द्वारकाखण्डः - अध्यायः १२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
शंखोद्धारे तीर्थमुख्ये स्वर्णदानं ददाति यः ॥
सँगच्छेद्वैष्णवं लोकं सर्वोपद्रववर्जितम् ॥१॥
श्रीकृष्णभक्तः शांतात्मा त्रितो नाम महामुनिः ॥
तीर्थयात्राप्रसंगेन प्राप्त आनर्तभूमिषु ॥२॥
दृष्ट्वा शुभं सरः स्नात्वा हरेः पूजां चकार ह ॥
तत्पूजायां महाशंखं सुन्दरैर्लक्षणैर्वृतम् ॥३॥
चोरयामास कक्षीवांस्तस्य शिष्योतिलोभतः ॥
पूजाशंखं गतं वीक्ष्य कुद्धः प्राह त्रितो मुनिः ॥४॥
येन नीतस्तु मे शंखः स शंखो भवतु ध्रुवम्॥
तदेव शंखरूपोभूत्कक्षीवाञ्छापपीडितः ॥५॥
उत्पादयोर्निपतितः पाहि मामित्युवाच ह ॥
शीघ्रं शांतस्त्रितः प्राह दुर्मते किं कृतं त्वया ॥
स्तेयदोषाद्भुंक्ष्व पापं मद्वचो नो मृषा भवेत् ॥६॥
भज श्रीकृष्णपादाब्जं स ते मोक्षं करिष्यति ॥
इत्युक्त्वाथ गते राजन्त्रिते देवे महामुनौ ॥७॥
सरोवरे निपतितः कक्षीवाञ्छंखरूपधृक्॥
प्रवदन्कृष्णकृष्णेति शतवर्षं स्थितोभवत् ॥८॥
परिपूर्णतमः साक्षाद्भगवान्भक्तवत्सलः ॥
आगत्य सरसस्तीरं मा भैष्टेत्यभयं ददौ ॥९॥
तां मेघनादगंभीरां गिरं श्रुत्वा जलेचरः ॥
चुक्रोश पाहि पाहीति देवदव जगत्पते ॥.१०॥
भुजगेंद्र भोगरुचा भुजेन भगवान्प्रभुः॥
शंखं भक्तं गजमिव प्रोज्जहार दयापरः ॥११॥
तदैव दिव्यरूपोभूच्छंखरूपं विहाय सः ॥
कृतांजलिर्हरिं नत्वा स्तुतिं चक्रे यदा च सः ॥१२॥
कक्षीवानुवाच ॥
वासुदेव नमस्तेस्तु गोविंदपुरुषोत्तम ॥
दीनवत्सल दीनेश द्वारकेश परेश्वर ॥१३॥
ध्रुवे ध्रुवपदंदात्रे प्रह्लादस्यार्तिहारिणे ॥
गजस्योद्धारिणे तुभ्यं बलर्बलिविदे नमः ॥१४॥
द्रौपदीचीरसंत्राणकारिणे हरये नमः ॥
गराग्निवनवासेभ्यः पांडवानां सहायिने ॥१५॥
यादवत्राणकर्त्रे च शक्रादाभीररक्षिणे ॥
गुरुमातृद्विजानां च पुत्रदात्रे नमोनमः ॥१६॥
जरासंधनिरोधार्त नृपाणां मोक्षकारिणे ॥
नृगस्योद्धारिणे साक्षात्सुदाम्नोदैन्यहारिणे ॥१७॥
वासुदेवाय कृष्णाय नमः संकर्षणाय च ॥
प्रद्युम्नायानिरुद्धाय चतुर्व्यूहाय ते नमः ॥१८॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ॥
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥१९॥
श्रीनारद उवाच ॥
एवं स्तुत्वा हरिं राजन्कक्षीवान्प्रेमपूरितः ॥
विमानवरमास्थाय यादवानां च पश्यताम् ॥२०॥
विभ्राजयन्दशदिशः शतसूर्यसमप्रभः ॥
जगाम वैष्णवं लोकं सर्वोपद्रववर्जितम् ॥२१॥
शंखोद्धारः कृतो यस्मिन्हरिणा मैथिलेश्वर ॥
तस्मात्तीर्थं महापुण्यं शंखोद्धार प्रथां गतम् ॥२२॥
शंखोद्धारकथामेतां यः शृणोति नरोत्तमः ॥
शंखोद्धारस्नानफलं लभते वै न संशयः ॥२३॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे शंखोद्धारमाहात्म्यं नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP