TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

पतज्जलिचरितम् । प्रथम सर्ग: ।

श्रीरामभद्रदीक्षितप्रणीतं पतज्जलिचरितम् ।
भारतीय साहित्यात पतंजलिने लिहिलेले ३ मुख्य ग्रन्थ मिळतात - योगसूत्र, अष्टाध्यायी वर भाष्य आणि आयुर्वेदावर ग्रन्थ.


पतज्जलिचरितम् । प्रथम सर्ग: ।
रुन्धन्समन्ताव्दलयं धरण्या दधाति य: स्वच्छदुकूललीलाम्  ॥१॥
तरड्गिणी वारुणराजधानीधेनुस्तनप्रस्रुतदुग्धजन्मा ।
बहिष्प्रसर्पद्भुजगाधिराजभड्गीमिवाड्गीकुरुते यदग्रे ॥२॥
अन्ये गुणा: सन्ति तथापि मन्ये माधुर्यमन्यादृशमेव यस्य ।
यतो मधुव्देषकृदेव जातो निषेवमाण: पुरुषो यदम्भ: ॥३॥
घना यत: प्रावृषिका गृहीत्वा पयांसि शड्खोदरपाण्डुराणि ।
दरीगृहान्तर्गतभूतसड्घा: कैलासशैला इव संचरन्ति ॥४॥
मन्थभ्रमन्दरवेगकीर्णान्व्योमाड्गणे वारिकणान्यदीयान् ।
विद्याधरीविभ्रममौक्तिकाभानद्यापि पश्यन्त्युडुकैतवेन ॥५॥
यमुद्रतैरावतदानधारानि: ष्यन्दनीलीभवदेकदेशम् ।
तटस्थमास्वादितकालकूटं भर्गं समं प्राग्ददृशु: सुरेन्द्रा: ॥६॥
उदेष्यता पूर्वमुडुप्रियेण विशिष्य यस्मिन्गमिते विवृध्दिम् ।
मन्थाद्रिश्रृड्गे वसता शिवेन क्षीराभिषेक: क्षणमन्वभावि ॥७॥
यस्यानुलिप्त: क्षणमुद्रतश्रीकराब्जकिज्जल्करजोभिरुर्मि: ।
कुलाद्रिकन्याकुचकुड्कुमाड्कं विड्म्बयामास भुजं पुरारे: ॥८॥
मन्थानशैलभ्रमिवातनुन्नै: प्रादुर्भवत्कल्पतरुप्रसूनै: ।
सुगन्धिभिश्चारुसुधारसानामुदित्वराणामुपचस्करे य: ॥९॥
यो मन्दरेण क्षुभितोऽपि गाढं पुंसा पुरोभागमुपेयुषेव ।
सतां कवीनामिव शब्दबन्धोरसंबुधानां रुचिरं व्यतानीत् ॥१०॥
आत्तेन यस्मादमृतद्रवेण जीवन्ति देवा इति नात्र चित्रम् ।
विषं निपीयापि यत: समुत्थं व्यजेष्ट किं नान्तकमष्टमूर्ति: ॥११॥
मरुद्रणैर्यन्मथनावसाने तटार्पिता वासुकिमन्थरज्जु: ।
दिगन्तसान्द्रीकृतदुग्धगन्धं तरड्गवाताड्कुरमाचचाम ॥१२॥
निर्मथ्य यं साधु यथास्वदेशं निर्लिपलोकैर्दिवि नीयमान: ।
यतो यतो याति स मन्दराद्रिस्ततस्ततोऽभूयत दुग्धवृष्टया ॥१३॥
पयांसि यस्य प्रथमं पविष्टान्यादाय मन्थाचलकन्दरेषु ।
पुष्णन्ति यत्नेन विनैव भूता भूतेशभूषाभुजगानजस्रम् ॥१४॥
सारज्ञ एक: स सरोरुहाक्षो जज्ञे सुधाजृम्भितसौरभेय: ।
यदन्तराले जलन्तुशून्ये कदापि मीन: कमठ: कदापि ॥१५॥
तस्यान्तरे श्रान्त इवागमान्तकान्तारसंचारवशादशेत ।
फणीन्द्रशय्यां पवमानतूलैरापूरणीयामधिरुह्य शौरि: ॥१६॥
कदाचिदासादितयोगनिद्रमभूतपूर्वेण वपुर्गरिम्णा ।
अधोक्षजं वोढुमदक्षिणोऽभूत्पर्यड्कभूत: फणिनामधीश: ॥१७॥
निरुध्दमुक्तश्वसितस्तदानीमभीक्ष्णमच्छूनकृशं फणीन्द्र: ।
मतड्गजक्लिष्टमृणालकल्पमनेकधा वृत्तमधत्त भोगम् ॥१८॥
संभ्रान्तदृक्पश्चशतीचतुष्को जिह्वासहस्रव्दयलीढसृक्का ।
शतैर्मुखानां दशभिर्विमुश्चन्फूत्कारमुग्रं ददृशे स शेष: ॥१९॥
तं तादृशं वीक्ष्य पलायितेषु सनत्कुमारादिषु तापसेषु ।
समीपमागत्य बली गरुत्मान्पर्याकुल: किंचिदिदं बभाषे ॥२०॥
न दृश्यते शेष भवान्पुरेव वदाधुना किं तव वैमनस्वम् ।
प्रज्ञां बलं धैर्यमुदारतां च पश्यामि नान्यस्य तवेव लोके ॥२१॥
निबध्य चण्डेन समीरणेन स्पर्धां पुर दुर्धरभोगभीम: ।
चकर्थ तं मेरुगुहान्तरे त्वं चच्चत्फणामण्डलरुध्दवेगम् ॥२२॥
विशालमूर्वीवलयं तरखी सशैलकान्तारनदीसमुद्रम् ।
त्वमुत्तमाड्गस्य समुन्नतस्य महत्तमोष्णीषदशामनैषी: ॥२३॥
गत्वैव धातुर्भुवनं युगान्ते कृतस्तुति: प्राज्जलिभिर्मुनीन्द्रै: ।
विसृष्टफूत्कारविषानलस्त्वं विश्चत्रयं घक्ष्यसि दुर्निरीक्ष्य: ॥२४॥
जगत्रयं यो जठरे बिभर्ति विश्वानि भूतानि च यस्य पाद: ।
भोगेन बिभ्रत्पुरुषं तमाद्यं भवान्न वेद्य: परमेष्ठिनोऽपि ॥२५॥
संजल्पितै: किं समरे गृहीत्वा कारागृहं यो रुरुधे महेन्द्रम् ।
तस्यापि लड्केशसुतस्य हन्ता स लक्ष्मणस्ते किल मूर्तिभेद: ॥२६॥
इत्थं गरुत्मन्तमुदीरयन्तं स दुर्वहश्रीशशरीरखिन्न: ।
कथंचिदालम्ब्य धृतिं फणीन्द्रो गिरा शनैर्गद्रदया जगाद ॥२७॥
मुरव्दिषो मूर्तिरियं पुरेव मयाद्य धर्तुं महती न शक्या ।
परीक्षितुं मां गरिमा धृत: किमनेन सत्वं मम वा गृहीतम् ॥२८॥
इति ब्रुवन्नेव स पन्नगेन्द्र: शरीरभारेण हरेश्चचाल ।
खगेश्वरो मन्दरगौरवाभ्यां तदा भुजाभ्यां द्रुतमाललम्बे ॥२९॥
किमेतदित्युज्झितकेलिपद्मा पयोधिकन्यापि तदा भयेन ।
नवाम्बुजाभेन नवाम्बुजाभं निष्पीडयामास करं करेण ॥३०॥
तत: स्फुरत्पद्यदलाभिरामं प्रमोदबाष्पाउलपक्ष्ममालम् ।
उद्राढरोमाश्चितमूर्तिरक्ष्णोरुन्मीलयामास युगं मुरारि: ॥३१॥
लघूभवन्तीमथ तस्य मूर्ति लक्ष्मीपतेर्वोढुमहि: शशाक ।
जहर्ष च श्रीर्धृतकेलिपद्मा यथास्थितं विष्णुरथश्च तस्थौ ॥३२॥
प्रणम्य भवत्या परम पुमासं पिप्रच्छिषुस्तत्तनुभारहेतुम् ।
विव्दत्प्रियान्व्याकरणानुशिष्टान्प्रायुड्ग शब्दान्पवनाशनेन्द्र: ॥३३॥
यदि प्रसादो मयि यद्यहं च श्रोतुं जगन्नाथ भवामि योग्य: ।
वदात्र हेतुं यदशिश्रियस्त्वमभूतपूर्वं वपुषो गुरुत्वम् ॥३४॥
इत्युक्तमीशेन भुजंगमानां श्रुत्वा मुकुन्द: स्मितकन्दलेन ।
मुक्तवफलालंकॄतविद्रुमाभं बिम्बाधरं बिभ्रदवोचदेवम् ॥३५॥
श्रृणु त्वमाश्चर्यमिदं फणीन्द्र शुश्रूषरुध्दाटय दृशां सहस्रे ।
साम्यं बिभर्ति स्मरतो यदन्त: कायेन मे कुडलित: कदम्ब: ॥३६॥
निरुध्दनिश्वासमवाप्य योगं स्थिरीकृते धारणया च चित्ते ।
अदृश्यत द्रागपनीतमायानैपथ्यमीशस्य परस्य नृत्तम् ॥३७॥
अस्मत्करासड्गरणन्मृदड्गं चतुर्मुखास्फालितचारुतालम् ।
बिडौजसोदश्चितवेणुनादं वाणीकरक्काणितवल्लकीकम् ॥३८॥
कपर्दलोलाभ्रन्दीतरड्ग घर्माम्बुसिक्तालिकभस्मपुण्ड्रम् ।
भुजान्तरोद्भूतग्भुजड्गहारं कटीविराजत्करिचर्मकक्ष्यम् ॥३९॥
अमर्त्यलोकैरनिमेषभावमासादितं शश्वदभिष्टुवद्भि: ।
अवेक्ष्यमाणाद्भुतसंनिवेशशिज्जानमज्जीरपदारविन्दम् ॥४०॥
अनल्पकल्पद्रुमपुष्पवर्षे चिदम्बरे हेमासभान्तराले ।
कलीसमक्षं कलितप्रमोदै: प्रशस्यमानं मुनिभि: पुराणै: ॥४१॥
आनन्दनृतं नटनायकस्य क्षेमं ददव्दृष्टवते जनाय ।
यावन्मयादर्शि फणीन्द्र तावत्त्वया वपुर्गौरवमन्वभावि ॥४२॥
इति ब्रुवाणं रमणं रमाया नूनं तदुक्तिश्रवहर्षनुन्न: ।
गलत्प्रमोदाश्रुकणापदेशादानर्च मुक्तामणिभि: फणीन्द्र: ॥४३॥
रोमाश्चिते तस्य शरीरमच्चे क्षणं विनिन्ये नलिनेक्षणोऽपि ।
कुरड्गदष्टाग्रकुशप्ररोहे करीव तीरे कमलाकरस्य ॥४४॥
श्रीश त्वदुक्तिश्रवणेन नीते चक्षु: सहस्रे मम चारितार्थ्यम् ।
तथापि पश्येयमवश्यमैशं नृत्त प्रसीदेत स तं ययाचे ॥४५॥
स याचमानाय सरोरिउहाक्षस्तस्मै पुनर्विस्मयमादधान: ।
कथामथो माक्षिकमाक्षिपन्त्या भुजड्गराजाय गिरा जगाद्‍ ॥४६॥
पणीति कश्चिन्मुनिरस्ति पूर्वं स पाणिनं नाम कुमारमाप ।
स्वतुल्यनाम्रा तनयेन सोऽपि दाक्षीमुदूढा दृढमभ्यनन्दत् ॥४७॥
स पाणिनो दक्षभुवा पुरन्ध्र्या रिपु: पुराणामुमयेव रेमे ।
काले मुनि: स्कन्द इव प्रसूतो हर्षं तयो: पाणिनिरप्यकार्षीत् ॥४८॥
तपोभिराराधयत: कठोरैस्तस्य प्रसन्नस्तरुणेन्दुचूड: ।
अघोषयद्दण्डविघट्टनेन चण्डं करस्थं डमरुं पुरस्तात् ॥४९॥
शब्दावलेर्व्याकरणं चिकिर्षोस्तदा मुने: पाणिनिसंभवस्य ।
मृडस्य चण्डा डमरुप्रणादा: शास्त्रादिसूत्राणि चतुर्दशासन् ॥५०॥
इतीश्वरानुग्रहतो निबध्रन्सूत्राणि स व्याकृत शब्दजालम् ।
सुष्ठु प्रयोगं कथयन्ति यस्य स्वर्लोकसोपानपरंपरेति ॥५१॥
कात्यायन: कर्कशया प्रसाद्य तपस्यया चन्द्रकलावतंसम् ।
तस्याथ सूत्रेषु पदार्थबोधप्रवर्तकं वार्तिकव्माबबन्ध ॥५२॥
प्रयुक्तया व्याकरणस्य सूत्रै: सवार्तिकै: साधुतया पदानाम् ।
अदुग्ध गौर्लौकिकवैदिकात्मा चिराय दुग्धं त्रिदिवं जनानाम् ॥५३॥
श्रुत्वा निजस्योपरि वार्तिकानि सूत्रप्रबन्धस्य स सूत्रकार: ।
कात्यायनेन ग्रथितान्यकुप्यकालो हि धीरेऽपि करोति मोहम् ॥५४॥
प्रकम्पितोष्ठ परिवर्तिताक्षं पादक्रमन्यश्चितभूमिभागम् ।
तमाश्रमं पाणिनिराजगाम कत्यायनस्तिष्ठति यत्र योगी ॥५५॥
तमापतन्तं कुपितं मुनीन्द्रो दृष्ट्रापि सज्जीकृतपाद्यपात्र: ।
कात्यायन: प्रत्युदगान्न यावत्तं पाणिनिस्तवदृषिं शशाप ॥५६॥
यस्मादविज्ञाय मम प्रभावं वृषध्वजानुग्रहभाजनस्य ।
सूत्रेष्वनुक्तोक्तदुरुक्तचिन्तावृथोद्यमं वार्तिकमातनिष्ठा: ॥५७॥
तस्मात्पतेदेव तनुस्तवेयमित्युध्दतं पाणिनिशापवाक्यम् ।
आकर्ण्य तूर्णं स विवृध्दमन्यु: कात्यायनोऽपि प्रति तं शशाप ॥५८॥
भवानजानन्भगवत्प्रसादविवर्तभूतान्यपि वार्तिकानि ।
मह्यं यत: शापमदान्मदेन ततो विशीर्येत तवापि मूर्धा ॥५९॥
इति त्रयोदश्यभिधानवत्यां तिथौ मिथ: शापविसृष्टदेहौ ।
उभौ मुनीन्द्रौ स्वकृतैस्तपोभि: पत्यु: पशूनां पदमाश्रयेताम् ॥६०॥
आचार्ययोरद्भुतबोधभाजोरालोचयन्त: परलोकयात्राम् ।
तदादि वैयाकरणा महान्तस्तस्यां तिथौ न प्रसजन्ति शास्त्रम् ॥६१॥
ततो विवव्रे बुधमण्डलाय सवार्तिकं पाणिनिसूत्रबन्धम् ।
स व्याघ्रभूति: सह पाणिनीय: श्वोभूतिना वाक्यकृदाश्रवेण ॥६२॥
भोगीन्द्र तेषां भुवि वार्तिकानामशेषविव्दज्जनदुर्ग्रहाणाम् ।
भाष्यं महत्कुर्विति भक्तरक्षी नियोक्ष्यते त्वां किल नीलकण्ठ: ॥६३॥
तदा नियोगात्तरुणेन्दुमौलेर्धरातले त्वं विहितावतार: ।
चिदम्बरक्षेत्रग: पवित्रं नेत्रोत्सवं द्रक्ष्यसि नृत्तमैशम् ॥६४॥
इति मुरमथनोक्त्या मोदमान: फणीन्द्र -
स्त्रिपुरहरनियोगं दीर्घकालादवाप्य ।
तदपि परिदिदृक्षुस्ताण्डवं चन्द्रमौले -
रवतरितुमवन्यामंशतश्चाशशंसे ॥६५॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वन: कृतौ पतज्जलिचरिते
प्रथम: सर्ग: ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2018-05-02T06:25:01.5630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

उधृता

  • स्त्री. वर धरलेली ; एक . लगामाचा प्रकार . - अश्वप १८५ . [ उद + धृता , अप ] 
RANDOM WORD

Did you know?

केस काढण्यासंबंधी विशेष माहिती द्यावी.
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.