अष्टादशकाण्ड: - ६६ ते ७०

पैप्पलादसंहिता


६६
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।
परापुरो निपुरो ये हरन्ति तानस्माद्यज्ञात् प्र धमन्तु देवा: ॥१॥
सं विशन्त्चिह पितर: स्वा नः स्योनं कृण्वन्त प्रतिरन्त आयुः ।
तेभ्य: शकेम हविषा नक्षमाणा ज्योग् जीवन्तः शरदः पुरुचीः ॥२॥
यां ते धेनुं निपृणामि यं वा ते क्षीर ओदनं ।
तेना जनस्यासो भर्ता योत्रासदजीवन: ॥३॥
अश्वावतीं प्र तर या शुशेवा ऋक्षाकं वा प्रतरं नवीय: ।
यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेयम् ॥४॥
यमः परस्तादवरो विवस्वान् ततः परं नाति पश्याम्यन्यत् । परोस्तादवरो
यमे अध्वरो अधि मे निविष्टो भुवो विवस्वानन्वाततान ॥५॥
अपागूहन्नमृतां मर्त्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।
उताश्विनावभरद् यत् तदासीदजहादु द्वा मिथुना सरण्यू: ॥६॥ उतास्विना
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिता: ।
सर्वांस्तानग्न आ वह पितॄन् हविषे अत्तवे ॥७॥
ये चेह पितरो ये च नेह याङ्श्च विद्म याङ् उ च न प्रविद्म ।
त्वं वेत्थ यदि ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषन्ताम् ॥८॥
शं तप माति तपो अग्ने मा तन्वं तप: ।
वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥९॥
ददाम्यस्मा अवसानमेतद् य एष आगन् मम चेदभूदिह ।
यमचिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥१०॥

६७
प्रेमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा ॥१॥
उदिमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा ॥२॥
अपेमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा ॥३॥
वीमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा ॥४॥
निरिमां मात्रां मिमीमहे यथा परं न मासातै । शते शरत्सु नो पुरा ॥५॥
अमासि मात्राङ् स्वरगामायुष्मान् भूयासम् ।
यथापरं न मासातै शते शरत्सु नो पुरा ॥८॥
प्राणो अपानो उत वा व्यान आयुश्चक्षुर्दृशये सूर्याय ।
अपरिपरेण पथा यमराज्ञ: पितॄन् गच्छ ॥९॥
ये नः पितुः पितर ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
य आक्षियन्ति पृथिवीमुत द्यां तेभ्यो पितृभ्यो नमसा विधेम ॥१०॥
ये अग्रव: शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्त: ।
ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥११॥
उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।
तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥१२॥
इदमिद् वा उ तमं दिवि पश्यति सूर्यम् ।
माता पुत्र यथा सिचाभ्येनं भूम ऊर्णुहि ॥१३॥

६८
इदमिद् वा उ नापरं जरस्यत उतापरम् ।
जाया पतिमिव वाससाभ्येनं भूम ऊर्गुहि ॥१॥तु. शौनक संहिता १२.५०
अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।
जीवेषु भद्रं तन्मयि स्वधा पितृषु सा तव ॥२॥
अग्नीषोमा पथिकृता स्योनं देवभ्यो रत्नं दधथुर्वि लोकम् ।
उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतु ॥३॥
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
स त्वैतेभ्य: परि ददत् पितृभ्यो अग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥४॥
आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५॥
इदं त्वा वासः प्रथमं न आगन्नपैतदूह यदिहाबिभः पुराः।
इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा तत्र गच्छतु ॥६॥
इमौ जुनज्मि ते वह्नी असुनीताय नेतवे। असूनीताय
ताभ्यां यमस्य सादनं समितिं चोप गच्छतात् ॥७॥
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोणुष्व पीवसा मेदसा च ।
नेत् त्वा धृष्णुर्हरसा जर्हृषाणो दधृग् विधक्षन् परीङ्खयातै ॥८॥
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥९॥
दण्डं हस्तादाददानो मृतस्य सह श्रोत्रेण वर्चसा बलेन ।
समागृभाय वसु भूरि पुष्टमर्वाङ् त्वमेह्यभि जीवलोकम् ॥१०॥
इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥११॥
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥१२॥
(ड्रति महत् काण्डनाम अष्टादशकाण्डे एकादशो अनुवाक:)

६९
अपश्यं युवतिं नीयमानां जीवां मृतेभ्य: परिणीयमानाम् ।
अन्धेन यत् तमसा प्रावृतासीत् प्राक्तो अपाचीमनयं तदेनाम् ॥१॥
प्रजानत्यघ्न्ये जीवलोकं भरन्ति देवानां पन्थामनुसंचरन्ती ।
एष ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥२॥
उप द्यामुप वेतसमवत्तरो नदीनाम् ।
अग्ने पित्तमपामसि ॥३॥
यं त्वमग्ने समदहस्तमु निर्वापया पुन: ।
क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥४॥
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥५॥
उतिष्ठ प्रेहि प्र द्रवौक: कृणुष्व सलिले सधस्थे ।
तत्र त्वं पितृभि: संविदान: सं सोमेन मदस्व सं स्वधाभि: ॥६॥
प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम्।
मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥७॥
वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।
चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धयन्तु ॥८॥
वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।
रयिं मे विश्वे नि यच्छन्तु देवा: शुद्धा आपः पवनैर्मा पुनन्तु ॥९॥
मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।
वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१०॥

७०
यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥१॥
परा यात पितर आ च यातायं वो यज्ञो मधुना समक्त: ।
दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च न: सर्ववीरं दधात ॥२॥
कण्व कक्षीवान् पुरुमीढो अगस्त्य श्यावाश्वः सोभर्यर्चनानाः ।
विश्वामित्रोयं यमदग्निर्वसिष्ठऽवन्तु नः कश्यपो वामदेवः ॥३॥
विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतमो वामदेव ।
शर्दिर्नो अत्रिरग्रभीन्नमोभिः सुसंशास: पितरो मृडता नः ॥४॥
कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।
आप्यायमाना: प्रजया धनेन शुद्धा भवन्त: शुचय: पावका: ॥५॥
यद् वो मुद्रं पितर: सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।
ते अर्वाण: कवय आ शृणोत सुविदत्रा विदथे हूयमानाः ॥६॥
ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः॥
दक्षिणावन्त: सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥७॥वर्हिषि
अधा यथा न: पितर: परास: प्रत्नासो अग्ने ऋतमाशशाणा: ।
शुचिदयन् दीधितिमुक्थशास: क्षामा भिन्दन्तो अरुणीरप व्रन् ॥८॥
सुकर्माण: सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । जानिमा
शुचन्तो अग्निं ववृधन्त इन्द्रमुर्वीं गव्यां बर्हिषदं नो अक्रन् ॥९ ॥वर्हिषदं
आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज्जनिमान्त्युग्रः ।
मर्तानां चिदुर्वशीरकृप्रन् वृधे चिदर्थ उपरस्यायो: ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP