ति अत्र विशेषः ।८० - ९१ - आकारान्तलक्षणः कविधिः ।८१ - ९१ - तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् ।८२ - ९१ - लिट् पुनः अविशेषेण धातुमात्रात् विधीयते ।८३ - ९१ - नित्यम् प्रसारणम् ।८४ - ९१ - ह्वः यण् ।८५ - ९१ - वार्णात् आङ्गम् न पूर्वत्वम् ।८६ - ९१ - यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः ।८७ - ९१ - तेन असिद्धिः यणः ते ।८८ - ९१ - आतः कः ।८९ - ९१ - लिट् न ।९० - ९१ - एङः पूर्वः ।९१ - ९१ - सिद्धः आह्वः तथा सति ।१ - २५ - सुपि स्थः भावे च ।२ - २५ - सुपि स्थः इति अत्र भावे च इति वक्तव्यम् ।३ - २५ - इह अपि यथा स्यात् ।४ - २५ - आखूत्थः वर्तते ।५ - २५ - श्येनोत्थः शलभोत्थः ।६ - २५ - तत् तर्हि वक्तव्यम् ।७ - २५ - न वक्तव्यम् ।८ - २५ - योगविभागात् सिद्धम् ।९ - २५ - योगविभागः करिष्यते ।१० - २५ - आतः अनुपसर्गे कः भवति ।११ - २५ - ततः सुपि ।१२ - २५ - सुपि च अतः कः भवति ।१३ - २५ - कच्छेन पिबति कच्छपः ।१४ - २५ - कटाहेन पिबति कटाहः ।१५ - २५ - द्वाभ्याम् पिबति द्विपः ।१६ - २५ - ततः स्थः ।१७ - २५ - स्थः च कः भवति सुपि इति ।१८ - २५ - किमर्थम् इदम् ।१९ - २५ - भावे यथा स्यात् ।२० - २५ - कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति ।२१ - २५ - योगविभागात् अयम् कर्तुः अपकृष्यते ।२२ - २५ - न च अन्यस्मिन् अर्थे आदिश्यते ।२३ - २५ - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति ।२४ - २५ - तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् ।२५ - २५ - सः असौ स्वार्थे भवन् भावे भविष्यति ।१ - १२ - तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः ।२ - १२ - तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् ।३ - १२ - तुन्दपरिमृजः अलसः ।४ - १२ - शोकापनुदः पुत्रः जातः ।५ - १२ - यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति ।६ - १२ - यः च शोकम् अपनुदति शोकापनोदः सः भवति ।७ - १२ - कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् ।८ - १२ - कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।९ - १२ - मूलविभुजः रथः ।१० - १२ - नखमुचानि धनूंषि ।११ - १२ - काकगुहाः तिलाः ।१२ - १२ - सरसीरुहम् कुमुदम् ।१ - १२ - सुरासीध्वोः पिबतेः ।२ - १२ - सुरासीध्वोः पिबतेः इति वक्तव्यम् ।३ - १२ - इह मा भूत् ।४ - १२ - क्षीरपा ब्राह्मणी इति ।५ - १२ - पिबतेः इति किमर्थम् ।६ - १२ - या हि सुराम् पाति सुरापा सा भवति ।७ - १२ - बहुलम् तणि ।८ - १२ - बहुलम् तणि इति वक्तव्यम् ।९ - १२ - किम् इदम् तणि इति ।१० - १२ - सञ्ज्ञाछन्दसोः ग्रहणम् ।११ - १२ - या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति ।१२ - १२ - या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति ।१ - ३० - अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् ।२ - ३० - अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् ।३ - ३० - शक्तिग्रहः ।४ - ३० - शक्ति ।५ - ३० - लाङ्गल ।६ - ३० - लाङ्गलग्रहः ।७ - ३० - लाङ्गल ।८ - ३० - आङ्कुश ।९ - ३० - आङ्कुशग्रहः ।१० - ३० - आङ्कुश ।११ - ३० - यष्टि ।१२ - ३० - यष्टिग्रहः ।१३ - ३० - यष्टि ।१४ - ३० - तोमर ।१५ - ३० - तोमरग्रहः ।१६ - ३० - तोमर ।१७ - ३० - घट ।१८ - ३० - घटग्रहः ।१९ - ३० - घट ।२० - ३० - घटी ।२१ - ३० - घटीग्रहः ।२२ - ३० - घटी ।२३ - ३० - धनुस् ।२४ - ३० - धनुर्ग्रहः ।२५ - ३० - धनुस् ।२६ - ३० - सूत्रे च धार्यर्थे ।२७ - ३० - सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् ।२८ - ३० - सूत्रग्रहः ।२९ - ३० - धार्यर्थे इति किमर्थम् ।३० - ३० - यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति ।१ - ५ - स्तम्बकर्णयोः हस्तिसूचकयोः ।२ - ५ - स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् ।३ - ५ - स्तम्बेरमः हस्ती ।४ - ५ - कर्णेजपः सूचकः ।५ - ५ - सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र ।१ - १५ - धातुग्रहणम् किमर्थम् ।२ - १५ - शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् ।३ - १५ - शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति ।४ - १५ - शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः ।५ - १५ - टस्य अवकाशः श्राद्धकरः पिण्डकरः ।६ - १५ - शङ्करा नाम परिव्राजिका ।७ - १५ - शङ्करा शकुनिका तच्छिला च ।८ - १५ - तस्याम् उभयम् प्राप्नोति ।९ - १५ - परत्वात् टः स्यात् ।१० - १५ - धातुग्रहणसामर्थ्यात् अच् एव भवति ।११ - १५ - कुणरवाडवः तु आह ।१२ - १५ - न एषा शङ्करा ।१३ - १५ - शङ्गरा एषा ।१४ - १५ - गृणातिः शब्दकर्मा ।१५ - १५ - तस्य एषः प्रयोगः ।१ - १४ - अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम्. अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् ।२ - १४ - पार्श्वशयः पृष्ठशयः उदरशयः ।३ - १४ - दिग्धसहपूर्वात् च ।४ - १४ - दिद्घसहपूर्वात् च इति वक्तव्यम् ।५ - १४ - दिग्धसहशयः ।६ - १४ - उत्तानादिषु कर्तृषु ।७ - १४ - उत्तानादिषु कर्तृषु इति वक्तव्यम् ।८ - १४ - उत्तानशयः अवमूर्धशयः ।९ - १४ - गिरौ डः छन्दसि ।१० - १४ - गिरौ उपपदे डः छन्दसि वक्तव्यः ।११ - १४ - गिरौ शेते गिरिशः ।१२ - १४ - तद्धितः वा ।१३ - १४ - तद्धितः वा पुनः एषः भवति ।१४ - १४ - गिरौ शेते गिरिशः इति ।१ - ८ - इह कस्मात् न भवति ।२ - ८ - कुरून् चरति ।३ - ८ - पञ्चालान् चरति इति ।४ - ८ - अधिकरणे इति वर्तते ।५ - ८ - ननु च कर्मणि इति अपि वर्तते ।६ - ८ - तत्र कुतः एतत् ।७ - ८ - अधिकरणे भविष्यति न पुनः कर्मणि इति ।८ - ८ - चरेः भिक्षाग्रहणम् ज्ञपकम् कर्मणि अप्रसङ्गः । यत् अयम् भिक्षासेनादायेषु च इति चरेः भिक्षाग्रहणम् करोति तत् ज्ञापयति आचार्यः न भवति कर्मणि इति ।१ - १२ - किंयत्तद्बहुषु कृञः अज्विधानम् ।२ - १२ - किंयत्तद्बहुषु कृञः अज्विधानम् कर्तव्यम् ।३ - १२ - किङ्करा ।४ - १२ - किम् ।५ - १२ - यत् ।६ - १२ - यत्करा ।७ - १२ - यत् ।८ - १२ - तत् ।९ - १२ - तत्करा ।१० - १२ - तत् ।११ - १२ - बहु ।१२ - १२ - बहुकरा ।१ - ४ - स्तम्बशकृतोः व्रीहिवत्सयोः ।२ - ४ - व्रीहिवत्सयोः इति वक्तव्यम् ।३ - ४ - स्तम्बकरिः व्रीहिः ।४ - ४ - शकृत्करिः वत्सः ।१ - ७ - आत्मम्भरिः इति किम् निपात्यते ।२ - ७ - आत्मनः मुम् भृञः च इन्प्रत्ययः ।३ - ७ - अत्यल्पम् इदम् उच्यते ।४ - ७ - भृञः कुक्ष्यात्मनोः मुम् च ।५ - ७ - भृञः कुक्ष्यात्मनोः मुम् च इति वक्तव्यम् ।६ - ७ - कुक्षिम्भरः ।७ - ७ - आत्मम्भरिः चरति यूथम् असेवमानः ।१ - ११ - खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः । खश्प्रकरणे वातसुनीतिलशर्धेषु अजधेट्तुदजहातिभ्यः इति वक्तव्यम् ।२ - ११ - वातमजाः मृगाः ।३ - ११ - वात ।४ - ११ - शुनी ।५ - ११ - शुनीन्धयः ।६ - ११ - शुनी ।७ - ११ - तिल ।८ - ११ - तिलन्द्तुदः ।९ - ११ - तिल ।१० - ११ - शर्ध ।११ - ११ - शर्धञ्जहाः माषाः ।१ - २२ - स्तने धेटः ।२ - २२ - स्तने धेटः इति वक्तव्यम् ।३ - २२ - स्तनन्धयः ।४ - २२ - ततः मुष्टौ ध्मः च ।५ - २२ - मुष्टौ ध्मः च धेटः च इति वक्तव्यम् ।६ - २२ - मुष्टिन्धमः मुष्टिधयः ।७ - २२ - अतयल्पम् इदम् उच्यते ।८ - २२ - नासिकानाडीमुष्टिघटीखारीषु इति वक्तव्यम् ।९ - २२ - नासिकन्धमः नासिकन्धयः ।१० - २२ - नासिक ।११ - २२ - नाडी ।१२ - २२ - नाडिन्धमः नाडिन्धयः ।१३ - २२ - नाडी ।१४ - २२ - मुष्टि ।१५ - २२ - मुष्टिन्धमः मुष्टिधयः ।१६ - २२ - मुष्टि ।१७ - २२ - घटी ।१८ - २२ - घटिन्धमः घटिन्धयः ।१९ - २२ - घटी ।२० - २२ - खारी ।२१ - २२ - खारिन्धमः खारिन्धयः ।२२ - २२ - खारी ।१ - १४ - खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।२ - १४ - खच्प्रकरणे गमेः सुपि उपसङ्ख्यानम् ।३ - १४ - मितङ्गमः ।४ - १४ - मितङ्गमा हस्तिनी ।५ - १४ - विहायसः विह च ।६ - १४ - विहायसः विह इति अयम् आदेशः वक्तव्यः ।७ - १४ - खच् च ।८ - १४ - विहङ्गमः ।९ - १४ - खच् च डित् वा ।१० - १४ - खच् च डित् वा वक्तव्यः ।११ - १४ - विहङ्गः ।१२ - १४ - डे च ।१३ - १४ - डे च विहायसः विह इति अयम् आदेशः वक्तव्यः ।१४ - १४ - विहगः ।१ - १८ - डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् ।२ - १८ - डप्रकरणे सर्वत्रपन्नयोः उपसङ्ख्यानम् कर्तव्यम् ।३ - १८ - सर्वत्रगः पन्नगः ।४ - १८ - उरसः लोपः च ।५ - १८ - उरसः लोपः च वक्तव्यः ।६ - १८ - उरगः ।७ - १८ - सुदुरोः अधिकरणे ।८ - १८ - सुदुरोः अधिकरणे डः वक्तव्यः ।९ - १८ - सुगः दुर्गः ।१० - १८ - निसः देशे ।११ - १८ - निसः देशे डः वक्तव्यः ।१२ - १८ - निर्गः ।१३ - १८ - अपर आह ।१४ - १८ - डप्रकरणे अन्येषु अपि दृश्यते ।१५ - १८ - डप्रकरणे अन्येषु अपि दृश्यते इति वक्तव्यम् ।१६ - १८ - ततः स्त्र्यगारगः ।१७ - १८ - अश्नुते यावत् अन्नाय ग्रामगः ।१८ - १८ - ध्वंसते गुरुतल्पगः ।१ - ९ - दारौ आहनः अण् अन्त्यस्य च टः सञ्ज्ञायाम् ।२ - ९ - दारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वक्तव्यः ।३ - ९ - दार्वाघाटः ते वनस्पतीनाम् ।४ - ९ - चारौ वा ।५ - ९ - चारौ उपपदे आङ्पूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।६ - ९ - चार्वाघाटः चार्वाघातः ।७ - ९ - कर्मणि समि च ।८ - ९ - कर्मणि उपपदे सपूर्वात् हन्तेः अण् वक्तव्यः अन्त्यस्य च टः वा वक्तव्यः ।९ - ९ - वर्णसङ्घाटः वर्णसङ्घातः पदसङ्घाटः पदसङ्घातः ।१ - १६ - कथम् इदम् विज्ञायते ।२ - १६ - लक्षणे कर्तरि इति आहोस्वित् लक्षणवति कर्तरि इति ।३ - १६ - किम् च अतः ।४ - १६ - यदि विज्ञायते लक्षणे कर्तरि इति सिद्धम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।५ - १६ - जायाघ्नः तिलकालकः पतिघ्नी पाणिरेखा इति ।६ - १६ - जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति न सिध्यति ।७ - १६ - अथ विज्ञायते लक्षणवति कर्तरि इति सिद्धम् जायाघ्नः ब्राह्मणः पतिघ्नी व्र्षली इति ।८ - १६ - जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति न सिध्यति ।९ - १६ - अस्तु लक्षणे कर्तरि इति ।१० - १६ - कथम् जायाघ्नः , ब्राह्मणः पतिघ्नी व्र्षली इति ।११ - १६ - अकारः मत्वर्थीयः ।१२ - १६ - जायाघ्नः अस्मिन् अस्ति इति सः अयम् जायाघ्नः ।१३ - १६ - पतिघ्नीवृषली इति न सिध्यति ।१४ - १६ - अस्तु तर्हि लक्षणवति कर्तरि इति ।१५ - १६ - कथम् जायाघ्नः तिलकालकः पतिघ्नी पाणिलेखा इति ।१६ - १६ - अमनुष्यकर्तृके इति एवम् भविष्यति ।१ - ७ - अप्रणिकर्तृके इति वक्तव्यम् ।२ - ७ - इह मा भूत् ।३ - ७ - नगरघातः हस्ती ।४ - ७ - यदि अप्रणिकर्तृके इति उच्यते शशघ्नी शकुनिः इति न सिध्यति ।५ - ७ - अस्तु तर्हि अमनुष्यकर्तृके इति एव ।६ - ७ - कथम् नगरघातः हस्ती ।७ - ७ - कृत्यल्युटः बहुलम् इति एवम् अत्र अण् भविष्यति ।१ - ३ - राजघे उपसङ्ख्यानम् ।२ - ३ - राजघे उपसङ्ख्यानम् कर्तव्यम् ।३ - ३ - राजघः ।१ - ३८ - ख्युनि च्विप्रतिषेधानर्थक्यम् ल्युट्ख्य्नोः अविशेषात् ।२ - ३८ - ख्युनि च्विप्रतिषेधः अनर्थकः ।३ - ३८ - किम् कारणम् ।४ - ३८ - ल्युट्ख्य्नोः अविशेषात् ।५ - ३८ - ख्युना मुक्ते ल्युटा भवितव्यम् ।६ - ३८ - न च अस्ति विशेषः च्व्यन्ते उपपदे ल्युटः ख्युनः वा ।७ - ३८ - तत् एव रूपम् सः एव स्वरः ।८ - ३८ - अयम् अस्ति विशेषः ।९ - ३८ - ल्युटि सति ईकारेण भवितव्यम् ।१० - ३८ - ख्युनि सति न भवितव्यम् ।११ - ३८ - ख्युनि अपि सति भवतव्यम् ।१२ - ३८ - एवम् हि सौनागाः पठन्ति ।१३ - ३८ - नञ्स्नञीक्ख्युंस्तरुणतलुनानाम् उपसङ्ख्यानम् इति ।१४ - ३८ - अयम् तर्हि विशेषः ।१५ - ३८ - ख्युनि सति नित्यसमासेन भवितव्यम् ।१६ - ३८ - उपपदसमासः हि नित्यसमासः इति ।१७ - ३८ - ल्युटि सति न भवितव्यम् ।१८ - ३८ - ल्युटि अपि भवितव्यम् ।१९ - ३८ - गतिसमासः अपि हि नित्यसमासः ।२० - ३८ - च्य्वन्तम् च गतिसञ्ज्ञम् भवति ।२१ - ३८ - मुमर्थम् तर्हि प्रतिषेधः वक्तव्यः ।२२ - ३८ - ख्युनि सति मुमा भवितव्यम् ।२३ - ३८ - ल्युति सति न भवितव्यम् ।२४ - ३८ - मुमर्थम् इति चेत् न अव्ययत्वात् ।२५ - ३८ - मुमर्थम् इति चेत् तत् न ।२६ - ३८ - किम् कारणम् ।२७ - ३८ - अव्ययत्वात् ।२८ - ३८ - अनव्ययस्य मुम् उच्यते ।२९ - ३८ - च्व्यन्तम् च अव्ययसञ्ज्ञम् ।३० - ३८ - उत्तरार्थम् तु ।३१ - ३८ - उत्तरार्थम् तर्हि प्रतिषेधः वक्तव्यः ।३२ - ३८ - कर्तरि भुवः खिष्णुच्खुकञौ अच्वौ इति एव ।३३ - ३८ - आढ्यीभविता ।३४ - ३८ - अथ इदानीम् अनेन मुक्ते ताच्छीलिलः इष्णुच् विधीयते ।३५ - ३८ - सः अत्र कस्मात् न भवति ।३६ - ३८ - रूढिशब्दप्रकाराः तच्छीलिकाः ।३७ - ३८ - न च रूड्ःिशब्दाः गतिभिः विशेष्यन्ते ।३८ - ३८ - न हि भवति प्रदेवदत्तः इति ।१ - २६ - किमर्थम् खिष्णुच् इकारादिः क्रियते न क्स्नुः इति एव उच्येत ।२ - २६ - तत्र अयम् अपि अर्थः ।३ - २६ - स्वरार्थः चकारः न कर्तव्यः भवति ।४ - २६ - केन इदानीम् इकारादित्वम् क्रियते ।५ - २६ - इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।६ - २६ - भवतेः उदात्तत्वात् इकारादित्वम् भविष्यति ।७ - २६ - इदम् तर्हि प्रयोजनम् ।८ - २६ - खित् अयम् क्रियते ।९ - २६ - तत्र चर्त्वे कृते स्यात् ।१० - २६ - कित् वा खित् वा इति ।११ - २६ - सन्देहमात्रम् एतत् भवति ।१२ - २६ - सर्वसन्देहेषु च इदम् उपतिष्ठते ।१३ - २६ - व्याख्यानतः विशेषप्रतिपत्तिः ।१४ - २६ - न हि सन्देहात् अलक्षणम् इति ।१५ - २६ - खित् इति व्याख्यास्यामः ।१६ - २६ - नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।१७ - २६ - इदम् तर्हि प्रयोजनम् ।१८ - २६ - कृत्योकेष्णुच्चार्वादयः च इति एषः स्वरः यथा स्यात् ।१९ - २६ - एतत् अपि न अस्ति प्रयोजनम् ।२० - २६ - अयम् अपि इटि कृते षत्वे च इष्णुच् भविष्यति ।२१ - २६ - न सिध्यति ।२२ - २६ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।२३ - २६ - अथ वा असिद्धम् खलु अपि षत्वम् ।२४ - २६ - षत्वस्य असिद्धत्वात् इस्नुच् एव भवति ।२५ - २६ - इष्णुचः इकारादित्वम् उदात्तत्वात् कृतम् भुवः ।२६ - २६ - नञः तु स्वरसिद्ध्यर्थम् इकारादित्वम् इष्णुचः ।१ - १९ - किमर्थः नकारः ।२ - १९ - ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।३ - १९ - न एतत् अस्ति प्रयोजनम् ।४ - १९ - एकाचः अयम् विधीयते ।५ - १९ - तत्र न अर्थः स्वरार्थेन नकारेण अनुबन्धेन ।६ - १९ - धातुस्वरेण एव सिद्धम् ।७ - १९ - यः तर्हि अनेकाच् ।८ - १९ - दधृक् इति ।९ - १९ - वक्ष्यति एतत् धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते इति ।१० - १९ - विशेषणार्थः तर्हि ।११ - १९ - क्व विशेषनार्थेन अर्थः ।१२ - १९ - क्विन्प्रत्ययस्य कुः इति ।१३ - १९ - क्विप्रत्ययस्य कुः इति उच्यमाने सन्देहः स्यात् ।१४ - १९ - क्विः वा एषः प्रत्ययः क्विप् वा इति ।१५ - १९ - सन्देहमात्रम् एतत् भवति ।१६ - १९ - सर्वसन्देहेषु च इदम् उपतिष्ठते ।१७ - १९ - व्याख्यानतः विशेषप्रतिपत्तिः ।१८ - १९ - न हि सन्देहात् अलक्षणम् इति ।१९ - १९ - क्क्विप्रत्ययस्य इति व्याख्यास्यामः ।१ - ३ - दधृक् इति किम् निपात्यते ।२ - ३ - धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च ।३ - ३ - धृषेः द्विर्वचनम् अन्तोदात्तत्वम् च निपात्यते ।१ - ९ - किमर्थः ञकारः ।२ - ९ - स्वरार्थः ।३ - ९ - ञ्निति इति आद्युदात्तत्वम् यथा स्यात् ।४ - ९ - न एतत् अस्ति प्रयोजनम् ।५ - ९ - नकारेण अपि एषः स्वरः सिद्धः ।६ - ९ - विशेषणार्थः तर्हि भविष्यति ।७ - ९ - क्व विशेषणार्थेन अर्थः ।८ - ९ - कञ्क्वरप् इति ।९ - ९ - कन्क्वरप् इति उच्यामाने याचितिका अत्र अपि प्रसज्येत ।.१ - १८ - दृशेः समानान्ययोः च उपसङ्ख्यानम् ।२ - १८ - दृशेः समानान्ययोः च उपसङ्ख्यानम् कर्तव्यम् ।३ - १८ - सदृक् सदृशः अन्यादृक् अन्यादृशः ।४ - १८ - कृदर्थानुपपत्तिः तु ।५ - १८ - कृदर्थः तु न उपपद्यते ।६ - १८ - दृशेः कर्तरि प्राप्नोति ।७ - १८ - इवार्थे तु तद्धितः ।८ - १८ - इवार्थे अयम् तद्धितः द्रष्टव्यः ।९ - १८ - सः इव अयम् तादृक् ।१० - १८ - अन्य इव अयम् अन्यादृक् ।११ - १८ - अथ वा युक्तः एव अत्र कृदर्थः ।१२ - १८ - कर्मकर्ता अयम् ।१३ - १८ - तम् इव इमम् पश्यन्ति जनाः ।१४ - १८ - सः अयम् सः इव दृश्यमानः तम् इव आत्मानम् पश्यति ।१५ - १८ - तादृक् ।१६ - १८ - अन्यम् इव इमम् पश्यन्ति जनाः ।१७ - १८ - सः अयम् अन्यः इव दृश्यमानः अन्यम् इव आत्मानम् पश्यति ।१८ - १८ - अन्यादृक् इति ।१ - १४ - सदादिषु सुब्ग्रहणम् ।२ - १४ - सदादिषु सुब्ग्रहणम् कर्तव्यम् ।३ - १४ - होता वेदिषत् ।४ - १४ - अतिथिः चुरोणसत् ।५ - १४ - न तर्हि इदानीम् उपसर्गे अपि इति वक्तव्यम् ।६ - १४ - वक्तव्यम् च ।७ - १४ - किम् प्रयोजनम् ।८ - १४ - ज्ञापकार्थम् ।९ - १४ - किम् ज्ञाप्यम् ।१० - १४ - एतत् ज्ञापयति आचार्यः ।११ - १४ - अन्यत्र सुब्ग्रहणे उपसर्गग्रहणम् न भवति इति ।१२ - १४ - किम् एतस्य ज्ञापने प्रयोजनम् ।१३ - १४ - वदः सुपि अनुपसर्गग्रहणम् चोदितम् ।१४ - १४ - तत् न वक्तव्यम् भवति ।१ - ९ - किमर्थम् इदम् उच्यते न अदः अनन्ने इति एव सिद्धम् ।२ - ९ - न सिध्यति ।३ - ९ - छन्दसि इति एतत् अनुवर्तते ।४ - ९ - भाषार्थः अयम् आरम्भः ।५ - ९ - पूर्वस्मिन् एव योगे छन्दोग्रहणम् निवृत्तम् ।६ - ९ - तत् च अवश्यम् निवर्त्यम् अमात् इति एवमर्थम् ।७ - ९ - अतः उत्तरम् पठति ।८ - ९ - अदः अनन्ने क्रव्येग्रहणम् वासरूपनिवृत्त्यर्थम् ।९ - ९ - अदः अनन्ने क्रव्येग्रहणम् क्रियते वासरूपः मा भूत् ।१ - २८ - श्वेतवहादीनां डस् ।२ - २८ - श्वेतवहादीनां डस् वक्तव्यः ।३ - २८ - श्वेतवाः इन्द्रः ।४ - २८ - पदस्य च ।५ - २८ - पदस्य च इति वक्तव्यम् ।६ - २८ - इह मा भूत् ।७ - २८ - श्वेतवाहौ श्वेतवाहः ।८ - २८ - किम् प्रयोजनम् ।९ - २८ - र्वर्थम् ।१० - २८ - रुः यथा स्यात् ।११ - २८ - क्रियते र्वर्थम् निपातनम् ।१२ - २८ - अवयाः श्वेतवाः पुरोडाः च इति ।१३ - २८ - आतः च र्वर्थम् ।१४ - २८ - उक्थशस्शब्दस्य सामान्येन रुः सिद्धः ।१५ - २८ - न तस्य निपातनम् क्रियते ।१६ - २८ - तत् न वक्तव्यम् ।१७ - २८ - अवश्यम् तत् वक्तव्यम् दीर्घार्थम् ।१८ - २८ - न एतत् अस्ति प्रयोजनम् ।१९ - २८ - सिद्धम् अत्र दीर्घत्वम् अत्वसन्तस्य च अधातोः इति ।२० - २८ - यत्र तेन न सिध्यति तदर्थम् ।२१ - २८ - क्व च तेन न सिध्यति ।२२ - २८ - सम्बुद्धौ ।२३ - २८ - हे श्वेतवाः इति ।२४ - २८ - न तर्हि इदानीम् डस् वक्तव्यः ।२५ - २८ - वक्तव्यः च ।२६ - २८ - किम् प्रयोजनम् ।२७ - २८ - उत्तराऋथम् ।२८ - २८ - श्वेतवोभ्याम् श्वेतवोभिः ।१ - ७ - किमर्थम् स्थः कक्विपौ उच्येते न क्विप् सिद्धः अन्येभ्यः अपि दृश्यते इति कः च आतः अनुपसर्गे कः इति ।२ - ७ - न सिध्यति ।३ - ७ - विशेष्विहितः कः सामान्यविहितम् क्विपम् बाधते. वासरूपेण क्विप् अपि भविष्यति ।४ - ७ - इदम् तर्हि शंस्थः शंस्थाः ।५ - ७ - उक्तम् एतत् ।६ - ७ - शमि सञ्ज्ञायाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् इति ।७ - ७ - सः यथा एव अच् टम् बाधते एवम् कक्विपौ अपि बाधेत ।१ - १० - सुपि इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।२ - १० - अनुपसर्गे इति एवम् तत् अभूत् ।३ - १० - इदम् सुब्मात्रे यथा स्यात् ।४ - १० - प्रत्यासारिण्यः उदासारिण्यः ।५ - १० - णिन्विधौ साधुकारिणि उपसङ्ख्यानम् ।६ - १० - णिन्विधौ साधुकारिणि उपसङ्ख्यानम् कर्तव्यम् ।७ - १० - साधुकारी साधुदायी ।८ - १० - ब्रह्मणि वदः ।९ - १० - ब्रह्मणि वदः उपसङ्ख्यानम् कर्तव्यम् ।१० - १० - ब्रह्मवादिनः वदन्ति ।१ - १९ - किम् उदाहरणम् ।२ - १९ - अश्राद्धभोजी ।३ - १९ - किम् यः अश्राद्धम् भुङ्क्ते सः अश्राद्धभोजी ।४ - १९ - किम् च अतः ।५ - १९ - यदा असौ अश्राद्धम् न भुङ्क्ते तदा अस्य व्रतलोपः स्यात् ।६ - १९ - तत् यथा स्थायी यदा न तिष्थति तदा अस्य व्रतलोपः भवति ।७ - १९ - एवम् तर्हि णिन्यन्तेन समासः भविष्यति न श्राद्धभोजी अश्राद्धभोजी ।८ - १९ - न एवम् शक्यम् ।९ - १९ - स्वरे हि दोषः स्यात् ।१० - १९ - अश्राद्धभोजी इति एवम् स्वरः प्रसज्येत ।११ - १९ - अश्राद्धभोजी इति च इष्यते ।१२ - १९ - एवम् तर्हि नञः एव अयम् भुजिप्रतिषेधवाचिनः श्राद्धशब्देन असमर्थसमासः न भोजी श्राद्धस्य इति ।१३ - १९ - सः तर्हि असमर्थसमासः वक्तव्यः ।१४ - १९ - यदि अपि वक्तव्यः अथ वा एतर्हि बहूनि प्रयोजनानि ।१५ - १९ - कानि ।१६ - १९ - असूर्यम्पश्यानि मुखानि ।१७ - १९ - अपूर्वगेयाः श्लोकाः ।१८ - १९ - अश्राद्धभोजी ब्राह्मणः ।१९ - १९ - सुट् अनपुंसकस्य इति ।१ - ३३ - आत्मग्रहणम् किमर्थम् ।२ - ३३ - परमाने मा भूत् ।३ - ३३ - क्रियमाणे अपि आत्मग्रहणे परमाने प्राप्नोति ।४ - ३३ - किम् कारणम् ।५ - ३३ - आत्मनः इति इयम् कर्तरि षष्ठी मानः इति अकारः भावे ।६ - ३३ - सः यदि एव आत्मानम् मन्यते अथ अपि परम् आत्मनः एव असौ मानः भवति ।७ - ३३ - न एषः दोषः ।८ - ३३ - आत्मनः इति कर्मणि षष्ठी ।९ - ३३ - कथम् ।१० - ३३ - कर्तृकर्मणोः कृति इति ।११ - ३३ - ननु च कर्तरि अपि वै एतेन एव विधीयते ।१२ - ३३ - तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।१३ - ३३ - एवम् तर्हि कर्मकर्तरि च ।१४ - ३३ - कर्मकर्तरि च इति वक्तव्यम् ।१५ - ३३ - तत् तर्हि वक्तव्यम् ।१६ - ३३ - न वक्तव्यम् ।१७ - ३३ - आत्मनः इति कर्मणि षष्ठी ।१८ - ३३ - कथम् ।१९ - ३३ - कर्तृकर्मणोः कृति इति ।२० - ३३ - ननु च उक्तम् कर्तरि अपि वै एतेन एव विधीयते ।२१ - ३३ - तत्र कुतः एतत् कर्मणि भविष्यति न पुनः कर्तरि इति ।२२ - ३३ - आत्मग्रहणसामर्थ्यात् कर्मणि विज्ञास्यते ।२३ - ३३ - एवम् अपि कर्मकर्तृग्रहणम् कर्तव्यम् कर्मापदिष्टः यक् यथा स्यात् श्यन् मा भूत् इति ।२४ - ३३ - कः च अत्र विशेषः यकः वा श्यनः वा ।२५ - ३३ - यकि सति अन्तोदात्तत्वेन भवितयम् श्यनि सति आद्युदात्तत्वेन ।२६ - ३३ - श्यनि अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।२७ - ३३ - कथम् ।२८ - ३३ - खशः स्वरः श्यनः स्वरम् बाधिष्यते ।२९ - ३३ - सति शिष्टत्वात् श्यनः स्वरः प्राप्नोति ।३० - ३३ - आचार्यप्रवृत्तिः ज्ञापयति सति शिष्टः अपि विकरणस्वरः सार्वधातुकस्वरम् न बाधते इति यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति ।३१ - ३३ - लसार्वधातुके एतत् ज्ञापकम् स्यात् ।३२ - ३३ - न इति आह ।३३ - ३३ - अविशेषेण ज्ञापकम् ।१ - ५५ - भूते इति उच्यते ।२ - ५५ - कस्मिन् भूते ।३ - ५५ - काले ।४ - ५५ - न वै कालाधिकारः अस्ति ।५ - ५५ - एवम् तर्हि धातोः इति वर्तते ।६ - ५५ - धातौ भूते ।७ - ५५ - धातुः वै शब्दः ।८ - ५५ - न च शब्दस्य भूतभविष्यद्वर्तमानतायाम् सम्भवः अस्ति ।९ - ५५ - शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते ।१० - ५५ - कः पुनः धात्वर्थः ।११ - ५५ - क्रिया ।१२ - ५५ - क्रियायाम् भूतायाम् ।१३ - ५५ - यदि एवम् निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।१४ - ५५ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।१५ - ५५ - का इतरेतराश्रयता ।१६ - ५५ - भूतकालेन शब्देन निर्देशः क्रियते ।१७ - ५५ - निर्देशोत्तरकालम् च भूतकालता ।१८ - ५५ - तत् एतत् इतरेतराश्रयम् भवति ।१९ - ५५ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।२० - ५५ - अव्ययनिर्देशात् सिद्धम् ।२१ - ५५ - अव्ययवता शब्देन निर्देशः करिष्यते ।२२ - ५५ - अवर्तमाने अभविष्यति इति ।२३ - ५५ - सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।२४ - ५५ - न कर्तव्यः ।२५ - ५५ - अव्ययम् एषः भूतेशब्दः न भवतेः निष्ठा ।२६ - ५५ - कथम् अव्ययत्वम् ।२७ - ५५ - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।२८ - ५५ - निपातम् अव्ययम् इति अवययसञ्ज्ञा ।२९ - ५५ - अथ अपि भवतेः निष्ठा एवम् अपि अवययम् एव ।३० - ५५ - कथम् न व्येति इति अव्ययम् ।३१ - ५५ - क्व पुनः न व्येति ।३२ - ५५ - एतौ कालविशेषौ वर्तमानभविष्यन्तौ ।३३ - ५५ - स्वभावतः भूते एव वर्तते ।३४ - ५५ - यदि तत्रि न व्येति इति अव्ययम् ।३५ - ५५ - न वा तद्विधानस्य अन्यत्र अभावात् ।३६ - ५५ - न वा भूताधिकारेण अर्थः ।३७ - ५५ - किम् कारणम् ।३८ - ५५ - तद्विधानस्य अन्यत्र अभावात् ।३९ - ५५ - ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति वर्तमानभविष्यन्तौ ।४० - ५५ - स्वभावतः एव ते भूते एव वर्तन्ते ।४१ - ५५ - अतः उत्तरम् पठति ।४२ - ५५ - भूताधिकारस्य प्रयोजनम् कुमारघाती शीर्षघाती आखुहा बिडालः सुत्वानः सुनवन्तः सुषुपुषः अनेहाः अग्निम् आदधानस्य ।४३ - ५५ - कुमारघाती शीर्षघाती इति भविष्यद्वर्तमानार्थः भूतनिवृत्त्यर्थः ।४४ - ५५ - आखुहा बिडालः इति भविष्यद्वर्तमानार्थः ।४५ - ५५ - इतरथा हि ब्रह्मादिषु नियमः त्रिषु कालेषु निवर्तकः स्यात् ।४६ - ५५ - सुत्वानः सुन्वन्तः ।४७ - ५५ - यज्ञसंयोगे ङ्वनिपः त्रिषु कालेषु शता अपवादः मा भूत् ।४८ - ५५ - सुषुपुषः ।४९ - ५५ - नजिङ् सर्वकालपवादः मा भूत् ।५० - ५५ - अनेहाः इति वर्तमानकालः एव ।५१ - ५५ - अन्यत्र अनाहन्ता ।५२ - ५५ - आदधानस्य ।५३ - ५५ - कानचः चानश् ताच्छीलादिषु सर्वकालापवादः मा भूत् ।५४ - ५५ - अग्निम् आदधानस्य ।५५ - ५५ - आदधानस्य इति एव अन्यत्र ।१ - १३ - किमर्थम् ब्रह्मादिषु हन्तेः क्विप् विधीयते ।२ - १३ - न क्विप् च अन्येभ्यः अपि दृश्यते इति एव सिद्धम् ।३ - १३ - ब्रह्मादिषु हन्तेः क्विब्वचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः ।४ - १३ - ब्रह्मादिषु एव हन्तेः क्विप् यथा स्यात् ।५ - १३ - किम् अविशेषेण ।६ - १३ - न इति आह ।उपपदविशेषे एतस्मिन् च विशेषे ।७ - १३ - अथ ब्रह्मादिषु हन्तेः णिनिना भवितव्यम् ।८ - १३ - न भवितव्यम् ।९ - १३ - किम् कारणम् ।१० - १३ - उभयतः नियमात् ।११ - १३ - उभयतः नियमः अयम् ।१२ - १३ - ब्रह्मादिषु एव हन्तेः क्विप् भवति ।१३ - १३ - क्विप् एव च ब्रह्मादिषु इति ।१ - ४ - कर्मणि कुत्सिते ।२ - ४ - कर्मणि कुत्सिते इति वक्तव्यम् ।३ - ४ - इह मा भूत् ।४ - ४ - धान्यविक्रायः ।१ - २ - अन्येभ्यः अपि दृश्यते इति वक्तव्यम् , इह अपि यथा स्यात् ।२ - २ - आखा उत्खा परिखा ।१ - ३८ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।२ - ३८ - निष्ठायाम् इतरेतराश्रयत्वात् अप्रसिद्धिः ।३ - ३८ - का इतरेतराश्रयता ।४ - ३८ - सतोः क्तक्तवत्वोः सञ्ज्ञया भवितव्यम् सञ्ज्ञया च क्तक्तवतू भाव्येते ।५ - ३८ - तत् एतत् इतरेतराश्रयम् भवति ।६ - ३८ - इतरेतराश्रयाणि च न प्रकल्पन्ते ।७ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् ।८ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् ।९ - ३८ - क्तक्तव्तू भूते ।१० - ३८ - क्तक्तवतू निष्ठा इति ।११ - ३८ - यदि पुनः इह एव निष्ठासञ्ज्ञा अपि उच्येत क्तक्तव्तू भूते ।१२ - ३८ - ततः निष्ठा ।१३ - ३८ - निष्ठासञ्ज्ञौ च क्तक्तव्तू भवतः इति ।१४ - ३८ - किम् कृतम् भवति ।१५ - ३८ - द्विः वा क्तक्तव्तुग्रहणम् न कर्तव्यम् भवति ।१६ - ३८ - एवम् अपि तौ इति वक्तव्यम् स्यात् ।१७ - ३८ - वक्ष्यति हि एतत् ।१८ - ३८ - तौ सत् इति वचनम् असंसर्गार्थम् इति ।१९ - ३८ - असंसक्तयोः भूतेन कालेन निष्ठासञ्ज्ञा यथा स्यात् ।२० - ३८ - ञिमिदा मिन्नः ञिक्ष्विदा क्ष्विन्नः ।२१ - ३८ - यदि पुनः अदृष्टश्रुतौ एव क्तक्तवतू गृहीत्वा निष्ठासञ्ज्ञा उच्येत ।२२ - ३८ - न एवम् शक्यम् ।२३ - ३८ - दृष्टश्रुतयोः न स्यात् ।२४ - ३८ - ञिमिदा मिन्नः ।२५ - ३८ - तस्मात् न एवम् शक्यम् ।२६ - ३८ - न चेत् एवम् द्विः वा क्तक्तव्तुग्रहणम् कर्तव्यम् इतरेतराश्रयम् वा भवति ।२७ - ३८ - न एषः दोषः ।२८ - ३८ - इतरेतराश्रयमात्रम् एतत् भवति ।२९ - ३८ - सर्वाणि च इतरेतराश्रयाणि एकत्वेन परिहृतानि सिद्धम् तु नित्यशब्दत्वात् इति ।३० - ३८ - न इदम् तुल्यम् अन्यैः इतरेतराश्रयैः ।३१ - ३८ - न हि सञ्ज्ञा नित्या ।३२ - ३८ - एवम् तर्हि भाविनी सञ्ज्ञा विज्ञास्यते ।३३ - ३८ - तत् यथा कः चित् कम् चित् तन्तुवायम् आह अस्य सूत्रस्य शाटकम् वय इति ।३४ - ३८ - सः पश्यति ।३५ - ३८ - यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।३६ - ३८ - शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।३७ - ३८ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।३८ - ३८ - एवम् इह अपि तौ भूते काले भवतः ययोः अभिनिर्वृतयोः निष्ठा इति एषा सञ्ज्ञा भविष्यति ।१ - २८ - आदिकर्मणि निष्ठा ।२ - २८ - आदिकर्मणि निष्ठा वक्तव्या ।३ - २८ - प्रकृतः कटम् देवदत्तः ।४ - २८ - किम् पुनः कारणम् न सिध्यति ।५ - २८ - यत् वा भवन्त्यर्थे ।६ - २८ - यत् वा भवन्त्यर्थे भाष्यते ।७ - २८ - प्रकृतः कटम् देवदत्तः ।८ - २८ - प्रकरोति कटम् देवदत्तः इति ।९ - २८ - न्याय्या तु आद्यपवर्गात् ।१० - २८ - न्याय्या तु एषा भूतकालता ।११ - २८ - कुतः ।१२ - २८ - आद्यपवर्गात् ।१३ - २८ - आदिः अत्र अपवृक्तः ।१४ - २८ - एषः च नाम न्याय्यः भूतकालः यत्र किम् चित् अपवृक्तम् दृश्यते ।१५ - २८ - वा च अद्यतन्याम् ।१६ - २८ - वा च अद्यतन्याम् भाष्यते ।१७ - २८ - प्रकृतः कटम् देवदत्तः ।१८ - २८ - प्राकार्षीत् कटम् देवदत्तः इति ।१९ - २८ - किम् शक्यन्ते एते शब्दाः प्रयोक्तुम् इति अतः न्याय्या एषा भूतकालता ।२० - २८ - न अवश्यम् प्रयोगात् एव ।२१ - २८ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा अनुमानगम्या अशक्या पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।२२ - २८ - सा असौ येन येन शब्देन अभिसम्बध्यते तावति तावति परिसम्पाप्यते ।२३ - २८ - तत् यथा ।२४ - २८ - कः चित् पाटलिपुत्रम् जिगमिषुः एकम् अहः गत्वा आह इदम् अद्य गतम् इति ।२५ - २८ - न च तावता अस्य व्रजिक्रिया परिसमाप्ता भवति ।२६ - २८ - यत् तु गतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते इदम् अद्य गतम् इति ।२७ - २८ - एवम् इह अपि यत् कृतम् तत् अभिसमीक्ष्य एतत् प्रयुज्यते प्रकृतः कटम् देवदत्तः इति ।२८ - २८ - यदा हि वेणिकान्तः कटः अभिसमीक्षितः भवति प्रकरोति कटम् इति एव तदा भवति ।१ - १४ - किमर्थम् कानच्क्वसोः वावचनम् क्रियते ।२ - १४ - कानच्क्वसोः वावचनम् छन्दसि तिङः दर्शनात् ।३ - १४ - कानच्क्वसोः वावचनम् क्रियते छन्दसि तिङः दर्शनात् ।४ - १४ - छन्दसि तिङ् अपि दृश्यते ।५ - १४ - अहम् सूरम् उभयतः ददर्श ।६ - १४ - अहम् द्यावापृथिवी आततान ।७ - १४ - न वा अनेन विहितस्य आदेशवचनात् ।८ - १४ - न वा एतत् प्रयोजनम् अस्ति ।९ - १४ - किम् कारणम् ।१० - १४ - अनेन विहितस्य आदेशवचनात् ।११ - १४ - अस्तु अनेन विहितस्य आदेशः ।१२ - १४ - केन इदानीम् छन्दसि विहितस्य लिटः श्रवणम् भविष्यति ।१३ - १४ - छन्दसि लुङ्लङ्लिटः इति अनेन ।१४ - १४ - तत् एतत् वावचनम् तिष्ठतु तावत् सान्न्यासिकम् ।१ - १४ - अथ कित्करणम् किमर्थम् न असंयोगात् लिट् कित् इति एव सिद्धम् ।२ - १४ - कित्कररणम् संयोगार्थम् ।३ - १४ - कित्कररणम् क्रियते संयोगार्थम् ।४ - १४ - संयोगान्ताः प्रयोजयन्ति ।५ - १४ - वृत्रस्य यत् बद्बधानस्य रोदसी ।६ - १४ - त्वम् अर्णवान् बद्बधानां अरम्णाः ।७ - १४ - अञ्जेः आजिवान् इति ।८ - १४ - छान्दसौ कानच्क्वसू ।९ - १४ - लिट् च छन्दसि सार्वधातुकम् अपि भवति ।१० - १४ - तत्र सार्वधातुकम् अपित् ङित् भवति इति ङित्त्वात् लुपधालोपः भविष्यति । ऋ̄कारान्तगुणप्रतिषेधार्थम् वा ।११ - १४ - ऋ̄कारान्तगुणप्रतिषेधार्थम् तर्हि कित्करणम् कर्तव्यम् ।१२ - १४ - अयम् लिटि ऋ̄कारान्तानाम् प्रतिषेधविषये गुणः आरभ्यते ।१३ - १४ - सः यथा एव इह प्रतिषेधम् बाधित्वा गुणः भवति तेरतुः तेरुः एवम् इह अपि स्यात् तितीर्वान् तिरिराणः ।१४ - १४ - पुनः कित्करणा प्रतिषिध्यते ।१ - ३६ - भाषायाम् सदादिभ्यः वा लिट् ।२ - ३६ - भाषायाम् सदादिभ्यः वा लिट् वक्तव्यः ।३ - ३६ - किम् प्रयोजनम् ।४ - ३६ - तद्विषये लुङः अनिवृत्त्यर्थम् ।५ - ३६ - तस्य लिटः विषये लुङः अनिवृत्तिः यथा स्यात् ।६ - ३६ - उपसेदिवान् कौत्सः पाणिनिम् ।७ - ३६ - उपासदत् ।८ - ३६ - अनद्यतनपरोक्षयोः च ।९ - ३६ - अनद्यतनपरोक्षयोः च वा लिट् वक्तव्यः ।१० - ३६ - उपसेदिवान् कौत्सः पाणिनिम् ।११ - ३६ - उपासीदत् ।१२ - ३६ - उपससाद ।१३ - ३६ - अपवादविप्रतिषेधात् हि तयोः भावः ।१४ - ३६ - अपवादविप्रतिषेधात् हि तौ स्याताम् ।१५ - ३६ - कौ ।१६ - ३६ - लङ्लिटौ ।१७ - ३६ - तस्य क्वसुः अपरोक्षे नित्यम् ।१८ - ३६ - तस्य लिटः भाषायाम् क्वसुः अपरोक्षे नित्यम् इति वक्तव्यम् ।१९ - ३६ - अपरोक्षग्रहणेन न अर्थः ।२० - ३६ - तस्य क्वसुः नित्यम् इति एव ।२१ - ३६ - केन इदानीम् लिटः परोक्षे श्रवणम् भविष्यति ।२२ - ३६ - परोक्षे लिट् इति अनेन ।२३ - ३६ - तत् तर्हि वक्तव्यम् ।२४ - ३६ - न वक्तव्यम् ।२५ - ३६ - अनुवृत्तिः करिष्यते ।२६ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।२७ - ३६ - ततः लुङ् ।२८ - ३६ - लुङ् भवति भूते काले ।२९ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।३० - ३६ - ततः अनद्यतने लङ् ।३१ - ३६ - अनद्यतने भूते काले लङ् भवति ।३२ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।३३ - ३६ - परोक्षे लिट् भवति ।३४ - ३६ - भाषायाम् सदादिभ्यः वा लिट् भवति लिटः च क्वसुः भवति ।३५ - ३६ - तत्र अयम् अपि अर्थः ।३६ - ३६ - तस्य क्वसुः अपरोक्षे नित्यम् इति एतत् न वक्तव्यम् भवति । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP