TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रभावतीप्राप्तिकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


प्रभावतीप्राप्तिकथा
याते संध्यासखे क्कापि कदाचिदथ भास्करे ।
निमीलति जगत्पद्मे विशाला.........शलासिनी ॥८७॥
संकुचन्नलिनीखण्डसमुत्थैरलिमण्डलैः ।
मण्डितेष्वथ लोकेषु तिमिरच्छद्मना निशि ॥८८॥
ज्योत्स्नामृतनदीधौतव्योम्नि कान्तितरङ्गिणीम् ।
पाञ्चजन्यांशुविशदे मुरारेरिव वक्षसि ॥८९॥
कान्तास्मितैरिव म्नातैर्यशोभिरिव मार्जितैः ।
आनन्दैरिव संसिक्तैर्जातैर्जगति सर्वतः ॥९०॥
सौधे भगीरथयशागाढालिङ्गननिर्वृतः ।
सुष्वाप पृथुमाणीक्यपर्यङ्के नरवाहनः ॥९१॥
ततः प्रभावती नाम तं विद्याधरसुन्दरी ।
हा दुःखं दुःखमित्युक्त्वा ससंभ्रममबोधयत् ॥९२॥
प्रतिबुद्धोऽथ ललनावदनं मदनोपमः ।
शरीररहितं ज्ञात्वा गवाक्शेण ददर्श सः ॥९३॥
तं दृष्ट्वा विस्मितोऽत्यन्तं राजपुत्रो व्यचिन्तयत् ।
अहो लोलालकमिदं पतितं ललनाननम् ॥९४॥
अथ विस्मयमापन्नोऽचिन्तयत्प्रयतः पुरा ।
वातापिदानवपतिश्चचारैको वनान्तरे ॥९५॥
अलक्तकारुणं पादं स ददर्श सनूपुरम् ।
शेषाङ्गरहितं तं च दृष्ट्वाभूद्विस्मयाव्द्यसुः ॥९६॥
हर्षशोकाद्भुतस्तस्मात्सहसान्तः समुत्थिताः ।
सर्वेन्द्रियनिरोधेन संत्यजन्त्येव जीवितम् ॥९७॥
चिन्तयित्वेति वत्सेशतनयस्तां निरीक्षितुम् ।
निर्ययौ सा च सहसा बभूवाकारसंयुता ॥९८॥
सा दुःखकारणं पृष्टा राजपुत्रेण सुन्दरी ।
प्राह गान्धारनाम्नोऽहं विद्याधरपतेः सुता ॥९९॥
गङ्गधरे जनपदे तत्पुरी पुष्करावती ।
साहं प्रभावती तुभ्यं धात्रा दिष्टा त्वयि प्रिया ॥१००॥
पूर्वभार्यां परित्यज्य कान्तां मदनमञ्चुकाम् ।
तां च वेगवतीं बालां त्वमन्यललनारतः ॥१०१॥
दुःखकारणमेतन्मे श्रुत्वेति नरवाहनः ।
प्रियां स्मृत्वा शुचं लज्जामुत्कण्ठां च समं ययौ ॥१०२॥
दीपप्रदक्षिणव्याजात्तेनोद्वाहं विधाय सा ।
तं निनाय वधूं द्रष्टुं रुद्धां मदनमञ्चुकाम् ॥१०३॥
गच्छन्गगनमार्गेण दृष्ट्वा दिव्यनदीतटम् ।
प्रौढां नितम्बविपुलां प्राह तां नरवाहनः ॥१०४॥
प्रभावति प्रियतमे हेमवल्लीनिकुञ्जके ।
अस्मिन्वरसरस्तीरे रन्तुं त्वामीहते मनः ॥१०५॥
प्रभावती निशम्येति वल्लभं प्राह सस्मिता ।
न संप्रति रतक्रीदां भजे लज्जावती त्वया ॥१०६॥
स्मृतं मयाब्रवीद्यन्मां सखी मदनमञ्चुका ।
मदर्थं राजपुत्रं चेदानेतुं यासि सुन्दरि ।
न तत्कार्यं स्मरवशाद्वेगवत्या यथा कृतम् ॥१०७॥
इति सख्यं मृषा क्कापि कृतवत्यस्मि चापलम् ।
गुप्तं तदधुना सेव्यं जानीते न यथा सखी ॥१०८॥
ज्ञात्वान्यकान्तासकं त्वां कदाचिज्जीवितं सती ।
जहाति विषमः स्त्रीणामीर्षाविषकृतो ज्वरः ॥१०९॥
पुरान्यनरसंसक्ता चण्डी प्रच्छन्नकामिनी ।
निर्गताभ्येत्य सततं ददौ पुत्राय मोदकम् ॥११०॥
कदाचिदथ सा गत्वा रिक्तहस्तागता गृहम् ।
पुत्रेण याचिता प्राह सदा मे मोदकः कुतः ॥१११॥
इत्यानीमत्र भुक्तोऽसि नासन्नो मोदकः कुतः ।
श्रुत्वेति बालस्तत्याज जीवितं त्रुटिताशयः ॥११२॥
सहसा प्रियविच्छेदं वज्रपातं सहेत कः ।
त्वत्सङ्गात्कुप्यति व्यक्तं मह्यं मदनमञ्चुका ॥११३॥
इति प्रभावतीवाक्यं श्रुत्वा वत्सेश्वरात्मजः ।
अवापदाषाढपुरे गूढां मदनमञ्चुकाम् ॥११४॥
विशालविरहक्षामां पाण्डुगण्डां श्लथालकाम् ।
तां रूक्षवेणीमालोक्य जानकीमिव राघवः ॥११५॥
भेजे त्वरां च हर्षं च संभ्रमं च व्यथां तथा ।
दैन्यं क्रोधं च शोकं च लज्जां च नरवाहनः ॥११६॥
प्रभावत्याः प्रभावेण तद्रूपच्छन्नविग्रहः ।
विजहार ततः कान्तारतिसंभोगलालसः ॥११७॥
कण्ठावलम्बितं दृष्ट्वा चिरात्प्रियतमं सती ।
सद्यः सिक्तेव पीयूषैरभून्मदनमञ्चुका ॥११८॥
ततो मासद्वये जाते विज्ञायान्तःपुराश्रयैः ।
क्रुद्धो मानसवेगस्तमाययौ युद्धदुर्मदः ॥११९॥
राजपुत्रोऽपि तं लब्धानालब्धुं गुलिकाधरान् ।
हत्वा तत्खङ्गमादाय तस्थौ समरसंमुखः ॥१२०॥
बाणासुरमिव क्रुद्धं ज्ञात्वा विद्याधरेश्वरम् ।
माता तं प्राह रक्ष्योऽयं प्राद्युम्निरिव धैर्यभूः ॥१२१॥
वेगवत्याः पतिरसौ स्वसुस्तव नृपात्मज ।
जामाता तव धर्मेण रक्षणीयः प्रयत्नतः ॥१२२॥
त्वत्सभायां विचारोऽद्य क्रियतां साधुसंसदि ।
वधो न शस्यते राजन्नपर्यालोचितागसः ॥१२३॥
मातुः पृथिव्याः श्रुत्वेति तथेत्युक्त्वा समाययौ ।
बद्ध्वा राजसुतं यत्नान्निनाय स्वसभास्थलम् ॥१२४॥
तत्र वायुपथाभिख्यः कुलवृधः सभापतिः ।
त्राये मानसवेगं तं तां च पप्रच्छ धर्मवित् ॥१२५॥
भगिनी दूषितानेन ममेत्याह स मानसः ।
विक्रीत इव मौनं स चक्रे वत्सेश्वरात्मजः ॥१२६॥
वदैनं मूकतां प्राप्तं प्राह धीमान्सभापतिः ।
अहो विषादमौनं ते ह्यपराजयसिद्धये ॥१२७॥
मौनं वादे क्षमां शक्तौ याच्ञां लुब्धे मदं गुरौः ।
लज्जां च व्यवहारेषु न शंसन्ति विपश्चितः ॥१२८॥
श्रुत्वेति राजतनयः प्रोवाच गतसंभ्रमः ।
सतां सुखे च दुःखे च समानो धैर्यविक्रमः ॥१२९॥
विभान्ति ये सदा न्यायैः सभा भाति च सज्जनैः ।
ते धर्मेण प्रकाशन्ते न सोऽस्तीह किमुच्यते ॥१३०॥
मया मानसवेगस्य विवादोऽयमुपस्थितः ।
आसनस्थो मामग्रे च संयतो माययान्वहम् ॥१३१॥
अर्थिनोः समता यत्र तत्र न्यायो विवेच्यते ।
प्राप्तौ विवादपदवीं समौ समान्यभूमिपौ ॥१३२॥
उपपन्नमिति श्रुत्वा तथेत्याह सभापतिः ।
इति राजसुतस्योक्त्या जोतो विद्याधरात्मजः ।
स तैर्निवार्यमाणोऽपि हन्तुमैच्छन्नृपात्मजम् ॥१३३॥
ततः सभापतिः क्रुद्धो विद्याभिरवधूय तान् ।
निजसेनां समाहूय ररक्ष नरवाहनम् ॥१३४॥
विद्याभृतां कुले देवो मामवाद्यः कपालभृत् ।
तद्रूपेण प्रभावत्या रक्षितः सोऽभवत्सुखी ॥१३५॥
ततः क्षणात्प्रभावत्या रक्षायै सानुरागया ।
ॠष्यमूकगिरेः सानौ न्यस्तः सिद्धतपोवने ॥१३६॥
तत्र बाहुलताजालश्यामले काननस्थले ।
विजहार तया स्वैरं लीलासुरतलालसः ॥१३७॥
ततः पम्पाभिधं प्राप्य सरो रामेण यत्र ताः ।
निःश्वासग्लपिताब्जेन क्षपिता विरहक्षपाः ॥१३८॥
साधुचित्तमिव स्वच्छं परार्थमिव शीतलम् ।
उन्मत्तमिव सावेगं शृङ्गारिणमिवोज्ज्वलम् ॥१३९॥
चन्द्रस्येव निजावासं स्फटिकाद्रेरिवाशयम् ।
सुधाम्बुधेरिवापत्यं गगनस्येव दर्पणम् ॥१४०॥
अप्सरःकेशकुसुमैः किन्नरीकुचकुङ्कुमैः ।
नागतिलककर्पूरैः सूचितस्नानविभ्रम म् ॥१४१॥
भिन्नाञ्जनकणश्यामैर्भ्रमरैर्बद्धमण्डलम् ।
चक्रवाककुलोत्सृष्टरामशापाक्षरैरिव ॥१४२॥
कृतावगाहमाकुम्भं विन्ध्याकुञ्जरयूथपैः ।
आश्रितं सागरधिया वज्रभीतैरिवाद्रिभिः ॥१४३॥
तीरोपान्तलतालास्यगुरुभिः कमलानिलैः ।
अपि दिग्गजगण्डेभ्यः सुहृत्सेवकषट्पदम् ॥१४४॥
रतिमानिव पुष्पेषुः स तद्वीक्ष्य प्रियासखः ।
जहर्ष गुणसङ्गेन को हि नाम न तुष्यति ॥१४५॥
ततः प्रभावती प्राह निर्वर्ण्य सरसः श्रियम् ।
ऋष्यमूकतटोपान्ते कान्तसंतोषिताशया ॥१४६॥
इह वानरराजेन हत्वा दुन्दुभिदानवम् ।
सुग्रीवो वालिनो भ्राता चिरं तस्थौ विवासितः ॥१४७॥
एते सप्त महातला विद्धा रामेण पत्त्रिणा ।
यैर्नीतं यद्यशः सप्तलोककर्णावतंसताम् ॥१४८॥
इत्यादि रामसंबद्धं कथयित्वा प्रभावती ।
ललास सह कान्तेन विलासरतिलालसा ॥१४९॥
इति प्रभावतीप्राप्तिकथा ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-27T19:50:29.6200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

raw skins

  • कच्चाबेकमाया चमडा 
RANDOM WORD

Did you know?

How do I contact you?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site