TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रामाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


रामाख्यायिका
पायाद्वो दयिताकेलिकोपे शंभोः प्रणामिनः ।
चन्द्रलेखानिशक्तेव तत्प्रसादस्मितच्छटा ॥१॥
ततः कदाचित्स्वपुरीपर्यन्तविपिनावनिम् ।
मृगयारसिकः प्रायात्सानुगो नरवाहनः ॥२॥
( राजपुत्रसहस्राणि परित्यज्य सगोमुखः ।
विलोलहारः प्रययौ वाजिना वातरंहसा ॥३॥
स्फुटस्वरपदं दूराच्छ्रुत्वा कर्णरसायनम् ।
गीतध्वनिं स्मयाक्रान्तो विवेश त्र्यम्बकालयम् ॥४॥
प्रणम्य तत्र श्रीकण्ठं दिव्यकन्यां ददर्श सा ।
दासीसहस्रानुगतां गायन्तीं शंकरस्तुतिम् ॥५॥
स्वप्रभाभरणारत्नभूशणाति बभार या ।
कान्ता सुकविवाणीव पुनरुक्तं प्रमादजम् ॥६॥
तद्गीतश्रवणाश्चर्यलोलमौलेः पिनाकिनः ) ।
या चूडा चन्द्रलेखेव तन्वी निपतिता पुरः ॥७॥
विभ्रमारम्भवलितैर्विलासललितायतैः ।
फुल्लोत्पलवनानीव कटाक्षैर्विततार या ॥८॥
तां विलोक्य सुधापद्ममनोजन्मजयश्रियम् ।
नरवाहनदत्तोऽभूदमन्दानन्दसुन्दरः ॥९॥
सापि साङ्गिमिवानङ्ग तं वीक्ष्य कमलेक्षणम् ।
हर्शकम्पोत्तरङ्गाभूत्सरसीवानिलाकुला ॥१०॥
तयोरभिन्नयोद्भिन्नमन्मथारम्भविभ्रमे ।
अवतीर्णाम्बराद्दिव्ययोषिदायात्तदन्तिकम् ॥११॥
अनुद्धतार्थवेषेण सूचितात्यन्तगौरवाम् ।
जननीमिव सोमस्य स्फटिकस्वच्चविग्रहाम् ॥१२॥
तां तथा कन्यया तत्र हृष्टयाभ्येत्य संगताम् ।
प्रणनामादराल्लोलकुण्डलो नरवाहनः ॥१३॥
सा कन्याजननी तेन पृष्टा विद्याधराङ्गना ।
निजाभिजनवृत्तान्तं प्रोवाच मॄदुवादिनी ॥१४॥
सुन्दराख्ये पुरे तुङ्गश्रृङ्गे तुहिनभूभृतः ।
अस्त्यलंकारशीलाख्यो विद्याधरधराधिपः ॥१५॥
तस्याहमग्रमहिषी वल्लभा काञ्चनप्रभा ।
मयि जातोऽस्य मतिमान्धर्मशीलाभिधः सुतः ॥१६॥
कन्या चेयं शशिमुखी नयनामृतवाहिनी ।
अलंकारवती नाम स्वप्रभालंकृताकृतिः ॥१७॥
स धर्मशीलो भ्रातास्याः ( प्रययौ तपसे युवा ।
अस्माभिः प्रार्थ्यमानोऽपि विरक्तो भवविभ्रमे ॥१८॥
राजालंकारशीलोऽपि तमेवानु ) तपोवनम् ।
प्रययौ मयि विन्यस्य राज्यं कन्यामिमां च सः ॥१९॥
नरवाहनदत्ताय भविष्यच्चक्रवर्तिने ।
इयं विद्याधरेन्द्राय दातव्या मत्सुता त्वया ॥२०॥
अलंकारवती शंभुनिर्दिष्टा श्रीस्तथाखिला ।
इति मां पतिराभाष्य ससुतः काननं ययौ ॥२१॥
ततोऽहं भर्तृरहिता निःशशाङ्केव शर्वरी ।
शोकान्धतिमिराक्रान्ता स्थिता राज्ञे तदाज्ञया ॥२२॥
चिन्तयन्त्या तव शुभं पुत्रीपरिणयाशया ।
कृच्छ्रादब्दशतायामो नीतः संवत्सरो मया ॥२३॥
अद्येयं मत्सुता पृथ्वीं भ्रान्त्वा दृष्ट्वा मदाज्ञया ।
स्वयंभूशंभुनिलया प्रणम्य व्योमगामिनी ॥२४॥
प्रथमं त्रिपुरारातिं नत्वा कश्मीरमण्डले ।
विजयं चामरेशं च तां च देवीं महेश्वरीम् ॥२५॥
कौशाम्बीविपिनोपान्तशिवालयमिमं शनैः ।
प्राप्ता दृष्ट्वा त्वया देवनिदिर्ष्टेयं तव प्रिया ॥२६॥
त्वद्दिशागोचरायातां ज्ञात्वाहं विद्यया सुताम् ।
पुत्र तूर्णमिहायाता द्रष्टुं त्वां चिरकाङ्क्षितम् ॥२७॥
मद्भर्त्रा पूर्वमादिष्टो भविता शुभलग्नतः ।
अनया तव पुत्र्या मे प्रातः परिणयोत्सवः ॥२८॥
उक्त्वेति लज्जाविनतं पुत्रीवदनपङ्कजम् ।
विलोकयन्ती संहृष्टा सा सती गन्तुमुद्ययौ ॥२९॥
प्रस्थिता सा समालोक्य सहसा विरहाकुलम् ।
उत्कण्ठानिर्भरं प्राह सस्मिता नरवाहनम् ॥३०॥
राजपुत्र क्षपामेकां सहस्वौत्सुक्यविक्रियाम् ।
समागमो मत्सुतायाः प्रातस्ते भवितानया ॥३१॥
स्निग्धैर्विनोदय मनो दिनमेकं सुहृज्जनैः ।
सेहे संवत्सरं रामो जानकीविरहं पुरा ॥३२॥
राज्ञो द्शरथस्यासीदयोध्याधिपतेः सुतः ।
रामो गुणगणारामो विरामो वैरिसंपदाम् ॥३३॥
प्रेयस्या सीतया सार्धं लक्ष्मणेनानुजेन च ।
वनं विवेश स वधूप्रेरितस्य पितुर्गिरा ॥३४॥
मारीचहेमहरिणाकारवञ्चितचेतसः ।
तत्र सीतां जहारास्य भिक्षुवेषो दशाननः ॥३५॥
जानकीकरुणाक्रन्दक्रोधात्समरसंमुखम् ।
जटायुषं गृध्रराजं हत्वा यातेऽथ रावणे ॥३६॥
विरहायासविधुरः प्रलापमुखराननः ।
रामः कपीन्द्र सुग्रीवं प्राप्य मित्रपदे व्यधात् ॥३७॥
वैरिणं भ्रातरं तस्य हत्वा बाणेन वालिनम् ।
किष्किन्धाराज्यलक्ष्मीं च ददौ विरहनिःसहः ॥३८॥
सुग्रीवेण कृतज्ञेन रामं दृष्ट्वा स्मरातुरम् ।
दिक्षु सीतां समन्वेष्टुं विसृष्टे कपिमण्डले ॥३९॥
हनूमान्मारुतसुतो विलङ्घ्य मकराकरम् ।
सीतां स तां समालोक्य दग्ध्वा लङ्कामनाकुलः ॥४०॥
न्यवेदयत्प्रियावृत्तं रामाय हतराक्षसः ।
राघवोऽप्यम्बुधिं बद्ध्वा सेतुं प्राप्य रिपोः पुरीम् ॥४१॥
सानुगं रावणं हत्वा भेजे जनकनन्दिनीम् ।
अथायोध्यां समभ्येत्य प्राप्य राज्यं सहानुजः ॥४२॥
मिथ्यापवादं सीतायः शुश्राव रघुनन्दनः ।
तदाज्ञया लक्ष्मणस्तां वने गर्भभरालसाम् ।
तत्याज साश्रुनयनो वाल्मीकेराश्रमान्तिके ॥४३॥
तां तत्र मुनयो दृष्ट्वा शोचन्तीं लक्ष्मणे गते ।
ऊचुर्दिव्यदृशो ज्ञात्वा शुद्धचारित्रभूषणाम् ॥४४॥
टिट्टिभोऽब्धितटे जायां दॄष्ट्वान्येन समागताम् ।
प्रतिश्रयार्थिना भर्तृधिया निर्व्याजमानसाम् ॥४५॥
ईर्ष्याशङ्ककुलस्त्यक्तुमुद्यतस्तां नभस्तलात् ।
श्रुत्वा साध्वीति वचनं शीलेऽस्याः प्रत्ययं ययौ ॥४६॥
तिरश्चामपि चारित्रशुद्ध्या निर्मलतां मनः ।
इति प्रयाति तत्कोपं रामस्याप्यात्मविप्लवः ॥४७॥
इति ब्रुवाणे करुणाकुलिते मुनिमण्डले ।
वाल्मीकेराश्रमं प्राप्य सीतासूत सुतद्वयम् ॥४८॥
तौ तेन मुनिना तत्र कृतराजोचितव्रतौ ।
सविद्यौ ययतुर्वाजिमेधे रामं समास्थितम् ॥४९॥
पुत्रौ कुशलवाभिख्यावुक्तौ वाल्मीकिना स्वयम् ।
तौ प्राप्य रामो दयितां विशुद्धामानिनाय ताम् ॥५०॥
इत्येवं राघवः कान्तावियोगः धैर्यसागरः ।
सेहे क्षणं त्वमप्येवं सहस्व स्वप्रियागमे ॥५१॥
इति रामाख्यायिका ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-29T20:29:47.4600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

stipulate

  • अट घालणे 
  • करारनिविष्ट करणे 
  • Bot.(furnished with stipules) अनुपर्णी 
  • करारनिविष्ट करणे, अट घालणे 
More meanings
RANDOM WORD

Did you know?

जननशांतीचे महत्व स्पष्ट करा ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.