संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथोपनयनम्

संस्कारप्रकरणम् - अथोपनयनम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ उपनयनकर्ताद्विराचम्यप्राणानायम्येष्टदेवतांगुर्वादींश्चनमस्कृत्यदेशकालौसंकीर्त्य
॥ ममोपनेतृत्वाधिकारसिध्दयेकृच्छ्रत्रयप्रतिप्रायश्चित्तंद्वादशसहस्त्रगायत्रीजपंचकरिष्ये ॥
कुमार:ममकामचारकामवादकामभक्षणादिदोषापनोदार्थंकृच्छ्रत्रयप्रायश्चित्तंप्रतिकृच्छ्रंतत्प्रत्य
याम्नायगोनिष्क्रयीभूतनिष्कपादार्धपरिमितरजतद्रव्यदानेन-अथवा प्रतिकृच्छ्रंतत्प्रत्याम्ना
यगोनिष्क्रयीभूतकार्षापणपरिमितताम्रमूल्यव्यावहारिकद्रव्यदानेन-अहमाचरिष्ये ॥
अस्यकुमारस्योपनयनेग्रहानुकूल्यसिध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंग्रहयज्ञंकरिष्ये ॥
पूर्वतनसंस्कारलोपेस्यकुमारस्यगर्भाधानपुंसवनसीमंतविष्णुबलिजातकर्मनामकरणनिष्क्रम
णान्नप्राशनचौलानांनवसंस्काराणांकालातिपत्तिप्रत्यवायपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थंप्र
तिसंस्कारं ॐ भूर्भव:स्व:स्वाहेत्येकैकाज्याहुतिं-तथाउक्तसंस्काराणांलोपजनितप्रत्यवायप
रिहारद्वाराश्रीप्ररमेश्वरप्रीत्यर्थं प्रतिसंस्कारंपादकृच्छ्रंचौलस्यार्धकृच्छ्रंप्रतिपादकृच्छ्रमर्धकृ
च्छ्रंचतत्प्रत्याम्नाय० ॥ तानिकृत्वा ॥ अस्यकुमारस्यबीजगर्भसमुभ्दवैनोनिबर्हणबलायु
र्वर्चोभिवृध्दिद्वाराश्रीपरमेश्वरप्रीत्यर्थंचौलसंस्कारं-तथा अस्यकुमारस्यद्विजत्वसिध्यावेदा
ध्ययनाधिकारसिध्द्यर्थंश्व:सध्योवाउपनयनंकरिष्ये ॥ तदंगभूतंगणपतिपूजनपूर्वकंस्व
स्तिवाचनंमातृकापूजनंनांदीश्राध्दंमंडपप्रतिष्ठां (कुलदेवतास्थापनं) पूजनंचकरिष्ये ॥
अत्राचारात्तैलहरिद्राधिष्ठात्रींमहालक्ष्मींसक्तुमिवेतिसंपूज्यतंत्रेणचगणपतिपूजनस्वस्तिवाचन
मातृकापूजननांदीश्राध्दग्रहयज्ञादीनिकृत्वामंडपदेवताप्रतिष्ठाकार्या ॥ अनंतरंवाग्रहयज्ञ:
कार्य: ॥ इत्युपनयनसंकल्पादि ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP