संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३०९

कृतयुगसन्तानः - अध्यायः ३०९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच--
शृणु लक्ष्मि! कथां दिव्यां प्राक्सम्पन्नां मनोहराम् ।
अस्मात्तु ब्रह्मणः पूर्वो ब्रह्मा वर्षशतोत्तरम् ॥१॥
निधनोन्मुखतां प्राप्तस्तदानीं ब्रह्मगोलके ।
अन्तिमेऽजक्षणे राजा पृथ्व्यां सर्वहुताभिधः ॥२॥
बभूव भगवद्भक्तो मम पूजापरायणः ।
मदर्थे कृतसर्वस्वो मदर्थे न्यस्तमानसः ॥३॥
मम कण्ठीं मम मालां ममैव तिलकं शुभम् ।
दधार बुभुजे चान्नं मे प्रसादात्मपावनम् ॥४॥
चातुर्मास्ये व्रतं तेन गृहीतं बहुदायिता ।
सप्तद्वीपेषु खण्डेषु सामुद्रद्वीपभूमिषु ॥५॥
यत्र यत्राऽभवत् स्वस्य राज्यं सर्वत्र तत्र च ।
ममान्नं वै प्रदातव्यं जलं पातव्यमेव मे ॥६॥
यावत्तृप्तिर्भिक्षुवर्गैरदनीयं ममैव ह ।
ब्राह्मणैर्मम भोक्तव्यं क्षत्रियर्षिभिरित्यपि ॥७॥
वैश्यर्षिभिस्तथा शूद्रैर्भक्तिकृद्भिर्ममान्नकम् ।
भोक्तव्यं सर्वथा ब्रह्मचारिभिर्वनवासिभिः ॥८॥
यतिभिः साधुभिस्त्यागिजनैः साध्वीभिरित्यपि ।
अनाथैश्चातिथिप्रख्यैर्याज्ञिकैर्देवपूजकैः ॥९॥
अन्नार्थिभिः कदर्यैश्च किंकरैर्वृत्तिवर्जितैः ।
ममान्नमेव भोक्तव्यं जलं पातव्यमेव मे ॥१०॥
वस्त्राणि मम धार्याणि नान्यग्राह्यं तु कैरपि ।
तदर्थं च मया राज्ये प्रतिस्थलं क्षणे क्षणे ॥११॥
अन्नसत्राणि वस्त्राणि प्रपावारीणि सर्वथा।
संस्थापितानि सेवास्था नियुक्ताश्च प्रतिस्थलम् ॥१२॥
क्षुधितोऽन्नस्य पात्रं स्यात् तृषितो जलपात्रकम् ।
नग्नस्त्वम्बरपात्रं स्याद् ग्राह्यं तेन मुदा मम ॥१३॥
कदर्ये हृदयं यस्य यस्य तृष्णाऽस्ति मानसे ।
सोऽपि तृष्णादिनाशार्थं गृह्णात्वन्नं जलं मम ॥१४॥
इत्येवं घोषितं तेन कुड्यफलकलेखितम् ।
चातुर्मास्ये ममान्नं वै फलं वारि तथाऽम्बरम् ॥१५॥
ग्रहणीयं पुष्कलं नाऽन्यग्राह्यं धर्मभिक्षुकैः ।
इत्येवं वर्तमानस्य सर्वहुतस्य भूभृतः ॥१६॥
अग्निहोत्रेऽन्ययज्ञे च यत्किञ्चिद्धामिकं मतम् ।
देवानां पूजने वस्तुप्रदानं चापि तस्य वै ॥१७॥
विद्यार्थिनां च विद्याया दाने व्ययो गवां तृणे ।
श्वप्रभृतिग्राम्यपशुपक्षिणां च कणान्नकम् ॥१८॥
जलं वस्त्रं तथा चान्यद् यथापेक्षं सुवस्तुकम् ।
आसीत् सर्वहुतस्यैवाऽतिथीनां तृप्तिकृत्तथा ॥१९॥
ग्रामेषु खेटेषु जनस्थलेषु क्षेत्रेषु घोषेषु नदीतटेषु ।
वनेष्वरण्येषु च पर्वतेषु द्वीपेषु वार्धौ रणनिर्जनेषु ॥२०॥
उपत्यकायां नगरेषु राज्यविश्रान्तिभूमौ च करस्थलीषु ।
सर्वत्र वै सर्वहुतस्य राज्ञोऽभवन् सुसत्राणि सुदानकानि ॥२१॥
ग्रामान्तराणां युगमार्गसन्धौ वनान्तराणां सृतिमूलयोगे ।
नदीनदानां तरणार्थभूमौ कृतानि सत्राणि तु तेन राज्ञा ॥२२॥
सीमान्तरेषु प्रखनिस्थलेषु यानस्य मार्गेषु दिगन्तरेषु ।
तीर्थेषु यात्रालुगतागतेषु स्थलेषु सत्राणि हुतस्य राज्ञः ॥२३॥
देवानां पूजने नाम प्रोच्यते सर्वतो दिशि ।
प्रातः सायं च मध्याह्ने तस्य सर्वहुतस्य वै ॥२४॥
सत्ये तपसि तस्यैव जने महरि स्वर्गके ।
भुवि चाप्यथ पातालेष्वस्य कीर्तिर्हि गीयते ॥२५॥
देवाश्च ऋषयश्चापि दैत्याश्चान्येऽपि देहिनः ।
सर्वहुतं लोकितुं वै ययुर्हंसादिरूपिणः ॥२६॥
आश्चर्यं परमं प्रापुर्दृष्ट्वा पुण्योज्ज्वलं नृपम् ।
अतितेजोमण्डलाढ्यमुखमण्डलशोभितम् ॥२७॥
दूरे चातिप्रतेजस्काः सर्वे शुशुभिरे सुराः ।
किन्तु तन्निकटे गत्वा निस्तेजस्का बभूविरे ॥२८॥
 इति पुण्यप्रतापोऽसौ सर्वहुताऽर्थसार्थकः ।
अग्निप्रख्योऽभवद्भक्तो देवगर्वहरो नृपः ॥२९॥
 देवैः सम्मानितः सर्वैरिन्द्रार्धासनयोजितः ।
दिक्पालैः पूजितः सोऽपि विस्मयं नाप वै मनाक् ॥३०॥
रागशून्यस्य तस्यैव पत्न्यासीत् पतिसेविनी।
औदार्यगुणसम्पन्ना नाम्ना वै गोऋतम्भरा ॥३१॥
देवीभ्योऽप्यतिरूपाढ्या कायाकल्पातिसुन्दरी ।
कामरूपा कामभोगा कामकाराऽतिसात्त्विकी ॥३२॥
देवीषु तिष्ठते पश्चाद् देवदेवीसमाजके ।
सलज्जाऽवाङ्मुखी तत्र भवति क्षणमान्तरे ॥३३॥
तया स्वस्वामिने प्रोक्तं मया पश्चान्निषद्यते ।
यथापूर्वं तूत्तमे ह्यासने तिष्ठामि तत्कुरु ॥३४॥
इन्द्राणी वारुणी सौर्या चान्द्रद्यो वाऽन्यसुरस्त्रियः ।
प्रणमेयुश्च मां स्वामिन् यथा तत्कुरु भूपते ॥३५॥
राजा प्राह सतीं राज्ञीं मानुषी भवसि प्रिये ।
तत्रापि देवसंघेऽस्मद्वासोऽस्त्यतिमहत्तमः ॥३६॥
मा तृष्णां कुरु कल्याणि मानुषे तु न तद्भवेत् ।
तथापि पुण्यबाहुल्ये कदाचित् तद्विभाव्यते ॥३७॥
करिष्ये स्तवनं यत्नं नारायणसमीपतः ।
प्राप्ते योगे तथा स्याद्वै तृष्णाशान्तिस्तथापि न ॥३८॥
नित्यं राज्ञी नृपं काले प्रस्मारयति तद्वचः ।
राजाऽपि समयं प्राप्तं तदर्थं वै प्रतीक्षते ॥३९॥
एकदाऽधिकमासस्य द्वितीयायां प्रगेऽसिते ।
स्नात्वा देवप्रपूजायां तिष्ठते तावदेव वै ॥४०॥
श्रुतवान् दुन्दुभिं रम्यं घोषयन्तं हरेर्वचः ।
शुश्राव सर्वहुतस्य राज्ञ्यपि गोऋतम्भरा ॥४१॥
उभौ स्थैर्येण तच्छब्दमानसौ संबभूवतुः ।
शुश्रुवाते दुन्दुभेस्तु घोषणां हृदयंगमाम् ॥४२॥
अधिमासद्वितीयायां व्रतं कुर्वन्ति ये जनाः ।
तेषामभीष्टदाताऽहं मासः श्रीपुरुषोत्तमः ॥४३॥
एकभुक्तं च वा नक्तं फलभुक्तिर्जलाशनम् ।
वाय्वाशनं च वा कृत्वा करिष्यन्ति व्रतं तु ये ॥४४॥
तेभ्यो दास्ये सुतदाराधनसम्पद्गृहादिकान् ।
यानवाहनहस्त्यादीन् वारीक्षेत्रधरादिकान् ॥४५॥
खण्डं द्वीपं च सामुद्रं भौमं राज्यं भूमण्डलम् ।
स्वर्गं जनं तपः सत्यं चैन्द्रं सौर्यं च चान्द्रकम् ॥४६॥
साम्राज्यं चातलं पातालकं चापि रसातलम् ।
दास्ये चतुर्दशलोकाधिपत्यं पारमेष्ठ्यकम् ॥४७॥
वारुणं वाह्निकं चैशं याम्यं तथा च पावनम् ।
कौबेरं नैर्ऋतं चापि दिक्पालत्वं महत्पदम् ॥४८॥
लोकपालपदं दास्ये वासवं ग्रहमण्डलम् ।
नैधेयं चापि रौद्रं च मारुतं नाकपृष्ठकम् ॥४९॥
सिद्धीरष्टविधा दास्ये गुणं ब्रह्माण्डसर्जनम्।
रक्षणं पालनं दास्ये सामर्थ्यं व्रतिने तु मे ॥५०॥
अधिमासस्य देवोऽहं श्रीकृष्णः पुरुषोत्तमः ।
स्वल्पेऽपि मत्कृते कृच्छ्रे फलं दास्ये त्वनन्तकम् ॥५१॥
ददामि नाऽन्यमासे यत् तद्ददाम्यत्र पुष्कलम् ।
अत्राहं कृपया दाता दातास्मि स्वेच्छया खलु ॥५२॥
मद्वचोधारयत्यद्धा मूर्ध्ना तस्मै ददाम्यहम् ।
उपायनं तथा पारितोषिकं वा स्वनुग्रहम् ॥५३॥
नात्र विनिमयो न्यायो न्यायस्त्वत्र कृपा मम ।
कृपयाऽहं स्वयं स्वामी वितरामि त्वशेषकम् ॥५४॥
कोटिगुणं वितरामि वितरामि त्वनन्तकम् ।
यथासंकल्पितं तस्माद् गृह्णन्तु पुरुषोत्तमात् ॥५५॥
इति शुश्रुषतुः सर्वहुतश्च गोऋतम्भरा ।
तौ नत्वा दुन्दुभिं पुष्पैः पूजयामासतुस्तदा ॥५६॥
दुन्दुभिस्तु गतोऽन्यत्र दम्पती दध्यतुः प्रभुम् ।
स्वेष्टलाभस्तथा कुत्र प्राप्स्यते चेति दध्यतुः ॥५७॥
सर्वहुतस्तदा राज्ञीं सम्प्राह गोऋतंभराम् ।
श्रुतं देवि द्वितीयाया व्रतेनेष्टमवाप्यते ॥५८॥
तवास्ति मानसं पूज्यस्थाने स्थातुं महत्तमे ।
चतुर्दशस्तरस्थानां सर्वासां सुरयोषिताम् ॥५९॥
तत्प्राप्त्यर्थं व्रतं कार्यमावाभ्यां फलदं भवेत् ।
दुन्दुभिना तदुक्तं वै स्वल्पेऽपि बहुलं फलम् ॥६०॥
अहं ब्रह्मा भविष्यामि भव त्वं सहचारिणी ।
ब्रह्माणी मम पत्नी च माता वै सुरयोषिताम् ॥६१॥
तथा सति तवेहा तु प्रपूर्णार्था भविष्यति ।
कृष्णनारायणो देवो फलं व्रतस्य दास्यति ॥६२॥
एवं कृत्वा तु संकल्पं व्रतं चक्रतुरादरात् ।
प्रातः स्नात्वा हरिं ध्यात्वा कारयित्वा तु कानकीम् ॥६३॥
मूर्तिं तत्राऽधिकदेवं श्रीकृष्णं पुरुषोत्तमम् ।
आवाह्याचमनं दत्वाऽऽसनं पाद्यं समर्प्य च ॥६४॥
तस्मै त्वाचमनं तीर्थजलस्य ददतुश्च तौ ।
दुग्धेन पिच्छलदध्ना घृतेन मधुना तथा ॥६५॥
शकर्राभिश्च संस्नाप्य कारयामासतुस्ततः ।
शुद्धजलैः सुगन्धैश्चाप्लवनं चन्दनान्वितैः ॥६६॥
मार्जयामासतुर्वस्त्रैः शोभयामासतुर्हरिम् ।
सुवर्णाऽम्बरभूषाभिर्मणिरत्नोत्तमादिभिः ॥६७॥
हारैश्चन्दनगन्धैश्च द्रवैः सारद्रवैस्तथा ।
कज्जलैस्तैलसारैश्च पुष्पैः कुंकुमतण्डुलैः ॥६८॥
पूजयामासतुः कृष्णं किरीटकटकादिभिः ।
सद्रत्नमणिहाराद्यैश्छत्रचामरयष्टिभिः ॥६९॥
धूपदीपसुनैवेद्यफलताम्बूलचूर्णकैः ।
कारयामासतुस्तृप्तिं श्रीहरिं पुरुषोत्तमम् ॥७०॥
जलं दत्वा सवाद्यं तौ नीराजनं प्रचक्रतुः ।
प्रदक्षिणां स्तुतिं नमस्कारांश्चक्रतुरादरात् ॥७१॥
प्रार्थयामासतुर्देवं व्रतेनानेन केशव ।
प्रसन्नो भव विश्वात्मन् गृहाणाऽर्घ्यं फलादिकम् ॥७२॥
इति कृत्वा ददतुस्तौ फलार्थं ससुवर्णकम् ।
पुष्पांजलिं ददतुश्च चक्रतुः सेवनं ततः ॥७३॥
मध्याह्नेऽपि तथा चोभौ चक्रतुः पूजनादिकम् ।
सायं प्रपूज्य देवेशं कृत्वा त्वारार्त्रिक निशि ॥७४॥
चक्रतुर्जागरं वाद्यनृत्यकीर्तनसूत्सवम् ।
दानं कृष्णाय ददतुः सिंहासनं तु कानकम् ॥७५॥
छत्रचामरवेत्रादिशोभितं बहुलोज्ज्वलम् ।
मणिरत्नसुमौक्तिकदामभूषाविराजितम् ॥७६॥
भवनं चापि ददतुश्चतुर्दशप्रभूमिकम् ।
सौवर्णकूप्यवस्त्वाढ्योपस्कराद्यभिराजितम् ॥७७॥
शय्यास्तरणभोज्यादिभागभुवनशोभितम् ।
पुण्यसारगृहं यत्र यत्राग्निहोत्रसद्गृहम् ॥७८॥
पितृतर्पणभवनं यत्रास्ति दानसद्गृहम् ।
मणिरत्नादि पूर्णं च यत्र कोशगृहं त्वपि ॥७९॥
यानवाहनपूर्णं च गृहं चिदचिदात्मकम् ।
दासदासीवनोद्यान नदीनद समन्वितम् ॥८०॥
गृहं यत्रास्ति भूमौ च विश्रान्तिगृहमित्यपि ।
सुरतस्य गृहं चैव भोजनस्य गृहं तथा ॥८१॥
स्नानागारं तथा गुप्तपातालादि सुसम्पदम् ।
गृहं यत्रास्ति कल्पानां द्रुमाणां च गवां गृहम् ॥८२॥
एवमादीनि सर्वाणि भवनानि च यत्र वै ।
वर्तन्ते तन्महत्सौधं सप्राकारं सुशोभितम् ॥८३॥
ददतुस्तौ कृष्णनारायणायाऽर्पणमेव हि ।
तावत्तत्र समायातः श्रीकृष्णः पुरुषोत्तमः ॥८४॥
प्रोवाच तौ प्रसन्नोऽस्मि दानेन च व्रतेन च ।
ददाम्येषः कृपां कृत्वा वृणुत वरदानकम् ॥८५॥
दम्पती प्राहतुस्तत्र पारमेष्ठ्यं पदं प्रभो ।
देहि पश्चात्तवधामाऽक्षरं मोक्षं च शाश्वतम् ॥८६॥
तथास्त्विति हरिः प्राह तथाऽऽह गोऋतम्भराम् ।
भाविनि पुष्करे तीर्थे पृथ्व्यां वै क्षत्रियो नृपः ॥८७॥
आभीराणां च गोपानां पुष्करारण्यवासिनाम् ।
नृपो भविष्यति नाम्ना गायत्रो वै विराट्सुतः ॥८८॥
तस्य भार्या ऋषीनाम्नी राज्ञी पुष्करपुत्रिका ।
भविष्यति तयोः पुत्री आर्षिनाम्नी सुकन्यका ॥८९॥
सेयं त्वं भाविनी गोपी गोमती गोऋतम्भरा ।
गायत्री गोकुलसेवाकर्त्री तत्र भविष्यसि ॥९०॥
अयं राजा सर्वहुतस्तत्र ब्रह्मा भविष्यति ।
आद्ये युगे च यज्ञार्थे पुष्करे स गमिष्यति ॥९१॥
सुरर्षिमुनिपित्राद्यैर्मानवैस्तलवासिभिः ।
चतुरशीतिलक्षात्मदेहिभिः सह विश्वसृट् ॥९२॥
यज्ञं करिष्यति त्वाद्यं प्रवृत्त्यर्थं जगत्त्रये ।
तत्राग्निषु प्रोद्धृतेषु दीक्षाकाले ह्युपागते ॥९३॥
अध्वर्युणा तदाऽऽहूता सावित्री दीर्घसूत्रिणी ।
सज्जी भूत्वा यज्ञभूमौ तत्काले नाऽऽगमिष्यति ॥९४॥
ब्रह्मा शक्रं समाहूय कथयिष्यति कालिकम् ।
पत्नीं त्वन्यां मदर्थे तु शीघ्रं शक्र समानय ॥९५॥
यथा प्रवर्तते यज्ञः कालहीनो न जायते ।
तथा शीघ्रं विधेहि त्वं नारीं पत्न्यर्थमानय ॥९६॥
एवमुक्तस्तथा शक्रो गायत्रराजकन्यकाम् ।
यज्ञभूमिविलोकायाऽऽगतां त्वां स हि नेष्यति ॥९७॥
आर्षिणीं कन्यकां रम्यां गायत्रीं नवयौवनाम् ।
गान्धर्वेण विवाहेन ग्रहीष्यति स विश्वसृट् ॥९८॥
प्रारप्स्यते ततो होत्रं ब्राह्मणैर्वेदपारर्गेः ।
यज्ञो दिनसहस्रं वै पुष्करे स भविष्यति ॥९९॥
तत आरभ्य गायत्री ब्रह्माणी त्वं भविष्यसि ।
लोकमाता वेदमाता सृष्टिमाता भविष्यसि ॥१००॥
सर्वपूज्या सर्वमान्या द्विजजाप्या भविष्यसि ।
ब्रह्मदात्री ब्रह्मवधूर्भविष्यसि ऋतम्भरे ॥१०१॥
अयं सर्वहुतो ब्रह्मा त्वं गायत्री च दम्पती ।
द्वितीयाया व्रतेनैव कृपया मे भविष्यथः ॥१०२॥
शतवर्षोत्तरं धामाऽक्षरं मे प्राप्स्यथो ध्रुवम् ।
महानगरतुल्यस्य सौधस्य दानकर्मणा ॥१०३॥
ब्रह्माण्डाख्यं गृहं राज्यं दास्ये स्मृद्धं परात्परम् ।
इत्युक्त्वा भगवान् कृष्णस्तिरोबभूव तत्स्थलात् ॥१०४॥
पूर्वजस्य ब्रह्मणोऽपि लये जातेऽथ दम्पती ।
पारमेष्ठ्यं पदं श्रेष्ठं प्रापतुः शाश्वतं चिरम् ॥१०५॥
एवं सर्वहुतो राजा तत्पत्नी गोऋतम्भरा ।
सञ्जातौ दंपती ब्रह्मा गायत्री पितरौ सृजेः ॥१०६॥
इति ते कथितं लक्ष्मि! प्राक्सृष्टीयमुदन्तकम् ।
पुरुषोत्तममासस्य द्वितीयायास्तु सद्व्रतम् ॥१०७॥
पारमेष्ठ्यपददातृ श्रोतुर्वक्तुस्तथा फलम् ।
भविष्यति न सन्देहो वक्ति श्रीपुरुषोत्तमः ॥१०८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये प्राक्सृष्टौ सर्वहुतराज्ञा गोऋतम्भराराज्ञ्या च द्वितीयपक्षद्वितीयाव्रतेन नगरसमभवन-दानादिना पूजनादिना च पारमेष्ठ्यपदे ब्रह्मणोऽव-तारो गायत्र्यवतारश्च प्राप्तं इत्यादिनिरूपण-नामा नवाधिकत्रिशततमोऽध्यायः ॥३०९॥

N/A

References : N/A
Last Updated : March 30, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP