संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
ओंकारनगरस्थं तं निगमान्तव...

श्री गुहपञ्चरत्नम् - ओंकारनगरस्थं तं निगमान्तव...

श्री गुहपञ्चरत्नम्


ओंकारनगरस्थं तं निगमान्तवनेश्वरम् ।
नित्यमेकं शिवं शान्तं वन्दे गुहमुमासुतम् ॥१॥
वाचामगोचरं स्कन्दं चिदुद्यानविहारिणम् ।
गुरुमूर्तिं महेशानं वन्दे गुहमुमासुतम् ॥२॥
सच्चिदानन्दरूपेशं संसारध्वान्तदीपकम् ।
सुब्रह्मण्यमनाद्यन्तं वन्दे गुहमुमासुतम् ॥३॥
स्वामिनाथं दयासिन्धुं भवाब्धेः तारकं प्रभुम् ।
निष्कलङ्कं गुणातीतं वन्दे गुहमुमासुतम् ॥४॥
निराकारं निरधारं निर्विकारं निरामयम् ।
निर्द्वन्द्वं च निरालम्बं वन्दे गुहमुमासुतम् ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP