संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|अथसंस्कारप्रकरणम्|
अथगृह्याग्ने:पुन:संधानम्

संस्कारप्रकरणम् - अथगृह्याग्ने:पुन:संधानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ पत्न्यासहकृतस्नानादि:कृतनित्यक्रियोदेशकालौसंकीर्त्यममगृह्याग्निविच्छेददिना
दारभ्यैतावंतंकालंगृह्याग्निविच्छेदजनितदोषपरिहारद्वाराश्रीपरमेश्वरप्रीत्यर्थं गृह्याग्नि
विच्छेददिनादारभ्यैतावदब्दपर्यंतंप्रत्यब्दमेकैककृच्छ्रं यथाशक्तितत्प्रत्याम्नायगोनिष्क्रयीभू
तरजतनिष्कार्धनिष्कपादनिष्कपादार्धान्यतमद्रव्यदानेनाहमाचरिष्ये ॥ तथाएतावद्दिनेषु
गृह्याग्निविच्छेदेनलुप्तसायंप्रातरौपासनहोमद्रव्यं तथालुप्तदर्शपौर्णमासस्थालीपाकादिकर्म
पर्याप्तव्राह्याज्यद्रव्यं तन्निष्क्रयंवादातुमहमुत्सृज्ये ॥ इतिसंकल्प्यकृत्वापुनर्देशकालौस्मृ
त्वाविच्छिन्नस्यगृह्याग्ने:पुन:संधानंकरिष्यइतिसंकल्प्य स्थंडिलोपलेपनोल्लेखनाभ्युक्षण
द्विजनामाग्निप्रतिष्ठापनानिकृत्वान्वाधानंकुर्यात् ॥ समिव्दृयमादायपुन:संधानहोमेदेवता
परीग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिंप्रजाप
तिंचाघारदेवतेआज्यने ॥ अत्रप्रधानं त्रिरग्निंपवमानंसकृदग्निंप्रजापतिंचाज्येनअर्यमाग्निं
वरुणाग्निंपूषाग्निंप्रजापतिंचलाजद्रव्येन सूर्यासावित्रींचतुर्वारमाज्यद्रव्येण शेषेणस्विष्टकृत
मित्यादिपरिसमूहनादिकृत्वा ॥ पात्रासादनेविशेष: ॥ प्रोक्षणींस्त्रुवंप्रणीतामाज्यपात्रंलाजशू
र्पंइध्मंबर्हिश्च दधिप्राशनपक्षेदधिचासादयेत् ॥ आज्यसंस्कारादिकृत्वा ॥ तत्राज्येनसहला
जानामपिपर्यग्निकरणं ॥ आज्योत्पवनमात्रेकृतेलाजानांत्रि:प्रोक्षणं ॥ स्त्रुवसंमार्जनादि ॥
पत्न्यान्वारब्धइध्माधानाध्याघारांतंकुर्यान्नचक्षुषी ॥ अग्नआयूंषितितिसृणांशतंवैखासाऋ
षय: ॥ अग्नि:पवमानोदेवता ॥ गायत्रीछंद: ॥ पुन:संधानप्रधानाज्यहोमेविनियोग: ॥
ॐ अग्नआयूंषिपवसआसवोर्जमिषंचन: ॥ आरेबाधस्वदुच्छुनांस्वाहा ॥ अग्नयेपवमानाये
दं० ॥ ॐ अग्निऋषि:पवमान:पांचजन्य:पुरोहित: ॥ तमीमहेमहागयंस्वाहा ॥ अग्नये० ॥ ॐ अग्नपवस्वस्वपाअस्मेवर्च:सुवीर्य ॥ दधद्रयिंमयिपोषंस्वाहा ॥ अग्नये० ॥ त्वमर्य
मावसुश्रुतोग्निस्त्रिष्टुप् ॥ विनियोग:प्राग्वत् ॥
ॐ त्वमर्यमाभवसियत्कनीनाम्नाम्स्वधावन्गुह्यंबिभर्षि ॥ अंजंतिमित्रंसुधितंनगोभिर्यद्दं
पतीसमनसाकृणोषिस्वाहा ॥ अग्नयइदं० ॥ प्रजापतेहिरण्यगर्भ:प्रजापतिस्त्रिष्टुप् ॥
विनियोग:प्राग्वत् ॥ ॐ प्रजापतेन० स्वाहा ॥ प्रजापतयइदं० ॥ अथपत्न्या:प्रक्षालितेंज
लौपतिराज्येनोपस्तीर्यद्विर्लाजानोप्यपंचावत्तीतुत्रिरोप्यशूर्पस्थानभिघार्य अंजलिस्थानप्य
भिघार्य स्वयमुपविष्टएवतिष्ठंत्याअंजलिंस्वकराभ्यांधृत्वा अर्यमणंवरुणंपूषणमितितिसृणां
वामदेवोर्यमाग्निर्वरुणाग्नि:पूषाग्निरनुष्टुप् ॥ अग्निपुन:संधानलाजहोमेविनियोग: ॥
ॐ अर्यमणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोअर्यमाप्रेतोमुंचातुनामुतस्वाहेतिपठितमं
त्रातेअंजलिमविच्छिंदंती अंगुल्यग्रैरंगुलिवामपार्श्वेनवापत्नीजुहुयात् ॥ एवमग्रेपि ॥ अर्यम्णेग्नयइदं० ॥ ॐ वरुणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेवोवरुण:प्रेतोमुंचातुनामु
तस्वाहा वरुणायाग्नयइदं० ॥ ॐ पूषणंनुदेवंकन्याअग्निमयक्षत ॥ सइमांदेव:पूषाप्रेतोमुं
चातुनामुतस्वाहा पूष्णेग्नय० ॥ तत:शूर्पकोणेनशिष्टान् सर्वान् लाजान्पति:पत्नीवाभ्या
त्मंप्रजापतिंध्यायन् जुहुयात् ॥ प्रजापतयइदंनमम ॥ लाजानांस्विष्टकृन्नास्ति ॥ तिष्ठ
न्होमेकृतेउपविश्याज्यंपतिर्जुहुयात् ॥ आन:प्रजामितिचतसृणांसूर्यावासावित्रीसूर्यासावित्रीआ
ध्याजगतीद्वितीयात्रिष्टुबंत्येद्वेअनुष्टुभौ ॥ अग्निपुन:संधानाज्यहोमे० ॥
ॐ आन:प्रजां० स्वाहा ॥ सूर्यासावित्र्याइदं० ॥ एवमग्रेपित्याग: ॥ ॐ अघोर० स्वाहा ॥
इमांत्व० स्वाहा ॥ ॐ सम्राज्ञी० स्वाहा ॥ समंजंत्वित्यस्यसूर्यासावित्रीसूर्यासावित्र्यनुष्टुप् ॥ (दधिप्राशने) आज्यशेषेणहृदयांजनेवावि० ॥ ॐ समंजंतुवि० ॥ एतेनस्वयंदधिप्राश्नी
यात् ॥ आज्यशेषेणहृदयांजनंकुर्यात् ॥ पत्न्यैचदधिप्रयच्छेत् ॥ साचतूष्णींप्राश्नीयात् ॥
स्वहृदयांजनपक्षेपन्त्याअपितूष्णींहृदयांजनं ॥ अथाज्येनयदस्यकर्मणइतिस्विष्टकृतंहुत्वा
इध्मसंनहहोमादिकर्मशेषंसमापयेत् ॥ अत्रकारिका ॥ उपलेपादिकंकुर्यादाघारांतंविवाहवत् ॥ विवाहाज्याहुतीर्हुत्वालाजहोमोभवेदिह ॥ गृहप्रवेशनीयाश्चहुत्वास्याध्दृदयांजनं ॥
परिणीत्यादिनास्त्यत्रलाजानावपतिस्वयं ॥ इतिविच्छिन्नस्यगृह्याग्ने:पुन:संधानं ॥

N/A

References : N/A
Last Updated : July 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP