संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
जयत्यतिबलो रामो लक्ष्मणश्...

जयपञ्चकम् - जयत्यतिबलो रामो लक्ष्मणश्...

जयपञ्चकम्

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥१॥
दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ॥२॥
न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥३॥
अर्दयित्वा पुरीं लङ्कां अभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥४॥
तस्य सन्नादशब्देन तेऽभवन् भयशङ्किताः
ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम् ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP