संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ८| भाग ३ अध्याय ८ भाग १ भाग २ भाग ३ भाग ४ भाग ५ अर्थशास्त्रम् अध्याय ०८ - भाग ३ अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ३ Translation - भाषांतर ३.०१अविद्या.विनयः पुरुष.व्यसन.हेतुः ॥३.०२अविनीतो हि व्यसन.दोषान् न पश्यति ॥३.०३तान् उपदेक्ष्यामः ॥३.०४कोपजस् त्रि.वर्गः, कामजश् चतुर्.वर्गः ॥३.०५तयोः कोपो गरीयान् ॥३.०६सर्वत्र हि कोपश् चरति ॥३.०७प्रायशश् च कोप.वशा राजानः प्रकृति.कोपैर् हताः श्रूयन्ते, काम.वशाः क्षय.निमित्तम् अरि.व्याधिभिर् इति ॥३.०८न_इति भारद्वाजः ॥३.०९"सत्.पुरुष.आचारः कोपो वैर.यातनम् अवज्ञा.वधो भीत.मनुष्यता च ॥३.१०नित्यश् च कोपेन सम्बन्धः पाप.प्रतिषेध.अर्थः ॥३.११कामः सिद्धि.लाभः सान्त्वं त्याग.शीलता सम्प्रिय.भावश् च ॥३.१२नित्यश् च कामेन सम्बन्धः कृत.कर्मणः फल.उपभोग.अर्थः" इति ॥३.१३न_इति कौटिल्यः ॥३.१४द्वेष्यता शत्रु.वेदनं दुःख.आसङ्गश् च कोपः ॥३.१५परिभवो द्रव्य.नाशः पाटच्चर.द्यूतकार.लुब्धक.गायन.वादकैश् च_अनर्थ्यैः सम्योगः कामः ॥३.१६तयोः परिभवाद् द्वेष्यता गरीयसी ॥३.१७परिभूतः स्वैः परैश् च_अवगृह्यते, द्वेष्यः समुच्छिद्यत इति ॥३.१८द्रव्य.नाशात्_शत्रु.वेदनं गरीयः ॥३.१९द्रव्य.नाशः कोश.आबाधकः, शत्रु.वेदनं प्राण.आबाधकम् इति ॥३.२०अनर्थ्य.सम्योगाद् दुःख.सम्योगो गरीयान् ॥३.२१अनर्थ्य.सम्योगो मुहूर्त.प्रतीकारो, दीर्घ.क्लेश.करो दुःखानाम् आसङ्ग इति ॥३.२२तस्मात् कोपो गरीयान् ॥३.२३वाक्.पारुष्यम् अर्थ.दूषणं दण्ड.पारुष्यम् इति ॥३.२४"वाक्.पारुष्य.अर्थ.दूषणयोर् वाक्.पारुष्यं गरीयः" इति विशाल.अक्षः ॥३.२५"परुष.मुक्तो हि तेजस्वी तेजसा प्रत्यारोहति ॥३.२६दुरुक्त.शल्यं हृदि निखातं तेजः.संदीपनम् इन्द्रिय.उपतापि च" इति ॥३.२७न_इति कौटिल्यः ॥३.२८अर्थ.पूजा वाक्.शल्यम् अपहन्ति, वृत्ति.विलोपस् त्व् अर्थ.दूषणम् ॥३.२९अदानम् आदानं विनाशः परित्यागो वा_अर्थस्य_इत्य् अर्थ.दूषणम् ॥३.३०"अर्थ.दूषण.दण्ड.पारुष्ययोर् अर्थ.दूषणं गरीयः" इति पाराशराः ॥३.३१"अर्थ.मूलौ धर्म.कामौ ॥३.३२अर्थ.प्रतिबद्धश् च लोको वर्तते ॥३.३३तस्य.उपघातो गरीयान्" इति ॥३.३४न_इति कौटिल्यः ॥३.३५सुमहता_अप्य् अर्थेन न कश्चन शरीर.विनाशम् इच्छेत् ॥३.३६दण्ड.पारुष्याच् च तम् एव दोषम् अन्येभ्यः प्राप्नोति ॥३.३७इति कोपजस् त्रि.वर्गः ॥३.३८कामजस् तु मृगया द्यूतं स्त्रियः पानम् इति चतुर्.वर्गः ॥३.३९तस्य "मृगया.द्यूतयोर् मृगया गरीयसी" इति पिशुनः ॥३.४०"स्तेन.अमित्र.व्याल.दाव.प्रस्खलन.भय.दिन्.मोहाः क्षुत्.पिपासे च प्राण.आबाधस् तस्याम् ॥३.४१द्यूते तु जितम् एव_अक्ष.विदुषा यथा जयत्.सेन.दुर्योधनाभ्याम्" इति ॥३.४२न_इत्य् कौटिल्यः ॥३.४३तयोर् अप्य् अन्यतर.पराजयो_अस्ति_इति नल.युधिष्ठिराभ्यां व्याख्यातम् ॥३.४४तद् एव विजित.द्रव्यम् आमिषं वैर.अनुबन्धश् च ॥३.४५सतो_अर्थस्य विप्रतिपत्तिर् असतश् च_अर्जनम् अप्रतिभुक्त.नाशो मूत्र.पुरीष.धारण.बुभुक्षा.आदिभिश् च व्याधि.लाभ इति द्यूत.दोषाः ॥३.४६मृगयायां तु व्यायामः श्लेष्म.पित्त.मेदः.स्वेद.नाशश् चले स्थिते च काये लक्ष.परिचयः कोप.भय.स्थानेषु च मृगाणां चित्त.ज्ञानम् अनित्य.यानं च_इति ॥३.४७"द्यूत.स्त्री.व्यसनयोः कैतव.व्यसनम्" इति कौणपदन्तः ॥३.४८"सातत्येन हि निशि प्रदीपे मातरि च मृतायां दीव्यत्य् एव कितवः ॥३.४९कृच्छ्रे च प्रतिपृष्टः कुप्यति ॥३.५०स्त्री.व्यसने तु स्नान.प्रतिकर्म.भोजन.भूमिषु भवत्य् एव धर्म.अर्थ.परिप्रश्नः ॥३.५१शक्या च स्त्री राजहिते.नियोक्तुम्, उपांशु.दण्डेन व्याधिना वा व्यावर्तयितुम् अवस्रावयितुं वा" इति ॥३.५२न_इति कौटिल्यः ॥३.५३सप्रत्यादेयं द्यूतं निष्प्रत्यादेयं स्त्री.व्यसनम् ॥३.५४अदर्शनं कार्य.निर्वेदः काल.अतिपातनाद् अनर्थो धर्म.लोपश् च तन्त्र.दौर्बल्यं पान.अनुबन्धश् च_इति ॥३.५५"स्त्री.पान.व्यसनयोः स्त्री.व्यसनम्" इति वातव्याधिः ॥३.५६"स्त्रीषु हि बालिश्यम् अनेक.विधं निशान्त.प्रणिधौ व्याख्यातम् ॥३.५७पाने तु शब्द.आदीनाम् इन्द्रिय.अर्थानाम् उपभोगः प्रीति.दानं परिजन.पूजनं कर्म.श्रम.वधश् च" इति ॥३.५८न_इति कौटिल्यः ॥३.५९स्त्री.व्यसने भवत्य् अपत्य.उत्पत्तिर् आत्म.रक्षणं च_अन्तर्.दारेषु, विपर्ययो वा बाह्येषु, अगम्येषु सर्व.उच्छित्तिः ॥३.६०तद् उभयं पान.व्यसने ॥३.६१पान.सम्पत् - संज्ञा.नाशो_अनुन्मत्तस्य_उन्मत्तत्वम् अप्रेतस्य प्रेतत्वं कौपीन.दर्शनं श्रुत.प्रज्ञा.प्राण.वित्त.मित्र.हानिः सद्भिर् वियोगो_अनर्थ्य.सम्योगस् तन्त्री.गीत.नैपुण्येषु च_अर्थघ्नेषु प्रसङ्ग इति ॥३.६२द्यूत.मद्ययोर् द्यूतम् ॥३.६३एकेषां पण.निमित्तो जयः पराजयो वा प्राणिषु निश्चेतनेषु वा पक्ष.द्वैधेन प्रकृति.कोपं करोति ॥३.६४विशेषतश् च संघानां संघ.धर्मिणां च राज.कुलानां द्यूत.निमित्तो भेदस् तन्.निमित्तो विनाश इत्य् असत्.प्रग्रहः पापिष्ठतमो व्यसनानां तन्त्र.दौर्बल्याद् इति ॥३.६५असतां प्रग्रहः कामः कोपश् च_अवग्रहः सताम् ।३.६५व्यसनं दोष.बाहुल्याद् अत्यन्तम् उभयं मतम् ॥३.६६तस्मात् कोपं च कामं च व्यसन.आरम्भम् आत्मवान् ।३.६६परित्यजेन् मूल.हरं वृद्ध.सेवी जित.इन्द्रियः ॥(पीडन.वर्गह् - स्तम्भ.वर्गह् - कोश.सन्ग.वर्गह्) N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP