संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः ६२

त्रेतायुगसन्तानः - अध्यायः ६२

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
राधिके ते नरा नार्यः द्वेशते वै श्रीलोमशम् ।
नत्वा सम्पूज्य भावेन कोट्यर्बुदाऽब्जकन्यकाः ॥१॥
कृष्णकान्ताश्च सम्पूज्य ययुर्वासालये शुभे ।
भेजुः श्रीमत्कृष्णनारायणं श्रीपुरुषोत्तमम् ॥२॥
कोटिकन्यापते कृष्णनारायण जगत्प्रभो ।
सर्वपते सदा पाहि निराधारान् त्वदाश्रितान् ॥३॥
इत्येवं तु मिलित्वैव भजनं ता व्यधुर्मुदा ।
कृष्णनारायण विष्णो बालकृष्ण प्रभापते ॥४॥
राधालक्ष्मीपते मञ्जूपते श्रीपार्वतीपते ।
एवं सतालधून्यं च चक्रुस्ते नौप्ररक्षिताः ॥५॥
चातुर्मास्यं तत्र चक्रुः कृष्णभक्तिसमन्विताः ।
अथोर्जकृष्णपक्षीयाऽष्टमी समागता तिथिः ॥६॥
इष्टदेवस्य प्राकट्योत्सवश्चाष्टमवर्षजः ।
देवैरीशैश्च मुनिभिः कृतः स्वर्गातिशोभितः ॥७॥
वीक्ष्य तं हर्षमापन्नाः पूजां चक्रुर्हरेस्तु ते ।
तदाश्चर्यं परं जातं राधिके शृणु वच्मि ते ॥८॥
राजाधिराजो भगवान् प्रातरेव प्रपूजितः ।
ददौ दानानि बहूनि स्वजन्माष्टमवर्षके ॥९॥
भोजयामास विप्राँश्च साधून् साध्वीश्च बालिकाः ।
बालान् कन्याश्च दीनाँश्चाऽनाथान् कुमारकाँस्तथा ॥१०॥
खञ्जान् काणाँश्च बधिरान् वृक्णानन्धान् जडाँस्तथा ।
विचित्तान् कुष्ठिनश्चापि देशेभ्यो तीर्थमागतान् ॥११॥
रोगिणो देहिनो वीक्ष्य दयालुर्भगवान् स्वयम् ।
प्राह खञ्जादिकान् व्यंगान् मध्याह्ने भोजनोत्तरम् ॥१२॥
आयान्तु व्यंगदेहाश्च रोगिणो दुःखिनस्तथा ।
आयान्तु चांगविकलाश्चेन्द्रियैर्विकला अपि ॥१३॥
अनादिश्रीकृष्णनारायणोऽहं मे जनूत्सवे ।
अपूर्वं सुखदं वोऽद्य ददामि पारितोषिकम् ॥१४॥
इत्युक्त्वा शर्कराद्रोणीं पार्श्वे कृत्वा तु कानके ।
गजासने निषसाद प्रदातुं शर्करास्ततः ॥१५॥
आययुः खञ्जलोकाश्च तेभ्यो दत्वा सुशर्कराः ।
खञ्जभागे हरिकृष्णः पस्पर्श वामपाणिना ॥१६॥
खाञ्ज्यं तेषा गतं तूर्णं बभवुः पूर्णपादिनः ।
अथ काणाः प्राययुश्च तेभ्यो दत्वा तु शर्कराः ॥१७॥
नेत्रे पस्पर्श वामेन पाणिनाऽऽन्धविमुक्तये ।
काणत्वमान्ध्यमाल्प्यं दृग्दोषा नष्टा द्रुतं तदा ॥१८॥
पूर्णरश्मिभराण्येव चक्षूंषि वर्तितानि वै ।
अथाऽऽययुर्बधिराश्च तेभ्यो दत्वा च शर्कराः ॥१९॥
कर्णे पस्पर्श हस्तेन समाजुहाव नामभिः ।
बाधिर्यं विगतं तेषां बभूवुः श्रुतिशक्तयः ॥२०॥
अथ वृक्णाः समायातास्तेभ्यो दत्वा च शर्कराम् ।
कुणिकासु प्रकोष्ठेषु चांगुलीषु नरायणः ॥२१॥
पस्पर्श पाणिना तेषां वृक्णत्वं व्यनुदत् क्षणात् ।
यथानिसर्गहस्तास्तेऽभवन् प्रसन्नमानसाः ॥२२॥
अथ जडा विचित्ताश्च समाययुश्च सन्निधौ ।
तेभ्यो दत्ता शर्करा च स्पृष्टा देहाः करेण वै ॥२३॥
मस्तकानि तथा स्पृष्ट्वा जाड्यं वैचित्यमित्यपि ।
वातरोगादिकं चापि वैनिद्र्यं नाशितं क्षणात् ॥२४॥
अथाऽऽययुश्च कन्याश्च कुष्ठिनश्च समाययुः ।
तेभ्यो दत्वा शर्कराश्च तथा च चरणामृतम् ॥२५॥
जलेन प्रोक्ष्य चांगानि रोगान् कुष्ठान् व्यनीनशत् ।
अथाऽऽययुश्च पक्षादिघातिनो भग्नदेहिनः ॥२६॥
तेभ्यो दत्वा शर्कराश्च पस्पर्श च करेण तान् ।
घातरोगं कृपया च नाशयामास तत्क्षणम् ॥२७॥
भग्नभागं च तूर्णं संरोहयामास योगतः ।
गलत्कुष्ठास्ततो लोकाश्चायाताः परमेश्वरम् ॥२८॥
हरिस्तेभ्यः प्रदायैव शर्करा जलसेचनम् ।
गलत्कुष्ठप्रदेशे च स्वयं चकार तेन वै ॥२९॥
गलद्भावो गतः सर्वः श्वैत्यं श्वैत्र्यं गतं क्षणात् ।
अरोगास्ते तु सञ्जाताः प्रसन्नाः पुण्यशालिनः ॥३०॥
अथ षण्ढास्तदा प्राहुर्बहुपापेन षण्ढता ।
जाताऽस्माकं कृपासिन्धो भवान् श्रीपुरुषोत्तमः ॥३१॥
कर्तुमकर्तुं चाऽन्यथाकर्तुं शक्तः प्रवर्तते ।
भगवद्योगमाप्तानां चेन्नोऽस्माकं सबीजता ॥३२॥
जायेत भगवँस्तर्हि को लाभस्तव दर्शनात् ।
श्रुत्वा तेभ्यः प्रदायैव शर्कराः श्रीहरिः स्वयम् ॥३३॥
अश्वपट्टसरस्येव स्नातुमाज्ञां ददौ ततः ।
सर्वे षण्ढा ययुस्तूर्णं सस्नुश्चाऽथ विनिर्ययुः ॥३४॥
नरप्रख्या नराः पुंस्त्वे नारीयोग्या बलान्विताः ।
नरचिह्ना नराः पूर्णाः सबीजा बभूवुस्तदा ॥३५॥
नारीप्रख्याः स्त्रियः स्त्रीत्वे नरयोग्या रजोऽन्विताः ।
नारीचिह्नाः स्त्रियः पूर्णा बभूवुश्च रजोभराः ॥३६॥
एवं वै कृपया कृष्णनारायणः स्वशक्तिभिः ।
षण्ढानि विदधे पुंसो योषितश्च सधातुकाः ॥३७॥
एवं दृष्ट्वा चमत्कारं परमाश्चर्यमागताः ।
यत्र स्नाताश्च तत् तीर्थं षण्ढोद्धारं समुच्यते ॥३८॥
अथ नार्यो नराः स्तोत्रं सर्वे चक्रुर्हरेस्तदा ।
प्रेमपूर्णहृदयाश्च स्थिरमानसवृत्तयः ॥३९॥
नमोऽस्तु ते परे धाम्नि राजते वै परात्मने ।
नमोऽसंख्यसतीसाध्वीसाधुमुक्ताभिशासिने ॥४०॥
नमोऽक्षराऽधिपतयेऽक्षरमुक्ताऽभिशासिने ।
नमो गोलोकवासाय गोपगोप्यभिशासिने ॥४१॥
गवां नाथाय कृष्णाय श्रीराधापतये नमः ।
नमो वैकुण्ठवासाय श्रीरमापतये नमः ॥४२॥
बहुवैकुण्ठनाथाय लक्ष्मीश्रीपतये नमः ।
श्रीप्रभामंजुलाहंसासगुणास्वामिने नमः ॥४३॥
वृन्दातुलसीकमलापार्वतीपतये नमः ।
नमस्तेऽस्तु जगन्नाथ वासुदेव नमोऽस्तु ते ॥४४॥
श्रीनिवास नमस्तेऽस्तु विश्वक्सेन नमोऽस्तु ते ।
गरुडध्वज गोपीश विष्णो वैकुण्ठ ते नमः ॥४५॥
पुरुषोत्तम देवेश सर्वेश्वर नमोऽस्तु ते ।
अनाद्याद्यन्तमध्यान्त नमस्ते पद्मजप्रिय ॥४६॥
सृष्टिगर्भ नमस्तुभ्यं शत्रुञ्जय नमोऽस्तु ते ।
नमो हिरण्यरूपाय कालनेत्राय ते नमः ॥४७॥
महानाभ महामूल मूलावास नमोऽस्तु ते ।
धर्मावास हृदावास शुचिश्रवः पृथुश्रवा ॥४८॥
धर्माध्यक्ष प्रजाध्यक्ष कालाध्यक्ष नमोऽस्तु ते ।
गदाधारिन् पद्मधारिन् श्रुतिप्रश्न नमोऽस्तुते ॥४९॥
श्रियोधर वनमालाधर कृष्ण नमोऽस्तुते ।
पुरुष्टत महाकल्प सर्वात्मँस्ते नमो विभो ॥५०॥
द्वादशात्मक कालात्मन् सामात्मन् परमेश्वर ।
व्योमार्कात्मक चन्द्रात्मन् सर्वसूक्ष्म नमोऽस्तु ते ॥५१॥
नीलकेश गुडाकेश महाकेश नमोऽस्तु ते ।
मञ्जुकेश हृषीकेश सर्वकेश नमोऽस्तु ते ॥५२॥
श्वेत रक्त तथा पीत चित्र कृष्ण नमोऽस्तु ते ।
कुशेशय प्रीतिकर्तर्गोविन्द हंस ते नमः ॥५३॥
नमस्ते धर्मनेत्राय सहस्रांगाय ते नमः ।
नमस्ते विश्वरूपाय धामरूपाय ते नमः ॥५४॥
न्यग्रोधाय पिप्पलाय महाशाखाय ते नमः ।
स्कन्धपत्रांकुरलतापल्लवाय नमोऽस्तु ते ॥५५॥
त्वं वै वेदमयो विष्णुस्तीर्थदेवमती विभुः ।
भूर्भुवःस्वःस्वरूपस्त्वं यज्ञभागभुजे नमः ॥५६॥
परब्रह्म नमस्तेऽस्तु शब्दब्रह्म नमोऽस्तु ते ।
विद्या त्वं वेद्यरूपस्त्वं वन्दनीय नमोऽस्तु ते ॥५७॥
नारीवाणीस्वरूपस्त्वं नरे दयास्वरूपकः ।
पुत्रे वात्सल्यभावस्त्वं त्वां वयं शरणं गताः ॥५८॥
उद्धारं कुरु संसाराद् भगवन् परमेश्वर ।
इत्युक्त्वा मौनमासेदुस्ततश्चार्यायनो मुनिः ॥५९॥
तुष्टाव परया प्रीत्या श्रीकान्तं पुरुषोत्तमम् ।
मत्स्यं नमस्ये कूर्मं च नमस्ये हयशीर्षकम् ॥६०॥
त्रिविक्रमं नमस्ये च नमस्ये माधवं प्रभुम् ।
ईशानं च हृषीकेशं नमस्ये च कुमारिलम् ॥६१॥
नारायणं नमस्येऽहं नमस्ये गरुडध्वजम् ।
नरसिंहं नमस्ये च नमस्ये कामपालिनम् ॥६२॥
पुण्डरीकनिभनेत्रं नमस्ये श्रीनरायणम् ।
नमस्ये ध्वजचक्राऽब्जधनुर्मीनसुशूलिनम् ॥६३॥
गोपतिं कम्भरापुत्रं विभुं गोपालनन्दनम् ।
नमस्ये च गदापाणिं चाश्वपट्टसरःस्थितम् ॥६४॥
अर्धनारीश्वरं नाथं नारीवृन्दसुखप्रदम् ।
नमस्ये पद्महस्तं च पद्मसक्थिनमित्यपि ॥६५॥
नमस्ये पद्मकिरणं तथोर्ध्वरेखपत्तलम् ।
लक्ष्मीप्रतिमजघनं नमस्ये वनमालिनम् ॥६६॥
नमस्ये धरणिनाथं नमस्येऽहं श्रियः पतिम् ।
अनाथनाथ नौकास्थ विमानस्थ च ते नमः ॥६७॥
हृत्स्थ भक्तविहारस्थ दीनरक्षास्थ ते नमः ।
त्रिणाचिकेतं ब्रह्माणं नमस्ये च महौजसम् ॥६८॥
सर्वामयविनाशं च नमस्ये घ्राणतर्पणम् ।
नमस्ये रुक्मकवचं नमस्ये पुरुषोत्तमम् ॥६९॥
वनस्पतिं मधुपतिं नमस्ये च सुधापतिम् ।
वासुदेवं चक्रपाणिं नमस्ये च यशोधनम् ॥७०॥
सर्वभूतगतं शान्तं धर्ममूर्तिं परेश्वरम् ।
नमस्ये मोक्षदं नाथं शरण्यं शरणं व्रजे ॥७१॥
एवं तुष्टाव देवेशं श्रीमान् आर्यायनो मुनिः ।
ततः पूजापरिहारं चक्रुः सायं सुरा नराः ॥७२॥
आर्यायनो मुनिस्तत्र समुवाच तटे सदा ।
नावा चोत्तरिता ये च नरा नार्यश्च ते हरिम् ॥७३॥
प्रार्थयामासुरत्यर्थं निजदेशान् विलोकितुम् ।
कार्तिकान्ते हरिस्तत्र सस्मार यानमुत्तमम् ॥७४॥
दिव्यं दिव्यगुणोपेतं विमानं तत्र चागतम् ।
निषाद्य तत्र सर्वांस्तान् व्योम्ना क्षणेन वेगतः ॥७५॥
प्रापयामास भगवान् धीरवीरसरोवरम् ।
अरवल्लीशैलभूमौ यत्र यत्र च जन्मभूः ॥७६॥
तत्र तत्र प्रापितास्ते नरा नार्यः सुखात्तदा ।
स्वस्वगृहं गताः सर्वे कुटुम्बं जगदुर्वृत्तम् ॥७७॥
साश्चर्यास्ते हरिं भेजुरनादिश्रीनरायणम् ।
अथ श्रीभगवाँस्तूर्णं तिरोऽभवत् सयानकः ॥७८॥
समाययौ चाश्वपट्टसरो नैजालयं शुभम् ।
उदयाख्यश्च राजर्षिरश्वपट्टसरोवरे ।७९॥
जपयज्ञं चकारैव हरेर्नामपरायणः ।
अनादिश्रीकृष्णनारायणं प्राह हृदा पुनः ॥८०॥
मोक्षं देहि कृपासिन्धो शाश्वतं पदमाप्नुयाम् ।
तथाऽस्त्विति हरिः प्राह राजा ध्यानं चकार ह ॥८१॥
लीननाडीप्राणवेगः शनैः प्राणान् जहौ तदा ।
दिव्यमुक्तो बभूवाऽथ विमानेन सुवर्चसा ॥८२॥
ययौ श्रीमत्परं धाम सच्चिदानन्दलक्षणम् ।
एवं श्रीमत्कृष्णनारायणस्तानुद्धधार ह ॥८३॥
खञ्जबधिरकाणाद्या ये ये जाताः सुदेहिनः ।
ते ते गत्वा निजं देशं गृहं सुखेन संस्थिताः ॥८४॥
तान् दृष्ट्वाऽऽश्चर्यमापन्नाः प्रजा जनाश्च दर्शकाः ।
प्रतापं परमं मत्वा भेजिरे पुरुषोत्तमम् ॥८५॥
कृष्णनारायण विष्णो परब्रह्म श्रियः पते ।
इत्येवं भजनं चक्रुः स्वामिन् रक्षय सर्वदा ॥८६॥
श्रीहरिस्तान् दूरगांश्च स्वप्ने स्वं समदर्शयत् ।
किशोरं सुन्दरं रूपं ददृशुस्तेऽतिभासुरम् ॥८७॥
तत्र लीनाः क्षणमात्रं चाऽभवँस्ते ततः पुनः ।
प्रबुद्धाः सस्मरुर्नारायणं गोपालबालकम् ॥८८॥
आययुर्दर्शनार्थं च कुंकुमवापिकालयम् ।
सहस्रशो नरा नार्यः समाजग्मुः समन्ततः ॥८९॥
ददृशुर्यादृशं दृष्टं स्वप्ने रूपं तु तादृशम् ।
अर्चयामासुरत्यर्थं सर्वभावेन श्रीपतिम् ॥९०॥
तीर्थं विधाय बहुधा प्राप्य मन्त्रं च लोमशात् ।
ययुर्नैजान् प्रदेशांश्च वैष्णवा भगवत्प्रियाः ॥९१॥
चातुर्मास्यव्रतिनो ये तत्राऽऽयान्ति सरोवरम् ।
स्नातुं तेभ्यो हरिः साक्षाद् दर्शनं स्वं ददाति वै ॥९२॥
वृद्धान् पूर्णायुषो दिव्यान् कृत्वा विमानसंस्थितान् ।
प्रहिणोति निजं धामाऽक्षरं च परमं पदम् ॥९३॥
एवं वै राधिके कृष्णनारायणेन रक्षिताः ।
प्रापिताश्च निजान् देशान् जलमग्नोद्धृता जनाः ॥९४॥
निरुग्णाश्च कृताः पुष्टदेहाः षण्डाः सवीर्यकाः ।
प्रतापश्चातुलश्चैवं ख्यापितः पृथिवीतले ॥९५॥
कीर्तनात् स्मरणादस्य चमत्कारस्य शंसनात् ।
श्रवणादपि दुःखानि भवन्ति विगतानि वै ॥९६॥
रोगा नश्यन्ति शीघ्रं च नश्यन्त्यपि महापदः ।
आपत्कालाः प्रणश्यन्ति सदा कृष्णकथाश्रवात् ॥९७॥
स्तोत्राणां वाचनाद् राधे रक्षा भवति सर्वथा ।
तीर्थस्य करणाद् राधे चाभीष्टं प्राप्यते जनैः ॥९८॥
अनिष्टं लीयते सर्वं सौभाग्यं च विवर्धते ।
धनधान्यप्रजापुत्रपरीवारादिमान् भवेत् ॥९९॥
भुक्तिं प्राप्याऽत्र च स्वर्गे ततो मोक्षे महीयते ।
परब्रह्मणो भक्तस्य कर्तव्यं नाऽवशिष्यते ॥१००॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने जलोद्धृतजनैः कृता स्तुतिः, रुग्णव्यंगादीनामष्टमवत्सरोत्सवे स्वास्थ्यकरणम्, तत्कृतस्तवनम्, आर्यायनकृतस्तोत्रम्, जलोद्धृतानां स्वदेशप्रापणम्, उदयननृपस्य मोक्षश्चेतिनिरूपणनामा द्वाषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : May 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP