अष्टादशकाण्ड: - ५६ ते ६०

पैप्पलादसंहिता


५६
सप्तभि पराङ् तपस्येकयार्वाङ् अशस्तिमेषि सुदिने वाधमानः।
त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं
तवेद् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥१॥
त्वमिन्द्रस्त्वं महेन्द्रस्त्वं विष्णुस्त्वं प्रजापति: ।
तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद् विष्णो बहुधा वीर्याणि।
त्वं नः पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥२॥
असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम्।
भूतं ह भव्य आहितं भव्यं भूते समाहितं तवेद् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ॥३॥
शुक्रो असि भ्राजो असि।
स यथा त्वं भ्राजता भ्राजोस्येवाहं भ्राजता भ्राज्यासम् ॥४॥
रुचिरोसि रोचो असि।
स यथा त्वं रुच्या रोचोस्येवाहं प्रजया
पशुभिर्ब्राह्मणवर्चसेन रुचिषीय ॥५॥
उद्यते नम उदायते नम उदिताय नमः ।
विराजे नम: स्वराजे नम: सम्राजे नम: ॥६॥
अस्तंयते नमोस्तमेष्यते नमोस्तमिताय नम:॥
विराजे नम: स्वराजे नम: सम्राजे नम: ॥७॥
आदित्या नावमारुक्ष: शतारित्रां स्वस्तये ।
अहर्नो अत्यपीपरो रात्रिं सत्राति पारय ॥८॥
सूर्य नावमारुक्ष: शतारित्रां स्वस्तये ।
रात्रिं नो अत्यपीपरोह: सत्राति पारय ॥९॥
प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
जरदष्टि: कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥१०॥
ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्त उत भव्येन चाहम् ।
मा मा प्रापन्निषवो दैव्या या मा मानुषीरवसृष्टा वधाय ॥११॥
परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
मा मा प्रापत् पाप्मा मोत मृत्युरन्तर्दधेहं सलिलेन वाचः ॥१२॥
अग्निर्मा गोपाः परि पातु विश्वतो व्युच्छन्तीरुषसः पर्वता ध्रुवा: ।
उद्यन् सूर्यो नुदतां मृत्युपाशान् सहस्रं प्राणा मयि ते रमन्ताम् ॥१३॥
(इति महत् काण्डनाम अष्टादशाकाण्डे नवमो ऽनुवाकः)
। महत्काण्डे द्वितीयखण्ड: समाप्त: ।

अथ महत् काण्डे मङ्गला खण्डम्

५७
ओ चित् सखायं सख्या ववृत्यां तिर: पुरू चिदर्णवं जगन्वान् । तु. शौनकीय संहिता ११.१
पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दध्यान: ॥१॥
न ते सखा सख्यं वष्टयेतत् सलक्ष्मा यद् विषुरूपा भवाति॥
महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य ।
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥३॥
न यत् पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्वप्या च योषा सा नो नाभि: परमं जामि तन्नौ ॥४॥
गर्भे नू नौ जनिता दंपती कर्देवस्त्वष्टा सविता विश्वरूपः ।
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
को अद्य युङक्ते धुरि गा ऋतस्य शिमीवतो भामिनो दूर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ॥६॥
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ॥७॥
यमस्य मा यम्यं काम आगन् त्समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्वेव चक्रा ॥८॥
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । ईह
अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्वेव चक्रा ॥९॥
रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्य चक्षुर्मुहरुन्मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥

५८
आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि । तु. शौनकीय अथर्ववेद ११.११
उप बर्बहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥१॥
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निऋतिर्निगच्छा ।
काममूता बह्वेतद् रपामि तन्वा मे तन्वं सं पिपृग्धि ॥२॥
न वा उ ते तन्वा तनूं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
अन्येन मत् प्रमुद: कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥३॥
न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।
असंयदेतमनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥४॥
बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥५॥
तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ।
अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ॥६॥
त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।
वाता आपो ओषधयस्तान्येकस्मिन् भुवनार्पितानि ॥७॥
वृषा वृष्णे दुदुहे दोहसा दिव: पयांसि यह्वो अदितेरदाभ्य:।
विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियान् ऋतून् ॥८॥
रपद् गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मन: ।
इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठ: प्रथमो वि वोचति ॥९॥
सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥१o॥

५९
अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषिर: श्येनो अध्वरे ।
यदी विशी वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥१॥
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वर: ।
विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाङ् उपयाहि भूरिभि: ॥२॥
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥३॥
यस्ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो ऽति स प्र श्रुण्वे ।
इषं दधानो वहमानो अश्वैरा स द्युमाङ् अमवान् भूषति द्यून् ॥४॥द्युन्
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा प्रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी वेदपुत्रे माकिर्देवानामप भूरिह स्या: ॥५॥
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥६॥
प्रत्यग्निरुषसामग्रमख्यत् प्रत्यहानि प्रथमो जातवेदा: ।
प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥७॥
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदा: ।
अनु सूर्यस्य पुरुधा च रश्मीननु द्यावापृथिवी आ ततान ॥८॥
द्यावा ह क्षामा प्रथमे ऋतेनाभि ऽश्रावे भवत: सत्यवाचा ।
देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ् स्वमसुं यन् ॥९॥
देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
धूमकेतु: समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥१०॥

६०
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । शृणतं
अहा यद् देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥१॥
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत् ते यजुर्गुदुहे यदेनी दिव्यं घृतं वा: ॥२॥
किं स्विनो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति।३॥
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥४॥
यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥५॥
यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान् सविता देवो वरुणाय वोचत् ॥६॥
सखाय आ शिषामहे ब्रहोन्द्राय वज्रिणे ।
स्तुष ऊ षु नृतमाय धृष्णवे ॥७॥
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
मधैर्मघोनो अति शूर दाशसि ॥८॥
स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।
मित्रो नो अत्र वरुणो युज्यमानो अग्निर्वने न व्यसृष्ट शोकम् ॥९॥
स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत् ते नि वपन्तु सेन्यम् ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP