अष्टादशकाण्ड: - ११ ते १५

पैप्पलादसंहिता


११
यं नो ददुर्ब्रह्मभागं वधूयोर्वासो वध्वश्च वस्त्रम् ।
युवं ब्रह्मणेनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥१॥
देवैर्दत्तं मनुना साकमेतद् वाधूयं वध्वो वासो अस्याः ।
यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्प्यानि हन्ति ॥२॥
स्योनाद्योनेरधि बुध्यमानौ हसामुदौ महसा मोदमानौ ।
सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभाती: ॥३॥
नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभाति: ।
आण्डात् पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४॥
शुंभनी द्यावापृथिवी अन्तिशुम्ने महिव्रते ।
आपः सप्त स्रवन्तीस्ता नो मुञ्चन्त्वंहसः ॥५॥
सुर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतसस्तेभ्योहमकरं नम: १ ॥६॥
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
संधाता संधि मघवा पुरूवसुर्निष्कर्ता विहृतं पुन: ॥७॥
अपास्मत् तम उछतु नीलं पिशङ्गमुत लोहितं यत्॥
निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सृजामि ॥८॥
यावती: कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशात् ।
व्यृद्धयो या असमृद्धयश्चास्मिन् ता स्थाणौ प्रति मुञ्चामि सर्वाः ॥९॥
ये अन्ता यावती: सिचो ओतवो ये च तन्तव: ।
वासो यत् पत्नीभिरुतं तन्मा स्योनमुप स्पृशात् ॥१०॥

१२
उशतीः कन्यला इमा: पितृलोकात् पतिं यतीः ।
अव दीक्षामसृजत स्वाहा ॥१॥
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि ॥२॥
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
तेजो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥३॥
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
पयो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥४॥
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
यशो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥५॥
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
भगो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि ॥६॥
यदसौ दुहिता तव विकेश्यरुदद्बहु रोदेन कृण्वत्यघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥७॥
यदमी केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥८॥
यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥९॥
यदमू दंपती उभौ विवाहे अघमारुतो रोदेन कृण्वन्तावघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥१०॥

१३
यत्ते प्रजायां पशुषु यद् वा गृहेषु निष्ठितमघकृद्भिरघं कृतम्।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥१॥
इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।
दीर्घायुरस्तु मे पतिरेधन्तां पितरो मम ॥२॥
इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।
प्रजावन्तौ स्वस्तकौ दीर्घमायुर्व्यश्नुताम् ॥३॥
यदासन्द्यामुपधाने यद् वोपवासने कृतम् ।
विवाहे कृत्यां यां चक्रुरास्नाने तां निदध्मसि ॥४॥
यद् दुष्कृतं यच्छमलं विवाहे वहतौ च यत् ।
तत् संभलस्य कम्बले मृज्महे दुरितं वयम् ॥५॥
सम्भले मलं सादयित्वा कम्बले दुरितं वयम् ।
अभूम यज्ञिया: शुद्धाः प्र ण आयुंषि तारिषत् ॥६॥
या मे प्रियतमा तनू: सा मे बिभाय वाससः ।
तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥७॥
कृत्रिमः कङ्कतः शतदन् य एष: ।
अपास्या: केश्यं मलमप शीर्षण्यं लिखात् ॥८॥
अङ्गादङ्गाद् यूयमस्या अप यक्ष्मं नि धत्तन ।
तन्मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।
अपो मा प्रापन्मलमेतदग्ने यमं मा प्रापत् पितॄंश्च सर्वान् ॥९॥
सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥१०॥

१४
अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् ।
मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै ॥१॥
जनियन्ति नो अग्रव: पुत्रियन्ति सुदानव: ।
अरिष्टास: सचेमहि बृहते वाजसातये ॥२॥
ये पितरो वधूदर्शा इमं वहतुमागमन् ।
ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥३॥
येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।
तां वहन्त्वगतस्याभि पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥४॥
प्र बुध्यस्व सुबुधा बुध्यमाना दोघर्षायुत्वाय शतशारदाय ।
गृहान् प्रेहि सुमनस्यमाना दीर्घं त आयुः सविता कृणोतु ॥५॥
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि च।
अरिष्टास्मिन् ज्योतिषि शिवा गृहपतौ भव ॥६॥
स्योना भव श्वसुरेभ्य: स्योना पत्ये गृहेभ्य: !
स्योनास्यै सर्वस्यै दृशे स्योना पुष्टायैषां भव ॥७॥
(इति महत् कायडनाम अष्टादशकाण्डे द्वितीयो अनुवाक:)

१५
उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सुनृतावत् । तु. शौनकीय संहिता १३.१.१
यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं पिपर्तु ॥१॥
उद् वाज आ गन् यो अप्सन्तर्विश आ रोह त्वद्योनयो याः ।
सोमं दधानोप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।
आ वो रोहितः शृणवत् सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥
रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।
ताभिः संरब्धो अन्वविन्दत् षडुर्वी गातुं प्रपश्यन्निह राष्ट्रमाहाः ॥४॥
आ। ते राष्ट्रमिह रोहितोहार्मृधो व्यास्थदभयं ते अभूत् ।
तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥
रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
तत्र शिश्रियेज एकपादोदृंहद् द्यावापृथिवी बलेन ॥६॥
रोहितो द्यावापृथिवी अदृंहत् तेन स्वस्तभितं तेन नाकः ।
तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दम् ॥७॥
वि रोहितो अमृशद विश्वरूपं समाकृण्वान: प्ररुहो रुहश्च ।
दिवं रुढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥
यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।
तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
यास्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।
तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP