TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

अनङ्गप्रभाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


अनङ्गप्रभाख्यायिका
गोमुखेनेति कथितं निशम्य नरवाहनः ।
बभुव दयितासङ्गसंकल्पधाननिश्चलः ॥७२॥
राजधानीमथाभ्येत्य निःसहो निःश्वसन्मुहः ।
नान्तःपुरे न हर्म्येषु नोद्यानेषु धृतिं ययौ ॥७३॥
सुहृद्भिः सहितो वीतनिद्रस्तत्कथया निशाम् ।
दीर्घां निनाय कृच्छ्रेण रत्नद्वीणे निषक्तदृक् ॥७४॥
ततः प्रभाते श्रीकण्ठं प्रणम्य पितरं तथा ।
वरोद्यानस्थितोऽपश्यत्कान्तिपिञ्जरितं नभः ॥७५॥
ततोऽदृश्यत लोलाक्षी पित्रा सह नभस्तलात् ।
अवतीर्णा स्वयं मात्रा भ्रात्रा चाधिकभूषिताम् ॥७६॥
तां चन्द्रवदनां दृष्ट्वा सानुगो नरवाहनः ।
भेजे पीयूषसिक्तस्य छायाममरशाखिनः ॥७७॥
वत्सराजेन संयम्य तां सुतां खेचरोत्तमः ।
नरवाहनदत्ताय दिव्येन विधिना ददौ ॥७८॥
विद्याधरेन्द्रतनयां तां प्राप्य हरिणेक्षणाम् ।
तद्धाम सुन्दरपुरं प्रययौ पितुराज्ञया ॥७९॥
मन्दारवल्लीलैते स तत्र दयितासखः ।
सानुगः सुचिरं स्थित्वा कौशाम्बीं पुनराययौ ॥८०॥
ततोऽभिनवसंभोगामवाप्यानन्ददीक्षितः ।
अलंकारवतीं कान्तां ललास नरवाहनः ॥८१॥
कदाचिदथ पौरस्त्री काचिन्मुखरभूषणा ।
भीता सभार्यं शरणं वत्सराजात्मजं ययौ ॥८२॥
परिसान्त्व्य शनैः पृष्ट्वा तेन सा प्राह सुन्दरी ।
स्वत्रासकारणं तन्वी कम्पमाना घनस्तनी ॥८३॥
देवाहं बलसेनस्य तनया क्षत्रजन्मनः ।
अशोकमालात्रैलोक्यरक्षार्हं परिरक्ष माम् ॥८४॥
हठशर्माभिधानेन पापमाश्रित्य पापिना ।
अनिच्छन्ती वृता देव कुरूपेण द्विजन्मना ॥८५॥
तेन निन्दितरूपेण परिणीता बलादहम् ।
कान्तेन संगतान्येन रूपलुब्धा हि योषितः ॥८६॥
ततो यदृच्छयायातां पथि दृष्ट्वाथ मां रुषा ।
आकृष्टखङ्गः सावेगमागतो मद्वधोद्यतः ॥८७॥
तद्भीता शरणं देवीमलंकरवतीमहम् ।
यातेत्याकर्ण्य तं विप्रमानिनाय नृपात्मजः ॥८८॥
स पृष्टो ब्राह्मणः प्राह मर्तुमाहितनिश्चयः ।
देवैनां हन्मि दुःशीलां स्त्रियं प्राणांस्त्यजामि वा ॥८९॥
अथाशरीरिणी वाणी प्रोच्चचार नभस्तलात् ।
इयं विद्याधरी शापात्पित्रोर्मर्त्यत्वमागता ॥९०॥
तुषारशिखरे रम्ये पञ्चकूटाभिधे पुरे ।
अस्त्यशोचवरो नाम विद्यादह्रमहीपतिः ॥९१॥
अशोकमाला तस्येयं तनया स्नेहभाजनम् ।
विद्याधरैर्याच्यमाना विवाहं नाभ्यमन्यत ॥९२॥
यदा तदा रुषा पित्रा शप्तेयं रूपमानिनी ।
विरूपा मानुषी भूत्वा द्वेष्यं भर्तारमाप्स्यसि ॥९३॥
इति शापादियं बाला प्राप्ता तच्छासनं भुवि ।
शापोऽधुनास्याः प्रक्षीणो वागित्युक्त्वा शशाप सा ॥९४॥
ततो मर्त्यशरीरं सा परित्यज्य स्वविद्यया ।
अशोकमाला प्रययौ व्योम्ना विद्याधराङ्गना ॥९५॥
हठशर्मापि संस्मृत्य जातिं स्मृत्वा विरूपताम् ।
वैद्याधरं वपुः प्राप्य प्रोवाच नरवाहनम् ॥९६॥
अहं लम्बभुजाख्यस्य विद्याधरपतेः सुतः ।
युवा स्थूलभुजो नाम कन्यां प्राप्तां स्वयंवरे ॥९७॥
कान्तां सुरभिदत्ताख्यामनादृस्य स्मरातुराम् ।
गुरुशापाद्विरूपत्वं प्राप्तोऽहं मर्त्यतां गतः ॥९८॥
इत्युक्त्वा क्षीणशापोऽसौ द्विजः प्रायाद्विहायसा ।
प्रियं कलेवरं त्यक्त्वा जाह्नव्यां तुहिनाचले ॥९९॥
तद्वीक्ष्य विस्मितं प्राह गोमुखो नरवाहनम् ।
श्रृणु स्त्रीचरिताश्चर्यमत्रैव कथयाम्यहम् ॥१००॥
महावराह इत्यासीद्वीरः शूरपुरे नृपः ।
वराह इव विस्तीर्णाम भुजेनोवाह यो भुवम् ॥१०१॥
तस्यानङ्गवती नाम सुन्दरी तनयाभवत् ।
तत्याज सायकान्मन्ये यत्कटाक्षाधरः स्मरः ॥१०२॥
शूरः स्वरूपो बलवान्भर्ता योग्यो ममेति सा ।
निजोद्वाहविधौ चक्रे प्रतिज्ञां दृढनिश्चया ॥१०३॥
तत्द्याचकेषु विमुखं यातेष्वखिलराजसु ।
चत्वारो वीरपुरुषा दाक्षिणात्याः समाययुः ॥१०४॥
ते तमेत्य महीपालं कन्यकां तां ययाचिरे ।
क्रमेण कर्म जातिं च निवेद्य मदनेरिताः ॥१०५॥
एकोऽब्रवीद्युवा शूरो दानशूरो वराकृतिः ।
अहं पञ्चपुरो नाम मह्यं कन्या प्रदीयताम् ॥१०६॥
अपरः प्राह वैश्योऽहं भाशाज्ञः सर्वपक्षिणाम् ।
उवाचान्यः क्षत्रियोऽहं वीरः खङ्गधराभिधः ॥१०७॥
चतुर्थोऽप्यवदद्विप्रो जीवदत्तोऽहमग्रजः ।
मृतसंजीवनाभिज्ञो दैवात्किं तु दुराकृतिः ॥१०८॥
इति तैरर्थितां पुत्रीं प्रहृष्टः पृथिवीपतिः ।
ईप्सितः कस्तवेत्याह सा च पृष्टा तमब्रवीत् ॥१०९॥
द्विजसूनुर्विरूपोऽयं वैश्यशूद्रौ च सेवकौ ।
अराजा क्षत्रियश्चायमित्युक्त्वा नाभय्मन्यत ॥११०॥
प्रतीहारगृहे राज्ञा ततस्ते विहिताश्रयाः ।
न्यवसन्पूजिताः किंचित्कालं परिणयाशया ॥१११॥
ततः कदाचिन्मृगयासक्तस्य वसुधापतेः ।
अदर्शयन्वने तस्य हत्वा सिंहान्पराक्रम म् ॥११२॥
तेषां शौर्यं समालोक्य सुतां प्राह महीपतिः ।
भजैकं पुत्रि नैतेषां तुल्यं पश्यामि भूपले ॥११३॥
इत्युक्त्वा नृपतिः पुत्रीं पप्रच्छ गणकं ततः ।
ब्रूह्यनङ्गवतिः कस्य भाविनीयं वधूरिति ॥११४॥
नृपेण पृष्टो दैवज्ञः सोऽवदद्दिव्यलोचनः ।
सुता विद्याधरीयं ते शापान्मर्त्यपदं स्थिता ॥११५॥
याते मासत्रये शापं त्यजत्येषा सुलोचना ।
गणकस्येति वचनं श्रुत्वाश्चर्यं महीपतिः ॥११६॥
चतुर्भिः सहितो वीरः संदेहाकुलितोऽभवत् ।
ततो मासत्रये याते सा परित्यज्य सुन्दरी ॥११७॥
तनुं मर्त्योचिता बाला प्राप्य वैद्याधरं पदम् ।
ततः सुतावियोगार्तस्तत्रासीनः पुरे नृपे ॥११८॥
विस्मृते जीवदत्तस्य मन्त्रे च मृतजीवने ।
( वीरेषु तत्र यातेषु तत्संगमनिरासताम् ।
आश्वास्यमाने तेनैव दैवज्ञेन महीपतौ ॥११९॥
जीवदत्तस्तनुत्यागे दृढनिश्चयमानसः ) ।
निजं खङ्गेन दुःखार्तः शिरश्छेत्तुं समुद्ययौ ॥१२०॥
अथोच्चचार वाग्व्योम्नो विप्र मा साहसं कृथाः ।
प्रसादाद्विन्ध्यवासिन्यास्तां प्राप्स्यसि मृगेक्षणाम् ॥१२१॥
इति श्रुत्वा स तपसे गत्वा विन्ध्यं द्विजस्ततः ।
कात्यायनीं निराहारस्तुष्टां स्वप्ने व्यलोकयत् ॥१२२॥
प्रणताय वितीर्यास्मै खङ्गरत्नं महन्निजम् ।
उवाच देवी तं पुत्र गच्छ प्राप्नुहि तां प्रियाम् ॥१२३॥
अस्ति वीरपुरे श्रीमांस्तुषागिरिशेखरे ।
विद्याभृत्समरो नाम सुता सा तस्य सुन्दरी ॥१२४॥
दर्पादमन्यत तया तुल्यरूपान्स्वयंवरे ।
पितानङ्गप्रभां पुत्रीं शशाप क्रोधमूर्च्छितः ॥१२५॥
विरूपं मानुषी भूत्वा ब्राह्मणं पतिमाप्स्यसि ।
( ततोऽनुपुरुषासङ्गं बहुशश्च समेष्यसि ) ॥१२६॥
परदारापहारेण प्राग्जन्मनि स च द्विजः ।
त्वद्वियोगाग्निसंतप्तो भविष्यति मुहुर्मुहुः ॥१२७॥
जनकेनेति शप्तासौ भुवि राजसुताभवत् ।
प्राप्ताद्य स्वपुरं दिव्यं गच्छ प्राप्नुहि तां प्रियाम् ॥१२८॥
( इति श्रुत्वा प्रबुद्धोऽसौ खङ्गं वीक्ष्य स्वहस्तगम् ।
तत्प्रभावोदितगतिर्ययौ व्योम्ना हिमाचललम् ॥१२९॥
तत्र विद्याधराञ्जित्वा समरे तां तदात्मजाम् ।
प्रापानङ्गप्रभां मूर्तां प्रभाविव मनोभुवः ॥१३०॥
तत्र विद्याधरपुरे स्थित्वा संभोगतत्परः ।
मनुष्यलोकं सोत्कण्ठो ययौ व्योम्ना तया सह ॥१३१॥
ततः शिखरिपर्यन्तविपुले कटकस्थले ।
फुल्लचूतलताहूतविलोलालिकुलाकुले ॥१३२॥
विजहार द्विजवरस्तया राजीवनेत्रया ।
तत्र लीलारतिश्रान्तः स निद्रामुद्रितेक्षणः ॥१३३॥
सुष्वाप तालपवनैर्व्यजनैरिव वीजितः ।
अत्रान्तरे मृगरणक्रीडायै तां वनस्थलीम् ॥१३४॥
राजा हरिवरो नाम दाक्षिणात्यः समाययौ ।
स तां विद्याधरीं दृष्ट्वा जीवविद्यां मनोभुवः ॥१३५॥
कम्पत्तरङ्गतां भेजे ज्योत्स्नामिव सरित्पतिः ।
( सापि तं वीक्ष्य राजानं रजनीराजसुन्दरम् ॥१३६॥
तन्न्यस्तमानसा प्राप कामपि स्मरविक्रियाम् ।
स्वयं कृताभ्युपगमां ततस्तां स महीपतिः ) ॥१३७॥
निनाय स्वपुरं हृष्टो धन्योऽस्मीति व्यचिन्तयत् ।
तस्य तत्केलिसक्तस्य तद्विभ्रमविकासिनः ॥१३८॥
कोऽप्यन्तःपुरसक्तेषु बभूव प्रचुरोत्सवः ।
जीवदत्तः प्रबुद्धोऽपि तामपश्यन्मनःप्रियाम् ॥१३९॥
वने शुशोच सुचिरं मृगीभिः साश्रुवीक्षितः ।
ततो ग्रामं शनैर्दृष्ट्वा तस्या दुःखात्पतिव्रताम् ॥१४०॥
प्रियादत्ताभिधां दिव्यचक्षुणा लोकिताखिलाम् ।
शुश्राव दयितावृत्तं स तयैव निवेदितम् ॥१४१॥
राज्ञा हरिवराख्येन सा नीतेति सविस्मयः ।
प्रणम्य दिव्यनेत्रां तां विरक्तः सोऽभवत्ततः ॥१४२॥
रागानलेन दग्धानां वैराग्यं जायते कुतः ।
स विन्ध्यवासिनीं गत्वा तावत्तेपे तपस्ततः ॥१४३॥
यावत्साक्षाद्भगवती तमुवाच कृताञ्जलिम् ।
गणस्त्वं मे विरूपाख्यः सहितोऽन्यैर्गणैस्त्रिभिः ॥१४४॥
कन्याभिलाषी मुनिना शप्तो मर्त्यत्वमागतः ।
अधुना क्षीणशापस्त्वं ते च प्राप्ताः पदं मम ॥१४५॥
इति देवीवचः श्रुत्वा गणतां प्राप स द्विजः ।
साप्यनङ्गप्रभा तस्य राज्ञः प्रणयिनीपदम् ॥१४६॥
संप्राप्य रागिणी विद्यां विसस्मार सुलोचना ।
ततो लब्धवराभिख्यो नाट्याचार्यो नरेश्वरम् ॥१४७॥
तत्त्यागिनं कलाभिज्ञो द्रष्टुमभ्याययौ युवा ।
संपूजितो भृशं राज्ञा चानङ्गप्रभया रहः ॥१४८॥
अशिक्षयन्नृपादेशान्नाट्यं तां जातमन्मथाम् ।
चित्रं करणशिक्षां ये देहीत्यभिहितत्सया ॥१४९॥
स तां स्वैरं शशिमुखीं भेजे सुरतकोविदः ।
सा गाढरागिणी तेन सह प्रायादलक्षिता ॥१५०॥
क्क वा तिष्ठन्ति सुचिरं निम्नगा इव योषितः ।
नाट्याचार्यो निजं देशं तया सह समागमः ॥१५१॥
प्रपय लेभे रतिसुखं तद्विलासरसोचितम् ।
कदाचिदथ कालेन युवा द्यूतकृतादरः ॥१५२॥
सुहृत्सुदर्शनो नाम तं नाट्याचार्यमाययौ ।
स तस्य केलिदूतेन धनं हृत्वा सुदर्शनः ॥१५३॥
स्वयं कृताभ्युपगमाम भेजेऽनङ्गप्रभां रहः ।
नाट्याचार्यं परित्यज्य निर्धनं विगतद्युतिम् ॥१५४॥
द्यूतकारेण सहिता सा ललास घनस्तनी ।
कालेन द्यूतकारोऽपि चौरैर्निर्द्रविणः कृतः ॥१५५॥
त्यक्त्वा हिरण्यगुप्ताख्यमासाद्य वणिजं तदा ।
( बभूव प्रेमसर्वस्वं तस्य सा रतिलालसा ) ॥१५६॥
द्यूतकृत्तद्वियोगाग्निदग्धः स च धराधिपः ।
विरक्तौ संनिपातेन जग्मतुः परमं पदम् ॥१५७॥
वणिजः प्रेमसर्वस्वं कालेनाम्भोधिगामिनः ।
वातभग्ने प्रवहणे संप्राप्ता धीवरेण सा ॥१५८॥
तेन सागरतीरेण चिरं दासेन कामिताम् ।
युवा विजयधर्माख्यस्तां प्राप कुलपुत्रकः ॥१५९॥
यदृच्छया गतो दृष्ट्वा तां सागरपुराधिपः ।
राजा सागरदत्ताख्यो रागिणीमभजत्ततः ॥१६०॥
कान्ता भूमिभुजा तेन विलासरसिकेन सा ।
सेविता सुचिरं प्रेम्णा कालेनासूत पुत्रकम् ॥१६१॥
सुतः समुद्रदत्ताख्यस्तस्याः स शशिसुन्दरः ।
विद्याकलाकलितधीः कालेन प्राप यौवनम् ॥१६२॥
कन्यां कमलिनीम नाम राज्ञः समरवर्मणः ।
स प्राप विभ्रममहीं कान्तः परिणयोत्सवे ॥१६३॥
निर्जिताशेषवसुधं तं गुणोचितमात्मजम् ।
अभिषिच्य ततः प्रायद्राजानङ्गप्रभासखः ॥१६४॥
तौ प्रयागे निराहारौ दृष्ट्वा स्वप्ने महेश्वरम् ।
क्षीणशापौ प्रययतुर्निजं वैद्याधरं पदम् ॥१६५॥
इत्यनङ्गप्रभाख्यायिका ॥३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-29T20:31:21.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

केलटें

  • न. ( कों . गो ) माकडाचें पिल्लुं ; माकड . ( पो , केल्दन ) म्ह० करायला गेला गणपती तों झालें केलडें 
RANDOM WORD

Did you know?

How I do save the text on my computer?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.