पञ्चलम्बको नाम

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


विद्याधरवरोद्याने दयिताभिः पिबन्मधु ।
विजहार ततः श्रीमान्वयस्यैर्नरवाहनः ॥२२७॥
गौरीमुण्डस्य तनयां कान्तां मन्दिरिकाभिधाम् ।
परिणीयामितगतिप्रमुखैः सेवितो बभौ ॥२२८॥
अत्रान्तरे विदित्वासौ चारैः समरसंमुखम् ।
जेतुं मन्दरदेवाख्यं चक्रे मनसि विक्रम अमम ॥२२९॥
स स्म्नद्धबलाम्भोधिर्निर्गतो नरवाहनः ।
चक्रवर्ती परां प्राप्य स्वसारं तस्य सुन्दरीम् ॥२३०॥
तस्याः सख्यश्चतस्रो या विद्याधरनृपात्मजाः ।
समं विवाहः कर्तव्यः संवित्तासामभूदिति ॥२३१॥
एकैव परिणिताभूत्त्वां(?)वि.....विमुखाः क्षणम् ।
तद्वैमुस्या(?) विजहार दयितां नरवाहनः ॥२३२॥
कालकूटाधिनाथस्य तनयां कालिकाभिधाम् ।
महादंष्ट्रस्य तु सुतां विद्युत्फुल्लां मृगीदृशम् ॥२३३॥
मद्वरस्यात्मजामिन्दुवदनां वरमतङ्गिनीम् ।
चित्रकूटेश्वरस्यापि पुत्रीं पद्मप्रभामिति ॥२३४॥
तद्वाक्यात्ताः सखीस्तस्याः परिणीयाभवत्सुखी ।
तद्विलासरसावासनवयौवनमण्डितः ॥२३५॥
अथ रिपुवधयात्रायातसेनासमुद्रः
प्रतिहतघनभेरीघोषसंपूरिताशः ।
त्रिनयनवरलक्ष्मीं प्राप्तसिद्धिप्रसिद्धः
पणिरिव तनु यायात्स्वां पुरीं राजपुत्रः ॥२३६॥

इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथामञ्जर्यां पञ्चलम्बको नाम त्रयोदशो लम्बकः ।

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP