त्रेतायुगसन्तानः - अध्यायः २५२
लक्ष्मीनारायणसंहिता
N/Aश्रीकृष्ण उवाच-
अथापि राधिके देवि राजाऽश्वपाटलस्ततः ।
पुनर्भागवतान् धर्मान् पप्रच्छाऽतृप्तमानसः ॥१॥
अश्वपाटल उवाच-
किं व्रतः कीदृशाचारः किं बोधः किं समाश्रयः ।
अक्षराख्यं हरेर्धाम प्रयाति परतः परम् ॥२॥
श्रीलोमश उवाच-
भक्तिव्रतः सदाचारो ब्रह्मात्मबोधवान् शुचिः ।
परब्रह्माश्रयो याति धामाऽक्षरं परात्परम् ॥३॥
गृहे गृहे वसन् शान्तः स्वार्थाऽनर्थौ विहाय च ।
अनुत्थितनवेहश्च निरपेक्षोऽक्षरं व्रजेत् ॥४॥
न दोषं विवृणुयाच्च साक्षात्परोक्षमेव वा ।
कल्पयेन्नान्तरे चापि निर्दोषकोऽक्षरॆ व्रजेत्। ॥५॥
अद्रोहः सर्वभूतानामानन्ददो भवत्यपि ।
जीवनं चाऽजातशत्रु कुर्वंस्तदक्षरं व्रजेत् ॥६॥
वादतर्कान्न कुर्याच्च नाभिमानं विवर्धयेत् ।
प्रियं च कुशलं कुर्यात् सोऽक्षरं धाम संव्रजेत् ॥७॥
प्राणयात्रिकमात्रः सन् विशेषं चार्जयेन्न च ।
पूजितो हर्षयेन्नैव स्निग्धे स्निग्धो न वै भवेत् ॥८॥
नान्नं निन्देन्न वाऽन्यं च नरं नारीं प्रनिन्दयेत् ।
वृक्षमूलमरण्यं वा गुहां वसेत् स्मरन् हरिम् ॥९॥
अज्ञातचर्यो विचरेत् नानुरुन्ध्यात्तु देहिनम् ।
सदा तृप्तश्च सन्तोषी प्रसन्नमानसाननः ॥१०॥
जपन् कृष्णं रागहीनो निस्पृहः समदृष्टिमान् ।
परात्मनाऽऽत्मानन्दश्च सर्ववेगप्रशान्तकः ॥११॥
मध्यस्थ इव तिष्ठँश्च सर्वोदासीनवर्तनः ।
परब्रह्मकृतमैत्र्यः प्रयात्यक्षरधाम सः ॥१२॥
अश्वपाटल उवाच-
कदा सन्यासमाश्रित्य गन्तव्यं ब्रह्मणः पदम्
कदा वा गृहधर्माद्धि यायात् तद्ब्रह्मणः पदम् ॥१३॥
श्रीलोमश उवाच-
पुत्रपौत्रादि संवीक्ष्य निवृत्तिं चाभिवीक्ष्य च ।
अबाधितस्वभावं चाभ्यस्याश्रित्य च साधुताम् ॥१४॥
भक्तिं कृत्वा विहायाऽत्र वर्ष्म गन्तव्यमक्षरम् ।
उद्योगिनो हि सान्निध्ये मुक्तिश्चायाति दुर्लभा ॥१५॥
कार्तिके मार्गशीर्षे वा माघे चैत्रेऽप्याषाढके ।
श्रावणे संप्रगृह्णीयात् सन्यासं साधुतान्वितम् ॥१६॥
यदा निवर्तेत जगतस्तदा प्रव्रजेत्तत्स्थलात् ।
प्रज्ञया च तमः सर्वं निरस्य श्रीहरेर्बलात् ॥१७॥
ब्रह्मप्रकाशमासाद्य यायात् कृष्णाऽक्षरगृहम् ।
अयत्नसाध्यं मुक्तानामन्येषां यत्नगोचरम् ॥१८॥
यत्नेन चेयते स्वर्गं पारमेष्ठ्यं पदं तथा ।
यत्नेन कर्मणा तच्च मतं नष्टं भवत्यपि ॥१९॥
तपसा लभ्यते भूयस्तपसा भुज्यते दिवम् ।
तपसाऽऽत्मजुषा धामाऽक्षरं चापि प्रलभ्यते ॥२०॥
धर्मेण सात्त्वतेनैव हरिर्नारायणः प्रभुः ।
प्राप्यते पुरुषोऽनन्तोऽनादिकृष्णनरायणः ॥२१॥
विष्णुः कृष्णः स्वर्णकेशः हिरण्यश्मश्रुरच्युतः ।
वैकुण्ठगोलोकवासो ब्रह्मप्रियाप्रियो विभुः ॥२२॥
तस्मिन् स्थितं जगत्सर्वं जडचैत्यं चराचरम् ।
सूक्ष्मं सर्वं ब्रह्मजुष्टं स्थौल्यं प्राप्य प्रजायते ॥२३॥
पुष्टिमेति ततश्चैव तस्मिन्नप्येति सर्वशः ।
स एषो भगवान् प्राप्यो भक्त्या च संयमेन च ॥२४॥
तद्भावभावितः प्राज्ञो निर्मलो ब्रह्मनिष्ठकः ।
ब्राह्मीं स्थितिं वशीकृत्य सुखानन्त्यं समश्नुते ॥२५॥
स्वर्णं वह्निसहस्रार्चिर्योजितं ध्मायितं मुहुः ।
शुद्धं सम्पद्यते चात्मा ज्ञानभक्त्यादियोजितः ॥२६॥
जन्मान्तरशतेनापि वैकेन जन्मनाऽपि वा ।
यत्नेन महता चात्मा कल्मषोऽपि विशुद्ध्यति ॥२७॥
अनादिश्रीकृष्णनारायणो हरिः श्रियाः पतिः ।
कृपया भक्तियोगे न सन्निधिं भजतेऽस्य च ॥२८॥
अक्षरे वा क्षरे लोके यथा तद्वद् भवद्गृहे ।
समायाति च रमतेऽनुग्रहप्रेरितः स्वयम् ॥२९॥
ब्रह्मलोकोऽस्य मूर्धाऽस्तीश्वरलोका हृदादिकम् ।
जीवलोकाश्चरणौ च त्रेधा सृष्टिर्व्यवस्थिता ॥३०॥
कर्मणां तपसां वापि ज्ञानानां विविधात्मनाम् ।
सेवानां चाकर्मणां च फलं नारायणः स्वयम् ॥३१॥
अण्डानि यस्य रोमांशे पारमेष्ठ्यधिकान्यपि ।
वेदाः सरस्वती चापि जिह्वा यस्यास्ति सृष्टिषु ॥३२॥
धर्मो भक्तिर्ब्रह्मपरौ ब्रह्म यद्धृदये स्थितम् ।
तत्र स्थितश्च यो देवो दिव्यः सः परमेश्वरः ॥३३॥
मन्त्राः प्रवर्तना देवाः पात्राणि च तदात्मकाः ।
ब्रह्मा च ब्राह्मणाच्छंसी पोताऽग्नीध्रो यदात्मकाः ॥३४॥
होताच्छावाकको ग्रावः स्तोता ह्येते यदात्मकाः ।
अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता मदात्मकाः ॥३५॥
उद्गाता प्रस्तोता प्रतिहर्ता सुब्रह्मण्य इमे ।
यदात्मकाः क्रतुर्यदात्मकः स परमेश्वरः ॥३६॥
मुक्ता अक्षरलोकश्च गोलोकश्च यदात्मकाः ।
वैकुण्ठं चामृतं चाव्याकृतं च बदरीवनम् ॥३७॥
क्षीरालयं श्वेतभूमिर्यदात्मकाः स माधवः ।
राधा कृष्णस्तथा लक्ष्मीनारायणः सितारमः ॥३८॥
रमाकान्तः पद्मजेश कृष्णनारायणः स हि ।
वासुदेवादयो व्यूहा अवतारप्रकोटयः ॥३९॥
भूमाद्या ईश्वराश्चापि वैराजाद्याः प्रधानजाः ।
ब्रह्मविष्णुमहेशाश्च रुद्रा यदात्मका हि सः ॥४०॥
ऋषयः पितरश्चापि वसवः सिद्धसाधवः ।
आदित्याश्चाश्विनौ सूर्यादयो यदात्मका हि सः ॥४१॥
दिक्पाला लोकपालाश्च सुराश्च मानवादयः ।
सर्वं तदात्मकं राजन् पृथक् चापृथगेव तत् ॥४२॥
ज्ञानेन महता पश्यन् ब्रह्मप्रकाशवान् भवेत् ।
ब्राह्मप्रकाशतेजस्वी पश्यत्येव परेश्वरम् ॥४३॥
सर्वान् स्वर्गान् विजानाति साक्षात् करोति चांजसा ।
तत्तद्दृष्टिप्रतापेन परेश्वरानुभावितः ॥४४॥
अश्वपाटल उवाच-
तत्तत्सृष्टौ तु के सर्गा अनित्या नित्यकाश्च वा ।
यान् स पश्यति मुक्तात्मा तान्मे वद गुरो न्विह ॥४५॥
श्रीलोमश उवाच-
ब्रह्मसृष्टौ भवन्त्येव पञ्चधा ब्रह्मरूपणाः ।
परब्रह्म, ब्रह्मप्रियाः, अक्षरब्रह्म इत्यपि ॥४६॥
मुक्ता मुक्तान्य एवेति पञ्चरूपः स एव सः ।
ईशसृष्टौ भवन्त्येव सद्वा दशविधस्तथा ॥४७॥
अवतारा अवतारिण्यश्च व्यूहाः प्रधानकम् ।
भूमानश्च महाविष्णवश्च वैराजकोटयः ॥४८॥
सादाशैवा गवाद्याश्च पार्षदाण्यश्च पार्षदाः ।
गोपा गोप्यश्च रूपाणि द्वादशैतानि चापि सः ॥४९॥
जीवसृष्टौ दशधा च सर्गश्चेतनसंभृतः ।
त्रिदेवाः सिद्धपुरुषाः ऋषयः पितरः सुराः ॥५०॥
आसुरा मानवाश्चापि तिर्यञ्चः कीटजातयः ।
स्थावराश्चेति मुख्यास्ते तत्राऽवान्तरजातयः ॥५१॥
असंख्याताः प्रजायन्ते त्रिदेवेच्छानुसारतः ।
सप्तविंशकल्प एवाऽयं मुख्यो गौणास्त्वनन्तकाः ॥५२॥
स्थावराणां च कीटानां तिरश्चां शुभयोगतः ।
पुण्यक्षेत्रनिवासेन तीर्थयोगेन वा पुनः ॥५३॥
सतां देवेश्वराणां वा योगेन मानवी जनुः ।
आसुराणां कृष्णयोगात् सिद्धयोगाच्च मानवी ॥५४॥
तत्र धर्मादिलाभेन दैवी वै जायते गतिः ।
षण्णां भक्त्या च वा पुण्यैः पैत्री गतिः प्रजायते ॥५५॥
श्राद्धदानमहापुण्यैरार्षीगतिस्ततः परा ।
योगाभ्यासवशासिद्धगतिस्ततः परा शुभा ॥५६॥
तेषां योगजलभ्योपासनोत्था ब्राह्मवैष्णवी ।
शांभवी वा गतिस्तेषां सत्त्वप्रकर्षलाभजा ॥५७॥
गतिर्वैराजिकी तेषामुपास्तिसम्विशेषतः ।
जायते च गतिर्महावैष्णवी चाऽथवाऽपरा ॥५८॥
सादाशैवी गतिश्चापि ततश्चौपासनाबलात् ।
भूम्निका च गतिश्चापि प्राधानपौरुषी ततः ॥५९॥
व्यूहात्मिका ततश्चाप्यधिकोपासनया गतिः ।
गोपगोपीमयी चापि पार्षदादिमयी तथा ॥६०॥
अवतारिणी च गतिस्तथा मुक्तस्वरूपिणी ।
अवतारस्वरूपा च मुक्तानिकास्वरूपिणी ॥६१॥
ब्राह्मी ब्रह्मप्रियारूपा गतिश्चापि प्रजायते ।
आक्षरी च गतिश्चापि हरेश्चोपासनाबलात् ॥६२॥
जायते ब्रह्मपर्यन्ता परव्रह्म न जायते ।
स एवैकः परमात्मा सर्वान्तर्यामिमापतिः ॥६३॥
परब्रह्माऽवतारी च परमेश्वरसंज्ञकः ।
नारायणप्रकोटीनां नारायणोत्तमोत्तमः ॥६४॥
अश्वपाल यदा देही चाधर्मं श्रयति त्विह ।
तदा तिर्यक्कीटयोनिं याति स्थावरतामपि ॥६५॥
आसुरीं वा मानवीं वा निकृष्टां जनुमेति च ।
ततो याम्यां भुवं प्राप्य - यथावशेषमेति हि ॥६६॥
अशुभं वा शुभं जन्म धर्मकृच्चिरकालिकः ।
मुच्यत न तु चाधर्ममार्गी क्वचिद् वियोनितः ॥६७॥
शुद्धेन तु हृदा कृष्णं विचिन्वन् ब्रह्मभावनः ।
शुद्धं च शाश्वतं ब्रह्माक्षरं चोपैति यत्परम् ॥६८॥
सर्वा सृष्टिर्हरेर्लोकात् प्रवर्तते विशत्यपि ।
तमेव भज चान्तःस्थं प्रत्यक्षं कृष्णवल्लभम् ॥६९॥
सृजोर्णनाभिवत् सूत्रं ग्रन्थस्व यावदर्थकम् ।
पुनर्निगिल कार्यान्ते निर्बन्धो भव जालके ॥७०॥
यदा त्यक्त्वा मोहजालं पुनर्नवं प्रकाशय ।
त्यक्त्वा धर्म्यं चान्यदेव विकाशय सुखप्रदम् ॥७१॥
जालं जालनिधानं वोभयं त्यक्त्वा सुखी भव ।
शाश्वते ब्रह्मणि क्ष्मेश भुञ्जाऽनन्तप्रमोदनम् ॥७२॥
ग्रन्थयो हृदयस्येह भवन्ति वासनाश्रिताः ।
प्रध्वस्ता ब्रह्मविज्ञप्त्या पुनर्नवा न सन्ति च ॥७३॥
ग्रन्थिबन्धनहीनश्च प्रयाति ब्रह्म शाश्वतम् ।
नैव ताम्यन्ति सन्तो वै विज्ञानिनो हरिं श्रिताः ॥७४॥
ताम्यत्येवोर्मिभिर्लोका मोहाशादिसमन्विताः ।
ये जानन्ति च भूतं च भविष्यद् भव्यमित्यपि ॥७५॥
उपक्रमं च संहारं फलोदयं समाऽसमम् ।
तेषां दुःखं च वोद्वेगो जायते न विजानतम् ॥७६॥
कर्मणां गतयो भिन्ना धनाढ्या धनवर्जिताः ।
सुदृढदेहाश्चापथ्यरुग्णा वा चान्नवर्जिताः ॥७७॥
दरिद्रा वा बहुपुत्राः सती च दुष्टकान्तका ।
अपुत्रा वापि राजानो देवा दैत्यादिपीडिताः ॥७८॥
विद्वांसो मानहीना वा भृत्याश्चालस्यसेवकाः ।
सुरूपा अपि दुर्हृदः ख्याताश्च स्तेनकर्मिणः ॥७९॥
राज्यभोगाश्च सतृष्णाः पश्य संसारनिम्नताम् ।
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनोऽपि च ॥८०॥
दरिद्राः कोटिपतयो जीवन्ति चान्नभोजिनः ।
सर्वे प्रयान्ति निधनं सायासा निष्प्रयत्नकाः ॥८१॥
तद्विचार्य महाराज बन्धनं माऽवमर्शय ।
न बान्धवाः सुवर्णादि कौल्यं वीर्यं मनुर्बलम् ॥८२॥
दुःखात् त्रातुं प्रभवन्ति तस्मान्नारायणं श्रयेत् ।
प्रियं यद्धर्षजननं गर्वदं तत् त्यजेत् सदा ॥८३॥
ब्रह्मदं मोक्षदं शान्तिप्रदं प्रियं भजेत् सदा ।
अर्थकामौ महाबन्धौ धर्ममोक्षनिवर्तकौ ॥८४॥
तावेव माधवे न्यस्तौ धर्ममोक्षकरौ मतौ ।
एवं च वर्ततो नैव मृत्युः कालोऽपि बाधते ॥८५॥
अश्वपाटल उवाच-
तत्त्वज्ञानविहीनस्य बहुसंशयशालिनः ।
अप्राप्तनिर्णयस्येह श्रेयो येन वदाऽत्र तत् ॥८६॥
श्रीलोमश उवाच--
साधूनां च गुरूणां च वृद्धानां सेवनं सदा ।
देवानां पूजनं चापि शास्त्राणां श्रवणं तथा ॥८७॥
कर्तव्यं भावतो नित्यं मातापितृप्रसेवनम् ।
पतिसेवा सतीसेवा पूज्याशीर्वादसंग्रहः ॥८८॥
हरेर्भजनमित्येव श्रेयःप्रदानि सन्ति वै ।
परं नैःश्रेयसं भक्त्या परेशस्य प्रजायते ॥८९॥
गौणान्यपि च जायन्ते श्रेयांसि शुभसाधनैः ।
सतां शुभाशिषो नित्यं दानपुण्यस्वभाविता ॥९०॥
देवमन्दिरवासश्च श्रेयो नैःश्रेयसप्रदम् ।
सर्वत्र ब्रह्मभावश्च सर्वसेवाविधानकम् ॥९१॥
देवपित्रतिथिभृत्याऽर्हणा श्रेयस्तथाविधम् ।
मायाभ्रमविहीनत्वं सन्तोषश्चेषणालयः ॥९२॥
अन्तरात्मकृतावासः श्रेयो नैःश्रेयसप्रदम् ।
आत्मध्यानं तथा मोक्षसाधनादिव्रतार्जनम् ॥९३॥
ज्ञानधनं चात्मनिष्ठा श्रेयो नैःश्रेयसप्रदम् ।
सर्वेषां शुभमिच्छेद्वै सर्वोत्कर्षं समाचरेत् ॥९४॥
अन्येषां शुभभावादीनत्युत्कर्षतया वदेत् ।
अन्येभ्यो मानमुत्साहं दद्यात् पूजां समाचरेत् ॥९५॥
अस्वपूजापरश्चापि परपूज्यविचारवान् ।
प्रज्ञालाभपरश्चापि श्रेयो विन्दति सर्वदा ॥९६॥
साधुषु वासमिच्छेच्च विद्वत्सु मार्जवं भजेत्॥
पुण्यशीलेषु मैत्रीं च कुर्यान्निःश्रेयसप्रदाम् ॥९७॥
श्रेयोहीना जना यत्र तत्र वासं न रोचयेत् ।
स्वाहास्वधावषट्कारा वर्तन्ते तत्र वै वसेत् ॥९८॥
यत्र सुखं मोक्षसुखं वसेन्मोक्षाय तत्र ह ।
मुक्ता बन्धनहीनाश्च चरन्ति सुखिनो जनाः ॥९९॥
संचये दत्तयत्नाश्च कीटाद्या अपि भूपते ।
असक्ताः सुखिनश्चैते सक्ता दुःखार्णवार्दिताः ॥१००॥
स्वजनेषु न वै चिन्ता कर्तव्या मद्विना कथम् ।
जीवेयुरिति विदुषा श्रेयोऽर्थिना विवेकिना ॥१०१॥
सर्वे कर्मवशं तिष्ठेन्निधनं याति कर्मतः ।
मेलनं विप्रकर्षश्च यथाकर्म भवत्यपि ॥१०२॥
मरणं सर्वथा सत्यं श्रेयोऽर्थं मरणं शुभम् ।
श्रेयांसि बहुधा कृत्वा मरणं मरणाय तत् ॥१०३॥
परार्थे कृतदुर्गश्च स्वार्थे खातं प्रसेवते ।
न तस्येह भवेच्छ्रेयः कथं नैःश्रेयसं परम् ॥१०४॥
तस्माद् राजन् प्रमादं वै त्यक्त्वा नैःश्रेयसं भज ।
दिवसे दिवसे कृष्णं रात्रौ रात्रौ हरिं भज ॥१०५॥
आत्मभावं ब्रह्मभावं पश्य मुक्तोऽत्र संभव ।
यस्य लोके न वै स्थातुं समीहा वर्ततेऽग्रगा ॥१०६॥
प्राणयात्रौषधाऽपेक्षा विहारोदासता तथा ।
विचित्तस्येव विषयाः स वै मुक्तोऽत्र निश्चितः ॥१०७॥
अन्नवस्त्रालयाद्याश्च यस्य जीर्णत्वचो यथा ।
जनर्द्धिसंगमो यस्य मर्मभेदायतेऽपि च ॥१०८॥
इन्द्रियाणां सौष्ठवेऽपि यस्य निरिन्द्रियात्मता ।
भोज्यभोग्यादिसम्पत्तौ विपत्तिवद् विवेकिता ॥१०९॥
सोऽयं मुक्तः सदा चाऽत्र परत्राऽपि च भूपते ।
तद्योगादन्यलोकानां मुक्तताऽपि भवेत् खलु ॥११०॥
ऋषीन्नृपान् सुसम्राजो भुक्त्वा भुवं गता मृतिम् ।
एवं पश्यन् भवेन्मुक्तो बन्धनाऽऽशाविवर्जितः ॥१११॥
दुःखानि सुलभान्यत्र सुखानि दुर्लभानि च ।
यत्नलब्धानि नश्यन्ति कथं मोक्षं न पूजयेत् ॥११२॥
सति द्रव्येऽभितः सर्वे शंसमाना अहो इति ।
भ्रातः पितः शुभां वाचं वदन्तोऽभ्यर्चयन्ति च ॥११३॥
स्वार्थमात्रपरास्ते वै गते द्रव्ये विरोधिनः ।
दारिद्र्ये वा न जानन्ति क्व भ्राता क्व पिता च वा ॥११४॥
कथं बुद्ध्वा स्वार्थपरान् न विरज्येत बुद्धिमान् ।
असारमिव मानुष्यं निष्फलं चापि जीवनम् ॥११५॥
तस्माद् भगवतो धर्मः श्रेयानत्र परत्र च ।
सतां धर्मोऽपि भक्तिश्च नैःश्रेयसप्रदाः सदा ॥११६॥
इत्येवं राधिके श्रीमान् लोमशश्चाऽश्वपाटलम् ।
उपादिदेश बहुधा राजा पप्रच्छ तं पुनः ॥११७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलस्याऽक्षरगतिसाधनप्रश्नः, सन्यासाद् गार्हस्थ्याद्वा गतिप्रश्नः, सृष्टित्रयसर्गप्रश्नः, श्रेयःप्रश्नः,
लोमशकृतोत्तराणि चेतिनिरूपणनामा द्विपञ्चाशदधिकद्विशततमोऽध्यायः ॥२५२॥
N/A
References : N/A
Last Updated : May 02, 2021
TOP