संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|त्रेतायुगसन्तानः|
अध्यायः २०४

त्रेतायुगसन्तानः - अध्यायः २०४

लक्ष्मीनारायणसंहिता


श्रीकृष्ण उवाच-
आययू राधिके मुक्ताः परमाक्षरधामिनः ।
मुक्तान्यश्चाययुस्तत्र दिव्यविमानसंस्थिताः ॥१॥
कृतं श्रीहरिणा तेषां स्वागतं बहुशोभनम् ।
धामेश्वरा अवताराश्चाययुः शक्तिशोभिताः ॥२॥
अहं राधे त्वया साकं गोपगोपीगणान्वितः ।
अगमं दिव्यपत्नीभिः साकं विमानमाश्रितः ॥३॥
वैकुण्ठाच्छ्रीपतिर्नारायणोऽपि तत्र चाययौ ।
सर्वपार्षदयुक्तश्च रमाभिः सहितस्तदा ॥४॥
वासुदेवादयो व्यूहाश्चाययुस्तत्र चाध्वरे ।
अवतारास्तथा सर्वेऽप्यायुः शक्तिसेविताः ॥५॥
सन्मानं स्वागतं श्रीमद्बालकृष्णः स्वयं व्यधात् ।
महाविष्णुस्तथा भूमा विराडपि हिरण्मयः ॥६॥
अष्टावरणसंस्थाश्चेश्वरा मायागता अपि ।
शिवलोकगताश्चापि तत्राययुस्तदंशकाः ॥७॥
श्रीहरिः स्वयमेवैषां स्वागतं मानमाचरत् ।
ईशसृष्टिसमस्तानां ब्रह्मसृष्टिनिवासिनाम् ॥८॥
चिदानन्दाम्बरे क्लृप्ते नगरे च निवासनम् ।
प्रददौ श्रीबालकृष्णोऽवतारी पुरुषोत्तमः ॥९॥
ब्रह्मणः सत्यलोकस्थास्तथान्यलोकवासिनः ।
ऋषयः पितरः सिद्धाश्चाययुस्तत्र वै मखे ॥१०॥
देवा देवेश्वराश्चाशापाला लोकप्रपालिनः ।
आययुश्च विमानैरध्वरे भुवर्निवासिनः ॥११॥
मेरोः समाययुश्चाप्यन्तरीक्षाद् ग्रहतारकाः ।
नक्षत्राणि सुराद्याश्च वसवो रुद्रकोटयः ॥१२॥
आदित्या अश्विनौ धर्मराजस्तथाऽपरे सुराः ।
आययुश्चाध्वरे नैजकुटुम्बपरिशोभितः ॥१३॥
कैलासस्य गणा गण्यो योगिन्यश्चण्डिकास्तथा ।
भैरवा भूतदेहाश्च शांकरास्ते समाययुः ॥१४॥
एतेभ्यो देवकोटिभ्यो योग्याऽऽवासान् ददौ हरिः ।
सुस्वागतं सुसम्मानं चक्रुर्ब्रह्माऽजविष्णवः ॥१५॥
लोमशाद्याः ऋषयश्च चक्रुः सम्माननं बहु ।
वालखिल्यमहर्षीणां मुनीनां चोर्ध्वरेतसाम् ॥१६॥
साध्वीनां च सतां सांख्ययोगिनीनां सुमाननम् ।
लक्ष्म्याद्याश्चक्रुरत्यर्थं निवासान् प्रददुः सुखान् ॥१७॥
सूतमागधबन्द्याद्या विद्याध्राः किन्नरादयः ।
किम्पुंसश्चापि गन्धर्वाश्चारणा भाटजातयः ॥१८॥
आययुः कथकाश्चापि रञ्जका मल्लयोधिनः ।
रूपकाश्चाययुश्चापि नरा नृत्यकरास्तथा ॥१९॥
सर्ववर्णाः सर्वदेशनिवासास्तत्र चाययुः ।
सौराष्ट्रीया मानवाश्च दक्षिणापथवर्तिनः ॥२०॥
उष्ट्रालयजनाश्चापि ब्रह्मभूमिजना अपि ।
शिवराज्यस्थिताश्चापि प्राचीनराज्यवासिनः ॥२१॥
राशियाननिवासाश्च केतुमालनिवासिनः ।
अब्रिक्तस्थास्तथा लोका आरक्तदेशवासिनः ॥२२॥
आरार्त्रिकगुहावासाश्चामरीदेशवासिनः ।
हारिताश्च तथाऽऽरण्यवासाः पर्वतवासिनः ॥२३॥
जलस्थाश्च स्थलस्थाश्च व्योमस्थाः प्रसमाययुः ।
तेभ्यो ददुर्निवासाँश्चाऽकुर्वन् मानं हरादयः ॥२४॥
वृक्षा वल्ल्यस्तृणस्तम्बाः कन्दमूलादयस्तथा ।
आययुः कणजाताश्चोद्भिज्जा दिव्यशरीरिणः ॥२५॥
पशवः पक्षिणश्चापि हंसगरुडजातिकाः ।
अन्येऽपि जन्तवस्तत्राययुर्दिव्यशरीरिणः ॥२६॥
तेषां निवासान् प्रददुश्चक्रुर्मानं हरादयः ।
काश्यप्यश्च प्रजाः सर्वाः सर्वाऽतलादिवासिनः ॥२७॥
सर्पाश्च नागा नागेन्द्रा वाहनानि समाययुः ।
दैत्याश्च दानवा रौद्रा राक्षसाश्च समाययुः ॥२८॥
तेषां ददुनिवासाँश्च दक्षिणे सरसस्तथा ।
सम्मानं शंकरश्चक्रे यथायोग्यं सती तथा ॥२९॥
नरनारायणाद्याश्च शेषनारायणादयः ।
अवतारास्तथा चान्ये तत्राययुर्महाध्वरे ॥३०॥
अनादिश्रीकृष्णनारायणस्तेषां समुत्सुकः ।
सम्मानं स्वागतं चक्रे निवासान् प्रददौ शुभान् ॥३१॥
नद्यो नदाः समुद्राश्च तत्त्वानि त्वाययुस्तदा ।
तीर्थानि विप्रवर्याश्च दिव्यदेहाः महर्षयः ॥३२॥
मेघा विद्युद्विलसिताश्चाययुस्तत्र चाध्वरे ।
यथायोग्यं स्वागतं च तेषां ब्रह्मा तदाऽकरोत् ॥३३॥
कालः क्षणा मुहूर्तानि दिवसाः पक्षवत्सराः ।
युगा मासाश्चाययुश्च स्वागतं शंकरो व्यधात् ॥३४॥
शिल्पिनः कोटिलोकस्थाश्चाययुस्तत्र चाध्वरे ।
विश्वकर्मा सुसम्मानं व्यधाद् वासान् ददौ तदा ॥३५॥
सर्वेषां बहुधामानं वासुदेवो नरायणः ।
यथायोग्यं प्रचक्रे वै सर्वदानादिभिस्तदा ॥३६॥
राधिके तत्र वासेषु सर्वं सम्पूर्णमस्ति वै ।
प्रदीपाः पानपात्राणि भक्ष्यभोज्यानि यानि च ॥३७॥
मिष्टान्नानि च पेयानि लेह्यानि सन्ति तत्र च ।
चोष्याणि चासनादीनि शय्या योग्याः सुकोमलाः ॥३८॥
दासा दास्यो दुग्धकुण्डा अमृतानां सरिद्वराः ।
उद्यानानां सुदृश्यानि भृत्या दास्यश्च सेवकाः ॥३९॥
कर्मचारा निदेशस्थाः सर्वावासेषु निर्मिताः ।
बालकृष्णेन संकल्पात् कोटिशोऽनन्तसेवकाः ॥४०॥
दूरश्रवणयन्त्राणि दूरदर्शनकानि च ।
वैहायसानि यानानि सर्वस्पर्शादिसिद्धिकाः ॥४१॥
घृतकुल्याः पयःकुल्याः शर्करापर्वतास्तथा ।
तत्राऽऽसन् सर्वतः क्लृता महीमानादितुष्टये ॥४२॥
राधिके किं वर्णयेऽहं स्वर्णभूषादिपर्वताः ।
अम्बराणां तथा शैलाः कृताः श्रीपरमात्मना ॥४३॥
अलक्तानां सुगन्धानां द्रोण्यस्तत्र तदा कृताः ।
सर्वशृंगारवस्तूनां तत्राऽऽसन् पर्वताः पराः ॥४४॥
दीर्घिकाश्च तथाऽऽसँश्च रसानां च सरांसि वै ।
द्रवाणां तु नदाश्चासन् भुक्तये तु मखार्थिनाम् ॥४५॥
यादृश्यश्चाऽक्षरे सन्ति गोलोके च विकुण्ठके ।
कैलासके श्वेतभूमौ तादृश्यः स्मृद्धयोऽभवन् ॥४६॥
विसस्मरुर्महीमानाः सर्वसृष्टिनिवासिनः ।
निजां निजां समृद्धिं चाधिकां प्राप्य हरेर्मखे ॥४७॥
आप्रातश्चैवमेवैवं स्वागतं समभूत् खलु ।
भोजनं सेवनं पानं शय्यादानं निवासनम् ॥४८॥
दासदासीप्रदानं च सर्वं पूर्णमभूत् तदा ।
महीमानाः प्रसन्नाश्च जहुः परिश्रमं तदा ॥४९॥
सुखावासान् परान् प्राप्याऽऽधिक्येन सुखिनोऽभवन् ।
रात्रौ स्थले स्थले तत्र मनोरञ्जनशालिकाः ॥५०॥
अभवन्नर्तनादीनां कथानां योधिनां तथा ।
रूपप्रदर्शनानां च हास्यानां गीतिकारिणाम् ॥५१॥
आख्यानानां च नाट्यानां रञ्जनान्यभवन्निशि ।
प्रातर्जातं त्वेवमेव सप्तम्याः शोभनं प्रियम् ॥५२॥
राधिके श्रीबालकृष्णः स्नानं चक्रे प्रबोधितः ।
कृतपूजावन्दनश्चाऽऽजुहाव लोमशं मुनिम् ॥५३॥
ऋषिं चाज्ञापयामास कृताभिवन्दनं गुरुम् ।
यज्ञकार्ये समाधेहि सर्वद्रष्टारमुत्तमम् ॥५४॥
लोमशश्चाह कृष्णं तं तव शिष्यं महामुनिम् ।
वेदशास्त्रनिधानं च कर्मकाण्डातिगोचरम् ॥५५॥
त्रिकालज्ञं च मन्त्रज्ञं समाधिसिद्धिशालिनम् ।
सर्वैश्वर्ययुतं कृष्णांशं परेश्वरयोगिनम् ॥५६॥
समर्थं नैष्ठिकवर्यं नैकभवनशक्तिकम् ।
स्वयंप्रकाशनामानं सर्वद्रष्टारमुत्तमम् ॥५७॥
विधेहि त्वध्वरे चात्र सर्वत्रगतिशालिनम् ।
शान्तं गुणनिधिं योग्यं द्रष्टारं तं सुयोजय ॥५८॥
विष्णुर्ब्रह्मा हरश्चापि बृहस्पतिः कुमारकः ।
गणेशश्चापि योग्यं तं चान्वमोदन्त वैं तदा ॥५९॥
भारद्वाजो वशिष्ठश्च भृगुर्वैश्वानरस्तथा ।
विश्वेदेवा मरुतश्चाऽप्यन्वमोदन्त तं तथा ॥६०॥
स्वयंप्रकाशो भगवान् सार्वज्ञ्यस्य महानिधिः ।
गुरोर्वाक्यं हरेर्वाक्यं सर्वद्रष्टृत्वधायकम् ॥६१॥
स्वीचकार विनीतः संस्ततः श्रीकृष्णवल्लभः ।
कण्ठहारं ददौ तस्मै शिरस्त्राणं तदर्थकम् ॥६२॥
कञ्चुकं स्वर्णताराढ्यं वस्त्रं कौशेयकं ददौ ।
धौत्रं तथाविधं चापि सर्वद्रष्टृत्वबोधकम् ॥६३॥
आसनं चोत्तमं तत्र मण्डपे तत्कृते महत् ।
न्यधापयत्ततस्तं चाप्रेषयद् यज्ञमण्डपम् ॥६४॥
गुर्वासनं लोमशाय दत्तवान् भगवान् स्वयम् ।
सच्चिदानन्दरूपाय लालायनाय माधवः ॥६५॥
बालकृष्णो ददौ प्रतिनिधित्वं स्वस्य वै तदा ।
यजमानस्तदा राजा रायकिन्नरको मतः ॥६६॥
सतीदेवीमहाराज्ञीयुतो मण्डपमाययौ ।
अवाद्यन्त समस्तानि तूर्याणि मंगलक्षणे ॥६७॥
आययुः सर्वतो यज्ञभूमौ तदधिकारिणः ।
भूदेवाः स्वर्गदेवाश्च सत्यदेवाः समाययुः ॥६८॥
ईशदेवा देवदेवा देवाः सर्वे समाययुः ।
मुक्तास्तथाऽवताराश्चेश्वराः पत्नीसमायुताः ॥६९॥
ऋषयः पितरो देवा मानवाः स्त्रीसमायुताः ।
गुरवः सर्वलोकानां व्यासा व्यासतरास्तथा ॥७०॥
वेदाः ऋचश्च सामानि पूज्यात्मानः समाययुः ।
वयोवृद्धा ज्ञानवृद्धाः कर्मठाश्च समाययुः ॥७१॥
स्वरवृद्धा भूतिवृद्धा गुणवृद्धाः समाययुः ।
धनवृद्धा धर्मवृद्धा लोकवृद्धाः समाययुः ॥७२॥
योगवृद्धास्तपोवृद्धाः स्थानवृद्धाः समाययुः ।
गीतिवृद्धा वेदवृद्धा वृद्धवृद्धाः समाययुः ॥७३॥
सत्तावृद्धाश्चाययुश्च राजानोऽपि समाययुः ।
जापकाः कर्मचाराश्च होमका दानकास्तथा ॥७४॥
द्वारपा मण्डपरक्षा मुख्या गौणाः समाययुः ।
द्रव्यहारा हव्यहारा समिद्धा्राः समाययुः ॥७५॥
निशानिर्मितकुण्डाश्च रङ्गवल्लीप्रपूरकाः ।
ध्वजापताकाधर्तारस्तत्र सर्वे समाययुः ॥७६॥
जलादानप्रकर्तारः पात्रसंचयकारिणः ।
वस्तुहाराः फलपुष्पहारास्तत्र समाययुः ॥७७॥
रसहारा गव्यहारा मिष्टहाराः समाययुः ।
वादित्रेष्वतिगर्जत्सु निनादिते दिगम्बरे ॥७८॥
सर्वे मण्डपभूमिं वै द्रष्टुं चाययुरुत्सुकाः ।
व्योम्नि व्योमविहर्तारोऽन्तरीक्षेऽन्तरयोगिनः ॥७९॥
वायुस्तरे भुवर्वासः समागत्य स्थितास्तदा ।
द्युवासाश्च प्रकाशेषु वैमानिका विमानके ॥८०॥
आगत्य तु स्थिताः सर्वे मण्डपाभिमुखास्तदा ।
सत्यः साध्व्यश्च गौर्यश्च ब्रह्मप्रियाश्च हारिताः ॥८१॥
अमर्यः कन्यकाश्चापि देव्यः सर्वाः समागताः ।
देवपत्न्यः कृतवेषाश्चित्रशृंगारशोभिताः ॥८२॥
पूर्णानन्दभराः सर्वा यज्ञमण्डपमाययुः ।
ईश्वराण्यश्च मुक्तान्यः सांख्ययोगिन्य इत्यपि ॥८३॥
मानव्यो मातरश्चापि योगिन्यश्च समाययुः ।
यतिन्यश्च ब्रह्मपत्न्यो ब्राह्मण्यश्च समाययुः ॥८४॥
वास्तुदेवाः कुण्डदेवाः शाखादेवाः समाययुः ।
द्वारदेवास्तोरणादिसुरा मण्डपदेवताः ॥८५॥
स्तंभदेवा ध्वजदेवा यूपदेवाः समाययुः ।
त्रयस्त्रिंशत्प्रदेवाश्च पञ्चायतनदेवताः ॥८६॥
श्रुत्वा वादित्रनिनदान् यज्ञमण्डपमाययुः ।
नृपा दश सयोषाश्च बहुरत्नसमन्विताः ॥८७॥
यजमानस्वरूपास्ते यज्ञमण्डपमाययुः ।
पृथ्व्यादिभूततत्त्वानि शब्दाद्या विषयास्तथा ॥८८॥
वह्नयो मूर्तिमन्तश्च यज्ञमण्डपमाययुः ।
कुण्डा बहुविधाश्चापि वेदिका मुख्यवेदिकाः ॥८९॥
स्थण्डिलाः पालिकाश्चापि मूर्तिमन्तः समाययुः ।
स्रुक्स्रुवाद्यानि पात्राणि पत्राणि कुशदेवताः ॥९०॥
समिधः कणजातानि हव्यान्यपि समाययुः ।
चरवश्च पवित्राणि मूर्तानि तत्र चाययुः ॥९१॥
शुद्धयश्चापि गव्यानि सप्तमृदः समाययुः ।
आसनान्युपकरणान्यपि मूर्तानि चाययुः ॥९२॥
अथ ज्योतिःपूरुषश्च मूर्तिमान् दिव्यरूपधृक् ।
पटहेन दिशः सर्वा नादयन् समुपाययौ ॥९३॥
स्वर्णयूपपूरुषश्च मूर्तिमाँस्तत्र चाययौ ।
तीर्थानि सर्वरूपाणि मूर्तिमन्ति समाययुः ॥९४॥
स्वस्तयः श्राद्धपुरुषास्तृप्तयस्तत्र चाययुः ।
अपूर्वाणि समस्तानि परमापूर्वलब्धये ॥९५॥
मध्यापूर्वत्रिकापूर्वायुतानि तत्र चाययुः ।
काण्डिका विधयः सर्वे क्रमास्तत्र समाययुः ॥९६॥
होतव्यानि समस्तानि मूर्तिमन्ति समाययुः ।
प्रजाः प्रजेश्वराश्चाप्याबालवृद्धयुवादिकाः ॥९७॥
नरा नार्यश्चाययुर्वै वाद्यघोषैः क्रतुस्थलीम् ।
संस्कृतां शोभया युक्तां द्युभासां त्वक्षरीकृताम् ॥९८॥
युगलैश्चायुगलैश्च संभृतां नवजीवनीम् ।
मण्डपै राजितां यज्ञपत्तनैरतिगर्विताम् ॥९९॥
सर्वसृष्ट्याधिवासैश्चाश्रितां श्रेष्टतमां महीम् ।
सार्वभौमीं धामतुल्यां धामिनीं पारमेश्वरीम् ॥१००॥
राधिके कर्मणां प्रारंभस्योत्तमं मुहूर्तकम् ।
उपस्थितं तदा नादाः शंखानामभवन् शुभाः ॥१०१॥
तूपशब्दा अभवँश्च विद्युद्वंशनिनादकाः ।
सूचकाः कर्मकाण्डस्यारम्भस्यैव तदाऽभवन् ॥१०२॥
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
आययौ मण्डपं शीघ्रं जयनादप्रवर्धितः ॥१०३॥
निषसादाऽऽसने दिव्ये मण्डपे कुण्डसन्निधौ ।
नृपाश्चागत्य कुण्डानां न्यषीदन् सन्निधौ तदा ॥१०४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सर्वेषामागन्तुकानां स्वागतमावासनं चोपकरणसंक्लृप्तिः स्वयंप्रकाशस्य हर्यवतारस्य मखे सर्वद्रष्टृत्वविधानं, मंगलवाद्यघोषाः, सर्वेषां देवीदेवादीनां यज्ञमण्डपागमनं चेत्यादिनिरूपणनामा चतुरधिकद्विशततमोऽध्यायः ॥२०४॥

N/A

References : N/A
Last Updated : May 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP