विष्णु-पञ्चायतन पूजन

प्रस्तुत पूजा प्रकरणात भिन्न भिन्न देवी-देवतांचे पूजन, योग्य निषिद्ध फूल यांचे शास्त्र शुद्ध विवेचन आहे.


विष्णु-पञ्चायतन
आवाहन-
आगच्छन्तु सुरश्रेष्ठा भवन्त्वत्र स्थिरा: समे ।
यावत् पूजां करिष्यामि तावत् तिष्ठन्तु संनिधौ ॥
ॐ विष्णुशिवगणेशसूर्यदुर्गाभ्यो नम: , आवाहनार्थ पुष्पं समर्पयामि । (पुष्प समर्पण करे)

आसन-अनेकरत्नसंयुक्तं नानामणिगणान्वितम् ।
कार्तस्वरमयं दिव्यमासनं परिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , आसनार्थे तुलसीदलं समर्पयामि । ( तुलसीदल समर्पण करे )

पाद्य-गन्डादिसर्वतीर्थभ्य आनीतं तोयमुत्तमम् ।
पाद्यार्थ सम्प्रदास्यामि गृह्र्न्तु परमेश्वरा: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , पादयो: पाद्यं समर्पयामि ।
(जल अर्पण करे ।)
अर्घ्य-गन्धपुष्पाक्षतैर्युक्तमर्घ्य सम्पादितं मया ।
गृह्र्न्त्वर्घ्य महादेवा: प्रसन्नाश्च भवन्तु मे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , हस्तयोरर्घ्यं समर्पयामि ।
(गन्ध,पुष्प,अक्षत मिला हुआ अर्घ्य अर्पण करे। )
आचमन-कर्पुरेण सुगन्धेन वासितं स्वादु शीतलम् ।
तोयमाचमनीयार्थ गृह्रन्तु परमेश्वरा: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , आचमनीयं जलं समर्पयामि ।
(कर्पूरसे सुवासित सुगन्धित शीतल जल समर्पण करे ।)
स्नान-मन्दाकिन्या: समानीतै: कर्पूरागुरुवासितै: ।
स्नानं कुर्वन्तु देवेशा जलैरेभि: सुगन्धिभि: ।
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , स्नानीयं जलं समर्पयामि ।
(शुध्द जलसे स्नान करये ।)

आचमन-स्नानान्ते आचमनीयं जलं समर्पयामि । (स्नान करानेके बाद आचमनके लिये जल दे |)
पञ्चामृत-स्नान-
पयो दधि घृतं चैव मधु च शर्करान्वितम ।
पञ्चामृतं मयाऽऽनीतं स्नानार्थ प्रतिगृह्यताम् ।
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , पञ्चामृतस्नानं समर्पयामि ।
गन्धोदकस्नान -
मलयाचलसम्भूतचन्दनेन विमिश्रितम् ।
इदं गन्धोदकं स्नानं कुंकुमाक्तं नु गुह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , गन्धोदकं समर्पयामि । (मलय चन्दनसे सुवासित जलसे स्नान कराये ।)
गन्धोदकस्नानान्ते शुध्दोदकस्नानम्-(गन्धोदक-स्नानके बाद शुध्द जलसे स्नान कराये ।)
शुध्दोदकस्नान-
मलयाचलसम्भूतचन्दनाऽगरुमिश्रितम् ।
सलिलं देवदेवेश ! शुध्दस्नानाय गृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , शुध्दोदकस्नानं समर्पयामि ।
( शुध्दोदकसे स्नान करानेके बाद आचमन करनेके लिये पुन: जल चढाये ।)

आचमन-शुध्दोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
वस्त्र और उपवस्त्र-
शीतवातोष्णसंत्राणे लोकलज्जानिवारणे ।
देहालड्करणे वस्त्रे भवद्‍भ्यो वाससी शुभे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , वस्त्रमुपवस्त्रं च समर्पयामि ।
( वस्त्र और उपवस्त्र चढानेके बाद आचमनके लिये जल चढाये ।)

आचमन-वस्त्रोपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
यज्ञोपवीत-
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृह्यन्तु परमेश्वरा: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत चढानेके बाद आचमनके लिये जल चढाये ।)
आचमन-यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

चन्दन-
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , चन्दनानुलेपनं समर्पयामि ।
(सुगन्धित मलय चन्दन लगाये ।)

पुष्पमाला-
माल्यादीनि सुगन्धीनि भालत्यादीनि भक्तित: ।
मयाऽऽह्र्तानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , पुष्पाणि (पुष्पमालाम्) समर्पयामि । (मालति आदिके पुष्प चढाये।)
तुलसीदल और मञ्चरी-
तुलसीं हेमरुपां च रत्नरुपां च मञ्जरीम ।
भवमोक्षप्रदां रम्यामर्पयामि हरिप्रियाम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: ,तुलसीदलं मञ्जरीं च समर्पयामि । (तुलसीदल और तुलसी-मञ्जरी समर्पण करे )
(भगवानके आगे चौकोर जलका घेरा डालकर उसमें नैवेद्यकी वस्तुओंको रखे तब धुप-दीप निवेदन करे ।)
धूप -
वनस्पतिरसोभ्दूतो गन्धाढ्यो गन्ध उत्तम: ।
आघ्रेय:  सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , धूपमाघ्रापयामि । (धूप दिखाये)

दीप-
साज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया ।
दीपं गृह्र्न्तु देवेशास्त्रैलोक्यतिमिरापहम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, दीपं दर्शयामि । (दीप दिखाये)

हाथ धोकर नैवेद्य निवेदन करे -
नैवेद्य-
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, नैवेद्यं निवेदयामि । (नैवेद्य निवेदित करे ।)
नैवीद्यान्ते ध्यानं ध्यानान्ते आचमनीयं जलं समर्पयामि ।
उत्तरापोऽशनार्थ हस्तंप्रक्षालनार्थ मुखप्रक्षालनार्थ च जलं समर्पय़ामि ।
नैवेद्य देनेके बाद भगवान्‍का ध्यान करे (मानो भगवान भोग लगा रहे है) । ध्यानके बाद आचमन करनेके लिये जल चढाये और मुख प्रक्षालनके लिये तथा हस्त प्रक्षालनके लिये जल दे ।

ऋतुफ़ल-
इदं फ़लं मया देव स्थापितं पुरतस्तव ।
तेन मे सफ़लावाप्तिर्भावेज्जन्मनि जन्मनि ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम: , ऋतुफ़लानि समर्पयामि ।
मध्ये आचमनियं उत्तरापोऽशनं च जलं समर्पयामि । ( ऋतुफ़ल अर्पण करे इसके बाद आचमन तथा उत्तरापोऽशनके लिये जल दे । )
ताम्बूल-
पूगीफ़लं महद्‍ दिव्यं नागवल्लीदलैर्युतम् ।
एलालवंगसंयुक्तं ताम्बुलं प्रतिगृह्यताम ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, मुखवासार्थ ताम्बूल समर्पयामि । (सुपारी, इलायची, लवंगके साथ पान चढाये ।)

दक्षिणा-
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसौ:।
अनन्तपुण्यफ़लदमत: शान्ति प्रयच्छ मे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, दक्षिणा समर्पयामि । (दक्षिणा चढाये ।)
आरती-
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मां वरदो भव ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, आरार्तिकं समर्पयामि ।
(कर्पूरकी आरती करे और आरतीके बाद जल गिरा दे ।)

शड्ख-भ्रामण-
शड्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि ।
अन्गलग्नं मनुष्याणां ब्रह्महत्यां व्यपोहति ॥
जलसे भरे शड्खको पाँच बार भगवानके चारों ओर घुमाकर शड्‍खको यथास्थान रख दे । भगवान्‍का अँगोछा भी घुमा दे । अब दोनों हथेलियोंसे आरती ले । हाथ धो ले । शड्खके जलको अपने ऊपर तथा उपस्थित लोगोंपर छिडक दे ।
निम्नलिखित मन्त्रसे चार बार परिक्रमा करे (परिक्रमाका स्थान न हो तो अपने आसनपर ही चार बार घूम जाय ।)
प्रदक्षिणा-
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, प्रदक्षिणां समर्पयामि । (मन्त्र पढकर प्रदक्षिणा करे ।)
मन्त्रपुष्पाञ्जलि-
श्रध्दया सिक्तया भक्त्या हार्दप्रेम्णा समर्पित: ।
मन्त्रपुष्पाञ्जलिश्चायं कृपया प्रतिगृह्यताम् ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि भगवानके सामने अर्पण कर दे ।)

नमस्कार-
नमोऽस्त्वनन्ताय सहस्त्रमूर्तये सहस्त्रपादाक्षिशिरोरुबाहवे ।
सहस्त्रनाम्ने पुरुषाय शाश्वते सहस्त्रकोटीयुगधारिणे नम: ॥
ॐ विष्णुपञ्चायतनदेवताभ्यो नम:, प्रार्थनापूर्वकं नमस्कारान्‍ समर्पयामि । (प्रार्थनापूर्वक नमस्कार करे । )

भक्तोंको शतांश-प्रदान
इसके बाद विष्वक्‍सेन ,शुक आदि महाभागवतोंको नैवेद्यका शतांश निर्माल्य जलमें दे ।
क) वैष्णव संतोंको -
विष्वक्‍सेनोध्दवाक्रूरा: सनकाद्या: शुकादय: ।
महाविष्णुप्रसादोऽयं सर्वे गृह्रन्तु वैष्णवा: ॥
ख) गाणपत्य संतोंको-
गणेशो गालवो गार्ग्यो मंगलश्च सुधाकर: ।
गणेशस्य प्रसादोऽयं सर्वे गृह्रन्तु भागिन: ॥
ग) शैव संतोंको-
बाणरावणचण्डीशनन्दिभृंगीरिटादय: ।
सदाशिवप्रसादोऽयं सर्वे गृहन्तु शाम्भवा: ॥
घ) शाक्त संतोंको-
शक्तिरुच्छिष्टचाण्डालीसोमसूर्यहुताशना: ।
महालक्ष्मीप्रसादोऽयं सर्वे गृह्णन्तु शाक्तिका: ।
ड) सौर संतोंको-
छायासंज्ञाश्राध्दरेवादण्डमाठरकादय:
दिवाकरप्रसादोऽयं ब्राध्ना गृह्णन्तु शेषकम् ॥

इन श्लोकोंको पढकर या बिना पढे भी जलमें संतोंके उद्देश्यसे निर्माल्य दे दे । भगवान्‍ और भक्तमें अन्तर नही होता । अत: उत्तम पक्ष यह है कि इन संतोंका नामोच्चारण हो जाय ।

चरणामृत-पान-अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
             विष्णुपादोदकं पीत्वा पुनर्जन्म न विद्यते ॥
(चरणामृतको पात्रमें लेकर ग्रहण करे । सिरपर भी चढा ले । )

क्षमा-याचना-मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव ! परिपूर्णं तदस्तु मे ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजा चैव न जानामि क्षमस्व परमेश्वर ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्यभावेन रक्ष मां परमेश्वर ॥
( इन मन्त्रोंका श्रध्दापूर्वक उच्चारण कर अपनी विवशता एवं त्रुटियोंके लिये क्षमा-याचना करे ।)

प्रसाद-ग्रहण- भगवान्‍पर चढे फूलको सिरपर धारण करे । पूजासे बचे चन्दन आदिको प्रसादरुपसे ग्रहण करे । अन्तमें निम्नलिखित वाक्य पढकर समस्त कर्म भगवान्‍को समर्पित कर दे -
ॐ तत्सद्‍ ब्रह्मार्पणमस्तु ।
ॐ विष्णवे नम:, ॐ विष्णवे नम:, ॐ विष्णवे नम: ।

N/A

References : N/A
Last Updated : December 02, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP