TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पतज्जलिचरितम् । चतुर्थ: सर्ग: ।

श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।
भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ.


चतुर्थ: सर्ग: ।
वासवादिभिरथामरैस्तदा चोदितेन भुवि विश्वकर्मणा ।
ताण्डवाय गिरिशस्य निर्मिता तत्र हाटकमयी सभा बभौ ॥१॥
यत्र हेमवलभीविलम्बिनो दिव्यमौक्तिकसरा विरेजिरे ।
सर्वत: सुरगिरेरधित्यकां संगता इव नवोडुपड्क्तय: ॥२॥
यत्र सिन्धुचलशैवलाड्कितं नाभिपड्कजमिवेन्दिरापते: ।
गारुडाश्मखचितं हिरण्मयं पुण्डरीकमुपरि व्यराजत ॥३॥
चच्चध्वजज्पज्टाचचलाच्चितं यत्सुवर्णशिखरं समुन्नतम् ।
अन्वकारि हरिवज्रतो भिया मेरुणा तनुरुहाणि धुन्वता ॥४॥
वीक्ष्य मां सफलयध्वमक्षिणी भो नरा इति गिरेव शंसति ।
या विशड्कटविटड्ककोटिभाकिड्किणीगफ़्णघणंघणारवै: ॥५॥
यव्दिशालमणिजालकान्तरादुत्पतन्त्यगरुधूपपड्क्तय: ।
आह्णयन्त इव शैवमीक्षितुं नर्तनोत्सवममर्त्यसुन्दरी: ॥६॥
यत्र काश्चनवितानसंयतो नन्दनद्रुकुसुमस्रजां गण: ।
अश्रु भाविहरनृत्तदर्शनप्रेमजं मधुमिषादिवोज्झति ॥७॥
शातकुम्भवभीसमुन्नतव्रातबध्दमुकुरावलीच्छलात् ।
या बिभर्ति नयनानि कौतुकादाभिरुप्यमिव वीक्षितुं निजम् ॥८॥
व्दारपार्श्वयुगले हिरण्मये गारुडाश्मकदलीवनश्रिया ।
या परस्परसमागमार्हयो: शंसतीव घटने मनोज्ञताम् ॥९॥
आदितोऽन्तत उपोढविभ्रमैर्यव मौक्तिकसरैश्चकाशिरे ।
हेमतोरणमरीचिवीचयो राजहंसनिचयैरिवागतै: ॥१०॥
अत्यवर्तत यदीयकाश्चनस्तम्भजालमनरालमुन्नतम् ।
अप्यहीनगुणभूषमुन्मिषव्दक्रिमाणममरालयं गिरिम् ॥११॥
देवताप्रतिकृतीर्यन्तरे शिल्पिना मणिमयी: प्रकल्पिता: ।
देवता: प्रथममागता नटं द्रष्टुमैशमिति मेनिरे नरा: ॥१२॥
यत्र भान्ति कुरुविन्दनिर्मितत्रोटयो मरकतच्छदा: शुका: ।
एष्यदीशगणराट्‍करस्फुरद्दाडिमग्रहक्रृतादरा इव ॥१३॥
यत्र यत्र फलपुष्पमण्डितं वृक्षषण्डमरुचव्दिनिर्मितम् ।
प्रागरण्यमिव नन्दिहुंकृतिस्तम्भितं चरति शंकरे तप: ॥१४॥
भान्ति यत्र मणिकुट्टिमे नरा बिम्बिता भगवतो नटिष्यत: ।
संजिघृक्षव इवालयाव्दले: पारितोषिकविभूषणान्यहीन् ॥१५॥
सिक्तमृष्टतलमुच्छ्रितध्वजं स व्यतीत्य पुरमार्गमायतम् ।
तां सभामथ विवेश तादृशीं व्याघ्रपादनुगत: पतज्जलि: ॥१६॥
कायवानिव तप: समुच्चयो जड्गमेव शिवभक्तिरुर्जिता ।
स्वात्मबोध इव मूर्तिसंचरस्तावृषी ऋषिगणोऽन्ववर्तत ॥१७॥
यत्पुराणकिटिनापि शौरिणा न व्यलोकि चरणव्दयं प्रभो: ।
लोकयेमहि तदेव किंत्विति व्यस्मयन्त मुनयस्तदा मुहु: ॥१८॥
आगता: प्रथममेव भूतले नीलनीरदनिभा गणास्तदा ।
विद्रन्नरवितीर्णमार्गया सर्वत: समचरन्त लीलया ॥१९॥
भूतनाथनटने दिदृक्षया भूतलेऽवतरतां दिवौकसाम् ।
उन्मुखक्षितिमयूरवीक्षितो दुन्दुभिध्वनिरभूदथाध्वनि ॥२०॥
निर्जरानथ कदाप्यनीक्षितानीक्षितुं भुवि दिवोऽवरोहत: ।
दिव्यदुन्दुभिरवावकर्णनात्सन्ननाह कुतुकी नृणां गण: ॥२१॥
अम्बरे ददृशिरेऽथ सुन्दरा हाटकाड्गदकिरीटकुण्डला: ।
अच्चलालिखितहंसवासस: पश्चविंशवयसो दिवौकस: ॥२२॥
तेषु मेषवरवाहनश्चतु: श्रृड्गमौलियुगल: शिखोज्ज्वल: ।
स्रक्स्रवादिवहबाहुसप्तक: प्रत्यदृश्यत हुताशनस्त्रिपात् ॥२३॥
साध्वसेन शिवभक्तसंनिधिं य: स्थित: परिहरंश्चिरादपि ।
तं मृकण्डुतनये कृतागसं शाम्भवा ददृशुरम्बरेऽन्तकम् ॥२४॥
मूर्तयामुनतरड्गवल्लरीविभ्रमावहमहासिभासित: ।
पाणिराननमुदग्रदंष्ट्रमप्याचचक्ष इव नैऋतं नृणाम् ॥२५॥
दन्तलग्नजलमर्त्यजाड्गलक्रूरदूरविवृतास्यकन्दरम् ।
आगतस्य वरुणस्य मानवास्तत्र वाहनमवेक्ष्य तत्रसु: ॥२६॥
योऽधिरुह्य पृषतं करे वहन्केतुमत्वस्त पासुकेतन: ।
तं नरा निरणयन्धिया स्वया तातमाशरपुरीदह: कपे: ॥२७॥
अग्रिसिन्ध्रुतरिविभमस्पृशा निष्पपात दिवि पुष्पकेण य: ।
तं गदोज्ज्वलभुजं महाड्गदं किन्नराधिपमलोकयन्नरा: ॥२८॥
चन्द्रखण्डकृतचारुशेखर: पुण्डरीकदलपाण्डराकृति: ।
शूलपाणिरहिजालभूषण: प्रादुरास वृषवाहनो हर: ॥२९॥
राहुरुज्झति मुहुर्निगीर्य मां पालयेति शशिनेव सेवित: ।
आतपत्रवषुषा स चाययौ वज्रपाणिरिभराजवाहन: ॥३०॥
रम्भयास्य चरमोपविष्टया चामरव्दयमधूयताभित: ।
लोलहंसमिथुनान्तरस्फुरत्पद्म चारु विदधे यदाननम् ॥३१॥
मेनकापि विततार वीटिकां चन्द्रखण्डसुरभि शचीपते: ।
तेन सा हि जगृहे मृणालिका दन्तिनेव करिणीकरार्पिता ॥३२॥
अग्रतस्तदनु सिध्दचारणा वारणाधिपधृतस्य वज्रिण: ।
वृत्रजम्भवलपाकपातनख्यातमस्तुंवत बाहुविक्रमम् ॥३३॥
तच्चिदम्बरपुरं पुरंदरे साकमम्बरचरै: समागते ।
प्राड्गनटेशनटनादहो मुदा तत्र मर्त्यहृदयान्यनर्तिषु: ॥३४॥
शड्खमर्दलमृदड्गदुन्दुभिध्वानसंकथितमुत्सवं तदा ।
वीक्षितुं किमु जनस्य नाविशन्कर्णरन्ध्रमितरेतरोक्तय: ॥३५॥
रेजिरे दिगधिपा: वनौकसो व्याघ्रपाद्रणवरा: पतज्जलि: ।
पौरजानपदमानवास्तदा संमता: कनकसंसदन्तरे ॥३६॥
यावदन्तरनघ: पतज्जलिर्ध्यातुमीशमामीलदक्षिणी ।
तावदागमशंसि धूर्जटे: काहलीरणितमाशु शुश्रुवे ॥३७॥
येन नि: सरति काहलीरवस्तत्र वर्त्मनि जना दृशो दधु: ।
लोचनानि निदधुश्च यत्र ते तत्र संन्यध्रित शंकर: स्वयम् ॥३८॥
दर्शनोत्सुकसुपरपड्क्तयहंपूर्विकापरिगताग्रभूमिकम् ।
नन्दिहस्तधृतवेत्रसंगमत्राससंकुचदवेक्षकाड्गकम् ॥३९॥
चन्दनद्रवसमुक्षणक्षणक्षिप्तपुष्पचयसिध्दचारणम् ।
सान्द्रितध्वजपताकितान्तरस्निग्धगत्यगरुधूपवल्लिकम् ॥४०॥
मर्दलानुगुणनृत्यदप्सर: पादनूपुरनिनादमेदुरम् ।
संनिधानगतदिव्यमागधप्रस्फुरज्जययोक्तिबन्धुरम् ॥४१॥
आगतेभमुखमूषिकश्रमश्वासतृप्तदलंक्रियोरगम् ।
आपतद्रुहशिखण्डिताण्डवप्रकरमिप्रमथडिण्डिमारवम् ॥४२॥
तुन्दिलैकगणधारितामलच्छत्रमच्छशशिखण्डमण्डितम् ।
उक्षवाहनमुमासन्वितं तं ददर्श गिरिशं पतज्जलि: ॥४३॥
वामपार्श्वगतवारिजेक्षणं दक्षिणेऽम्बुजभुवा कृताज्जलिम् ।
वन्दितं चरमभागमाश्रितैर्वासवप्रभृतिभि: सुपर्वभि: ॥४४॥
सर्वतोऽपि सनकादिभिर्मुदा सेव्यमानमृषिभिश्चिरंतनै: ।
नारदेन महतीं नखाश्चलैर्विध्यता च मृदुगीतवैभवम् ॥४५॥
नूपुरोरगफणामणिश्रियामड्कुरैररुणितेन योऽड्घ्रिणा ।
नूतनातपनिपातपाटलं पश्यतां हृदि निनाय पड्कजम् ॥४६॥
भालपावकहुते स्मरे रतावप्यपास्तविहृतौ वृथास्थितौ ।
केलिरत्नमुकुराविवैतयोर्जानुमण्डलमिषाव्दिभर्ति य: ॥४७॥
व्याघ्रचर्मपरिकर्मशालिनी सक्थिनी गुरुतरे दधाति य: ।
देवदैत्ययुधि दिग्गजेन्द्रयोरागृहीतकवचौ कराविव ॥४८॥
मण्डलं दिनकरस्य मध्यतो नीयमानमुनिनिर्मितान्तरम् ।
यस्य नूनमपदिश्य काश्चनं पट्टबन्धमुदरे विराजते ॥४९॥
भाति यस्य किल कण्ठलम्बिनी शंकराक्षमणिमालिकोरसि ।
कालकूटकलुषीकृता गलान्निर्गतेव निगमाक्षरावली ॥५०॥
कृष्णसर्पक्रृतचारुकड्कणैर्यश्चतुर्भिरपि भाति बाहुभि: ।
शक्रवाहनगज: शशिप्रभैरिन्द्रनीलवलयै रदैरिव ॥५१॥
भासमानभसितत्रिपुण्ड्रयायो ललाटतुहिनांशुलेखया ।
पश्चबाणवपुरिन्धनानलं लोचनं वहति कुड्भलीकृतम् ॥५२॥
यस्य मौलिरपि धातृसौधभूनिर्गताभ्रतटिनीपतजम् ।
फेनपिण्डमिव वेगवक्रितं कान्तमुव्दहति खण्डमैन्दवम् ॥५३॥
शंकरोऽथ चलमौलिजाह्नवीवारिपूरणरणत्करोटिकम् ।
दक्षिणेतरकरावलम्बितश्रीशपाणि वृषभादवातरत् ॥५४॥
सोऽवतीर्य गिरिसन्निभाव्दृषात्साकमद्रिसुतया सविभ्रमम् ।
प्राविशत्कनकसंसदन्तरं पश्यताम्वि शरीरिणां मन: ॥५५॥
तापसप्रमथदेवमानवै: सान्द्रिता विलसति स्म सा सभा ।
शंकरेण मधुनेव चारुणा भूरिभूरुहकरम्बितावनी ॥५६॥
अज्जलिस्तबकितेन मौलिना कीर्तिवर्णनकृता मुखेन च ।
जन्मिनो जनिशमार्थमर्ह्तयामासुरीशमचिरेण नर्तितुम् ॥५७॥
व्याघ्रपादमृषिमीरितस्तवं तं पतज्जलिमपि स्तवोन्मुखम् ।
वीक्ष्य शीतलदृशा शिवोऽवदन्नर्तनं मम निरीक्ष्यतामिति ॥५८॥
नर्तनाय गिरिशे कृतत्वरे चत्वरे महति हेमसंसद: ।
मास्तु शब्द इति वेत्रपाणिना सर्वतो जगदतर्जि नन्दिना ॥५९॥
सिध्दचारर्णकरान्तनिर्गलन्मुग्धपुष्पनिचये सभान्तरे ।
नन्दितर्जनवशात्कुतूहलादप्यतिष्ठदपसंकथो जन: ॥६०॥
तत्र शंकरकटाक्षचोदितश्चारुमर्दलमवादयध्दरि: ।
य: पयोद इति पुष्कराश्रितो नीलकण्ठनटनोचितध्वनि: ॥६१॥
कामजिन्नटनकारणेन वा भारतीकुचयुगभ्रमेण वा ।
तत्र तालयुगलीमथाददे पाणिपड्कजयुगेन पद्मभू: ॥६२॥
रम्भया हॄतरसे रदच्छदे वंशनालमवसज्य वासव: ।
वादनादपि विमोहयज्जनानाददे किल न वासवस्थितिम् ॥६३॥
वादय द्रुतमितीव शंसता स्फाटिकाक्षवलयेन दक्षिणे ।
आश्रिता श्रवसि चारुवल्लकी वादनं व्यतनुत प्रियाविधे: ॥६४॥
आयतेन फणिना जटाभरं मध्यभागमिभचर्मकक्ष्यया ।
बध्रत: प्रैयतमस्य नर्तितुं वीक्ष्य संभ्रममुमा स्मितं व्यधात् ॥६५॥
वीक्षणोचितममांसचक्षुषा नर्तनोत्सवमवेक्षितुं निजम् ।
शंभुना सकलदेहिनां तदा दिव्यमक्षि दिदिशे दयालुना ॥६६॥
संददर्श सपदि भ्रमज्जटाताडितोडुपटलं तदा जन: ।
व्यालनूपुररणत्पदार्पणन्यश्चितक्षिति नटेशनर्तनम् ॥६७॥
धर्मवारिकणकन्दलद्रवद्द्भस्मपुण्ड्र्परिकर्मितालिकम् ।
कण्ठलम्बितहराक्षमालिकाच्छेदकीर्णमणिहारि किंकरम् ॥६८॥
मध्यसीम्रि गलिताहिबन्धनव्याकुलव्दिरदचर्मकक्ष्यकम् ।
पादताडितधरातलक्रमप्रोन्मिषत्पतपटायिताकुलम् ॥६९॥
मण्डलभ्रमिषु कीर्णजाह्नवीशीकरस्रपितचक्रवालकम् ।
बाहुवेगपवनाभिपूरितक्रन्ददन्तरदिगद्रिकन्दरम् ॥७०॥
उध्दृतैकचरनाम्बुजप्रभासृज्यमानपरिवेषविग्रहम् ।
उत्पलोदरसहोदराम्बिकालोचनान्तवलनैकगोचरम् ॥७१॥
शम्बरीयवनिकामथाक्षिपन्यसप्रपश्चमयनर्तनं शिव: ।
द्रगदर्शयत गोणिकासुतं व्याघ्रपादमितरानृषीनपि ॥७२॥
तेन ते स्वयमिदं जगन्मृषा जानते स्म परमार्थत: पुन: ।
ब्रह्म तत्परमनादि सच्चिदानन्दलक्षणमनन्तमव्दयम्  ॥७३॥
इत्यवेक्ष्य नटनं जगत्पतेर्भक्तिभारलुलितेन चेतसा ।
तुष्टुवुस्तमखिला: शरीरिण; श्रेयसा स समयोजयच्च तान् ॥७४॥
नृत्तं तत्फणिपतये स दर्शयित्वा
प्राहेदं प्रणयकिरा गिरा गिरीश: ।
त्व कृत्वा भुवि पदशास्त्रवार्तिकानां
भाष्यं तव्दिवृणु ततो दिवं व्रजेति ॥७५॥
आज्ञाप्यैवं  फणिनमपरान्सोऽनुगृह्याक्षिपातै -
र्गौर्या साकं विधिहरिगणैश्चापि शंभुस्तिरोऽभूत् ।
हर्षाश्चर्यास्तिमितहृदयौ व्याघ्रपाद्रौणिकेया -
वस्तूयेतामृषिभिरनटद्यत्कृते चन्द्रचूड: ॥७६॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते चतुर्थ: सर्ग: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-05-02T06:28:37.6900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

टोटकें

  • न. १ लाकडाचा ओंडका ; ठोकळा . २ टेणपा . 
RANDOM WORD

Did you know?

What is the Sati Practice?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site