TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पतज्जलिचरितम् । तृतीय: सर्ग: ।

श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।
भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ.


तृतीय: सर्ग: ।
अथ वीक्ष्य स शैलकन्यया सहितं चन्द्रकलाधरं पुर: ।
रभसादुदतिष्ठादासनात्प्रणमन्नजलिना पतज्जलि: ॥१॥
तदुपागमहर्षविस्मयौ स्तिमितं यद्यपि तं वितेनतु: ।
स तथापि चकार द्ण्डवत्प्रणिपातं भुवि भक्तियन्त्रित: ॥२॥
प्रणिपत्य समुत्थितस्तदव मुदितो मूर्ध्रि कृताज्जलिर्मुनि: ।
तरुणेन्दुवतंसमादरात्तमुपश्लोकयितुं प्रचक्रमे ॥३॥
श्रुतयोऽपि न शक्रुवन्ति ते स्तुतये किं पुनरीश मादृश: ।
भणितिर्गृणती भवद्रुणान्परिशुध्येदिति किं तु मे मति: ॥४॥
जगदीश यदेकमव्दयं तव सच्चित्सुखलक्षणं वपु: ।
विधिविष्णुहरा इति त्रिधा बिभिदे तन्निजयैव मायया ॥५॥
तव देव गिरा यथार्थया ननु कर्माणि नरा वितन्वते ।
सुखबोधमयं सुमेधस: परमं ब्रह्म वदन्ति केवलम् ॥६॥
अतिसुन्दरमस्तु मे सदा हृदये त्वव्दपुरिन्दुभूषणम् ।
नियतं खलु यस्य दर्शनात्स्मरणीयो रमणो रतेरभूत् ॥७॥
जडमेव रथाड्गमेकमप्यपरं व्दादशधा विभज्यते ।
कुरथेन ततस्त्वया कथं विजितं वैरिपुरत्रयं विभौ ॥८॥
भवदाश्रयणेन मार्गणा अपि लक्ष्मीपतयो भवन्ति यत् ।
विपरीतमभूदिदं यतोऽजनि लक्ष्मीपतिरेव मार्गण: ॥९॥
अपि सेव्यमनेकशाखया भजतामप्यधिकं फलप्रदम् ।
परमेश भवन्तमीदृशं जगत: स्थाणुरिति ब्रुवन्त्यहो ॥१०॥
विनिहत्य रणेऽन्धकं कलाधरचूओडामणिरप्यहो भवान् ।
न खलु त्रपते ततो यत: परिपूर्णं त्वयि नास्ति पौरुषम् ॥११॥
किमिहद्भुतमस्ति यज्जटातटिनीं कामपि तावकी पपौ ।
जलधिं चुलुकीचकार किं तव भक्तोऽपि न कुम्भसंभव: ॥१२॥
तव पश्चमुखानि लोचनान्यपि तु त्रीणि तथाष्टमूर्तय: ।
इति शैलसुतातिसुन्दरं किमिति त्वामवृणीत गेहिनम् ॥१३॥
वसनं करिचर्म वाहनं वृषभ: कोऽपि विभूषणं फणी ।
अशनं विषमासिका गिराविति चित्रं जगतां त्वमीशिषे ॥१४॥
वहतो नृकरोटिमालिकामनुलिप्तस्य परेतभस्मना ।
पितृकानननर्तकस्य ते प्रमथेशस्य गुणास्तु पावना: ॥१५॥
अरुणेन पदाम्बुजेन ते मम चित्रं क्रियते मन: शुचि ।
मृदुनाप्यमुना भुजान्तरं कठिनं न त्रुटितं यमस्य किम् ॥१६॥
विजिताद्रजतेन निर्मितौ विषमेषोरिषुधी इवाहृतौ ।
कलये हृदि काड्क्षितप्रदे तव जड्घे तरुणेन्दुशेखर ॥१७॥
गजहस्तजिगीषयेव यौ धृततारक्षवचर्मकड्कटौ ।
गिरिजाकरमर्दनोचितौ भवदूरु भव भावये हॄदि ॥१८॥
तव मध्यमहं तनुं भजे नितरवमीर्ष्यति यत्र नाभये ।
प्रलयोध्दतरुद्रलोचनद्रुतारुप्याद्रिनदीजलभ्रम: ॥१९॥
भुजगाभरणं भुजान्तरं भसितोद्भूलितमीश ते भजे ।
स्फटिकाद्रिशिलातलं यथा करिकीर्णाम्बुजनालकोमलम् ॥२०॥
अरुणाड्गुलिपल्लवौ नखद्युतिसंभावितपुष्पडम्बरौ ।
कलिमोचन कालकण्ठ ते कलयेऽहं करकल्पपादपौ ॥२१॥
मुखचन्द्रसमीपवर्तिनीमरुणामीश घनावलीमिव ।
तव नौमि जटापरम्परां सितविद्युन्निभगाड्गनिर्झराम् ॥२२॥
अविवेकतमोनिवृत्तये विलसन्तं विषमास्त्रशासनम् ।
मध्रुरस्मितचन्द्रिकोदयं वदनेन्दुं तव चिन्तये हृदि ॥२३॥
इति तं पुलकोद्रमै: स्तनौ हृदि भक्त्या प्रमदाश्रुणा दृशो: ।
वचसि स्तुतिमिश्च संगतं परितुष्यन्प्रभुरब्रवीदिदम् ॥२४॥
तपसा तव शेष तोषितो वितरिष्यन्वरमागतोऽस्मि ते ।
अचिरेण वृणीष्व तं यतो वपुरीदृक्तव वारितं सुखात् ॥२५॥
चरितं निजमादित: स्मरन्नथ शेषेति विमन्त्रितो मुनि: ।
पदवार्तिकभाष्यनिर्मितौ प्रथमं पाटवमभ्ययाचत ॥२६॥
अथ तस्य जगत्रयप्रभोर्नटनालोकनयोग्यतां पुन: ।
मुनिमर्थयमानमात्मन: स तथास्त्वित्यवदन्मुदा मृड: ॥२७॥
अयि वत्स चिदम्बराभिधं नगरं त्वं व्रज काननाध्यना ।
तव तत्र नटेयमीक्षितुं दययेत्यन्तरधादुदीर्य स: ॥२८॥
इति तस्य गिरा चिदम्बरं नगरं प्रास्थित नाटयलिप्सया ।
मुदित: स मुनिर्मुमुक्षया भवतप्तो निकटं गुरोरिव ॥२९॥
अपरं प्रविशन्वनं वनादपरं चाश्रममाश्रमाव्दजन् ।
ददृशे स पवित्रदर्शन: सुरसिन्धोरिव पाथसां भर: ॥३०॥
पथि तं फलपुष्पसंचयै: परिपूज्येव मुनिं वनद्रुमा: ।
पवनाकुलपल्लवच्छलात्सफलं जन्मन इत्यनर्तिषु: ॥३१॥
बुधमृध्दरसा पदे पदे परिपाकच्युतपुष्पकोमला ।
पदवी तमनन्दयत्कवे: पठितव्याकरणस्य वागिव ॥३२॥
गिरिनिर्झरशीकरान्किरन्सममारण्यविहड्गकूजितै: ।
मुषितद्रुमपुष्पसौरभौ मुद्रमाधत्त वनानिलो मुने: ॥३३॥
कटिबध्दमृगादनत्वचं कपिलोन्नध्दजटाभरं मुनिम् ।
तमवेक्ष्य तरक्षवो वने न पलायन्त न चाभिचक्रमु: ॥३४॥
चटुलाक्षमुदश्चिताननं चलवालज्चलमीषदन्तरम् ।
कुतुकेन कुरड्गशावकास्तमृषिं ज्ञातिमिवानुदुद्रुवु: ॥३५॥
कपयस्तदवेक्षणे तरुन्व्यथयामासुरसाधुभि: पदै: ।
पदशास्त्र इवानधीतिन: कवय: कर्णपथान्विपश्चिताम् ॥३६॥
तमवेक्ष्य निनिन्दुरुचकैरपदे पक्कणकुक्कुरा: पथि ।
सरसस्य कवे: क्रमं गिरामवकर्ण्याक्षमयेव दुर्धिय: ॥३७॥
ददृशे किल तेन गच्छता गिरिनद्यां कलहंसमण्डली ।
कियदप्यसृगुक्षिता तनौ गिरिशस्येव कपालमालिका ॥३८॥
अचलोर्ध्वतलादवस्थितं निपतन्तं स ददर्श निर्झरम् ।
रविरश्मिजिता कृतं ध्वजे विपिनेनेव दुकूलपल्लवम् ॥३९॥
कठिनोपलघट्टनोत्थितान्पतितान्निर्झरपाथसां कणान् ।
चलितानविशेषतोऽग्रहीचमराणामपि वालधीन्मुनि: ॥४०॥
निबिडोपलगर्तनि: सरत्फणिफूत्कार भियापसर्पिण: ।
हरिणा नयनै: समाकुलै: पदवीमुत्पलिनीं मुनेर्व्यधु: ॥४१॥
ज्वलितारुणपल्लवानलश्चिरिबिल्वप्रसवैकलाजया ।
अचलस्य करग्रहोत्सवो वनलक्ष्येति विनिश्चिकाय स: ॥४२॥
मधुरध्वनयो मधुव्रता मदनिष्यन्दमलीमसे पथि ।
अवदन्मुनये निरक्षरं व्दिपमासन्नसरोवगाहिनम् ॥४३॥
तरुमूलविहारिणो दरीभुवि भल्लूकगणानजीगणत् ।
मृडकण्ठरुचीन्वनश्रिय: कचभारानिव जड्गमान्मुनि: ॥४४॥
मृगराजकराहतित्रुटत्करिकुम्भच्युतमौक्तिके पथि ।
निबिडोडुकदम्बडम्बरे स मुनिश्चन्द्र इवाम्बरे ययौ ॥४५॥
अतिलड्घ्य वनानि जग्मुषा ददृशे तेन चिदम्बरं पुरम् ।
इह ताण्डवयिष्यतीश्वर: कृपयेति प्रथमं गणैर्वृत्तम् ॥४६॥
पृथुलश्रवसो बृहन्मुखा गडुकण्ठा गिरिसन्निभोदरा: ।
विकटोच्छ्रितजानव: स्मरं विहसन्तीव यदागता गणा: ॥४७॥
तमसामिव देहिनो भरा यमुनाया इव पिण्डिता झरा: ।
जलदा इव मूर्तसंचरा: प्रमथा यत्परितो विजहिरे ॥४८॥
विहरन्ति तरक्षुभिर्मिथो निनदैर्यत्र निगृह्णते हरीन् ।
मुखविक्रियया च तर्जयन्त्यगकन्यापरिचारिणीर्गणा: ॥४९॥
कुसुमाहृतये गणैई: प्रभोर्नवमुन्मत्तवनं प्ररोप्यते ।
अपि यत्र विमृश्य लूयते प्रसवामोदघना च केतकी ॥५०॥
अनुलेपनसंग्रहं प्रभो: प्रमथा यत्र परे वितन्वते ।
परितर्जितघोरफेरवं प्रतिपद्यैव परेतभूतलम् ॥५१॥
मलयद्रुमकोटरान्तरादपि वल्मीकबिलोदरादहीन् ।
चकृषु: किल यत्र भूषणं नवमीशाय गणा: प्रदित्सव: ॥५२॥
मलयाद्रिपटीरवासितान्द्रुतिगर्तेषु समीरणार्भकान् ।
प्रभुकड्कणकुक्षिपूरणं तनितुं यत्र गणा निरुन्धते ॥५३॥
पुरदाहमनड्गपातनं गरलास्वादनमन्तकक्षतिम् ।
गजदानवखण्डनं जगु: प्रमथा यत्र चरित्रमैश्वरम् ॥५४॥
कलयन्ति विभूतिभस्त्रिकां कतिचिद्यत्र गृहीतसूचय: ।
अपरैरपि नाम सीव्यते नवरुद्राक्षमणिप्रसज्जनात् ॥५५॥
विलसद्भसितत्रिपुण्ड्रका धृतरुद्राक्षकिरीटमौलय: ।
कति यत्र नयन्ति वासरान्शिवपश्चाक्षरमन्त्रजापिन: ॥५६॥
शिवभक्तगणे प्रदक्षिणक्रमणं यत्परितो वितन्वति ।
भसितैरपर: समुन्नतो वरणोऽकल्प्यत तत्तनुच्युतै: ॥५७॥
घटनाय जटाहिमांशुना परिगृह्णन्त्युड्गुमण्डलीमिव ।
शिवमर्चयितुं यदाश्रया व्दिजलोका धवलार्कमजरीम् ॥५८॥
गिरिशार्चनबिल्वपल्लग्रहजै: पाणिषु कण्टकक्षतै: ।
कमलप्रमुखाड्करेखिका वसतां यत्र बतोपमीयते ॥५९।
निवसन्ति दिव: कति श्रिय: कति वाण्य: कति मुक्तय: कति ।
इति वेद्मि न तत्र या: शिवो विनियुड्क्ते प्रतिभक्तपूरुषम् ॥६०॥
मृडनाटयदिदृक्षुभिर्जनै: परितस्तन्नगरं परिष्कृतम् ।
प्रविशन्ददृशे पतजलि:  प्रथमं व्याघ्रपदा तपस्विना ॥६१॥
स समाधिदृशा निशामयन्फणिनामेष पति: पतज्जलि: ।
इति तस्य सभाजनार्थमानदर्घ्यं सह पाद्यवारिणा ॥६२॥
उपचारमुपेत्य तत्कृतं स च माध्यंदिनसंभवं मुनिम् ।
कुशलं फणिनामधीश्वर: परिपप्रच्छ तप: समाधिषु ॥६३॥
तावेवं परिचललब्धगाढसख्या -
वग्रण्यौ शिवपदपद्मभक्तिभाजाम् ।
त्रैयक्षं नटनमहोत्सवं दिदृक्षू
योगीन्द्रौ कनकसभामगाहिषाताम् ॥६४॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते
तृतीय: सर्ग: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-05-02T06:27:41.5800000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

contract administration

  • करार प्रशासन 
RANDOM WORD

Did you know?

Wife disgracing, defaming her husband, what is the solution ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site