TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

गुणाढ्यकथा

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गुणाढ्यकथा
माल्यवान्पार्वतीशापादवतीर्य महीतलम् ।
अमात्यः सुचिरं भूत्वा शातवाहनभूपतेः ॥१॥
गुरुर्गुणवतां लोके गुणाढ्य इति विश्रुतः ।
काणभूतिं समासाद्य शापबन्धादमुच्यत ॥२॥
जातिस्मरः स पृष्टोऽथ कथान्तरे काणभूत्ना ।
उवाच निजवृत्तान्तं कथा श्रुत्वा हरोदिताम् ॥३॥
अभूतां दाक्षिणात्यस्य द्विजातेः सोमशर्मणः ।
वत्सगुल्माभिधौ पुत्रौ श्रुतार्था कन्यका तथा ॥४॥
गते सभार्ये कालेन त्रिदिवं सोमशर्मणि ।
श्रुतार्था यौवनवती भ्रात्रोश्चिन्तावहाभवत् ॥५॥
कदाचिदथ कन्या सा गर्भिणी दुःखदा तयोः ।
बभूव पाण्डुरमुखी गर्भजृम्भास्खलद्गतिः ॥६॥
परस्परं शङ्कितयोर्भ्रात्रोः सा प्राह लज्जिता ।
स्वयं वृताहं नागेन ततो मे गर्भसंभवः ।
इत्युक्त्वा ध्यानमास्थाय ताभ्यां नागमदर्शयत् ॥७॥
सोऽब्रवीद्वासुकिभ्रातृपुत्रोऽहं दयिता च मे ।
शापाद्विद्याधरवधूः कन्येयं युवयोः स्वसा ॥८॥
गणावतारः पुत्रोऽस्या भविष्यति गुणाधिकः ।
उक्त्वेत्यदर्शनं याते भुजङ्गे मामसूत सा ॥९॥
मज्जन्मावधिशापौ च वत्सगुल्मौ निजं ततः ।
प्राप्तौ विद्याधरपदं कालेन जननी च मे ॥१०॥
ततो निखिलविद्यानामाश्रयो वेदपारगः ।
शातवाहनभूपालं द्रष्टुं यातोऽस्मि तत्पुरम् ॥११॥
तत्राश्रृणवमाश्चर्यं कलविद्याश्रयाः पथि ।
कथाः पण्यगृहद्यूतगीतवाद्यादिजीविनाम् ॥१२॥
कश्चिदाह घनातोद्यततवाद्येऽस्मि कोविदः ।
कश्चित्प्राह प्रगल्भोऽहमेक एव धनार्जने ॥१३॥
उवाच कश्चिद्विक्रीय गतासुं मूषकं पुरा ।
चणकैर्हेमकोटीनां प्रभुरद्यास्मि भूरिदः ॥१४॥
कश्चित्प्रोवाच विक्रीय धनिनो मुग्धकामुकान् ।
वेश्यागृहेशु मतिमान्दातातीव भजेऽस्मि तम् ॥१५॥
श्रृण्वन्निति गिरस्तत्र नृपं वैश्रवणोपम म् ।
प्रविश्य शिष्यैः सहितो दृष्ट्वाहं मन्त्रितां श्रितः ॥१६॥
तत्र मन्त्रिपदं प्राप्य द्रष्टुमुद्यानमुत्तम म् ।
मया गोदावरीतीरे कात्यायिना विनिर्मितम् ॥१७॥
इति श्रुत्वा कथामध्ये काणभूतिरुवाच तम् ।
स शातवाहनाभिख्यां कथं प्राप्तो नरेश्वरः ॥१८॥
इति पृष्टो गुणाढ्यस्तं प्रोवाच विकचद्युतिः ।
दीपकर्णाभिधो राजा हरपूजारतोऽभवत् ॥१९॥
तस्य शक्तिमती देवी वल्लभाभूच्छुचिस्मिता ।
यस्याः कटाक्षबाणेन जनृम्भे विजयी स्मरः ॥२०॥
ततः कदाचिदानन्दसिन्धौ मधुपबान्धवे ।
आमोदमन्दरे काले कलिकालंकृते मधौ ॥२१॥
देवीकुचस्थले राजा प्रफुल्ललकुचस्थले ।
विजाहर स्मरोदारः स्वैरं हारिणि हारिणी ॥२२॥
राजपुत्री रतश्रान्ता स्रस्तकर्णोत्पला ततः ।
अवाप निद्रामुद्याने बालानिलचलालका ॥२३॥
सुखप्रसुप्तामभ्येत्य तां भुजङ्गोऽदशत्करे ।
रम्यं छिनत्ति सहसा पापः कालकुठारिकः ॥२४॥
स तया रहितो राजा विरहक्षामविग्रहः ।
ब्रह्मचर्यव्रतः स्वप्ने ददर्श वरदं शिवम् ॥२५॥
सिंहाधिरूढो विपिने सप्तवर्षः शिशुः स्थितः ।
अपुत्रस्य स ते पुत्रो भविष्यति वरान्मम ॥२६॥
इत्युक्तवाक्यमालोक्य प्रणतः शंकरं नृपः ।
अपश्यत्काननं गत्वा बालं केसरिवाहनम् ॥२७॥
डिम्भे च नलिनीखण्डक्रीडाडम्बरतत्परे ।
जिघृक्शुर्भूमिपालस्तं जघानैकेषुणा हरिम् ॥२८॥
शार्दूलो निहतस्तेन यक्षो भूत्वा वराकृतिः ।
त्वत्प्रसादादहं मुक्तः शापादित्यभ्यधान्नृपम् ॥२९॥
शातनामास्मि यक्षः प्राग्धनदानुचरो वने ।
मुनिभिः कन्यकाकामी शप्तः सिंहत्वमागतः ॥३०॥
सिंहीभूत्वा च सा कन्या शिशुं हरिणलोचनम् ।
अजीजनदिमं काले मत्त एव महाबलम् ॥३१॥
तस्यां विमुक्तशापायामहं विधृतबालकः ।
त्वच्छराघातनिर्मुक्तशापः प्राप्तो निजां श्रियम् ॥३२॥
इति वादिनमामन्त्र्य शातयक्षं नरेश्वरः ।
शातवाहनामसाद्य पुत्रं प्रायान्निजां पुरीम् ॥३३॥
इत्यन्वर्थान्वितः काले दीपकर्णसुतो नृपः ।
ररक्ष वसुधां धन्वी धैर्यभूः शातवाहनः ॥३४॥
स कदाचिद्वरोद्याने विमाने पुष्पधन्वनः ।
वसन्ते कामिनीकान्तो जलकेलिरतोऽभवत् ॥३५॥
निशिञ्चन्कङ्कणमणिच्छायाशवलवारिणा ।
तरुणीनां स्तनतटे विजहार स्मरोपमः ॥३६॥
तत्रैका महिषी राज्ञा हता सावेगमम्बुना ।
मामोदकेन राजेन्द्र ताडयेत्यभ्यधान्नृपम् ॥३७॥
श्रुत्वेति मूर्खो भूपालः क्षिप्रमाहृत मोदकः ।
मा वारिणेति देव्यास्तद्वचो श्रुत्वा ह्रियं ययौ ॥३८॥
शब्दज्ञाभिः स देवीभिर्भृत्यैश्च श्रुतशालिभिः ।
सान्तर्हासं मनाग्दृष्टो बभूव भृशखेदितः ॥३९॥
अस्पृष्टतीर्थसलिलैरजापैतरपस्विभिः ।
त्रिलोचनमनाराध्य कथं विद्याधिगम्यते ॥४०॥
सोऽथ शोकाग्निसंतप्तः समुत्सारितसेवकः ।
अविज्ञातामयोऽविद्यैस्तस्थौ मौनी दिवानिशम् ॥४१॥
कालेन शर्ववर्माख्यो मन्त्री सह मया नृपम् ।
प्रोवाच राजन्नस्थाने कोऽयं शोकग्रहस्तव ॥४२॥
स्वयं शिक्षितया किं ते विद्यया चक्रवर्तिनः ।
विबुधास्त्वां निषेवन्ते पश्य शक्रमिवेश्वरम् ॥४३॥
अथाहमवदं ध्यात्वा गुणाढ्योऽहं यथार्थवाक् ।
पण्डितं त्वां विधास्यामि पञ्चभिर्वत्सरैरिति ॥४४॥
ततोऽब्रवीच्छर्ववर्मा मासैः षड्भिर्बहुश्रुतम् ।
अहं नृपं करिष्यामि विश्राम्यन्तु भवद्विधाः ॥४५॥
इति श्रुत्वा विहस्याहं कुपितस्तारमभ्यधाम् ।
भाषात्र ये भविष्यामि मौनीपारंगते त्वयि ॥४६॥
शर्ववर्माब्रवीदस्मि वोढा द्वादशवत्सरान् ।
त्वत्पादुके प्रतिज्ञैषा यदि मे न फलिष्यति ॥४७॥
प्रतिज्ञायेत तपसा विलोक्य वरदं गुहम् ।
स कातन्त्रेण नृपतिं मासैश्चक्रे बहुश्रुतम् ॥४८॥
ततः पराजितो मौनी नृपेण स्थातुमर्थितः ।
शिष्याभ्यां सहितो दुःखाद्यातोऽहं दिशमुत्तराम् ॥४९॥
तपसा तत्र रुद्राणीं दृष्ट्वा तद्वचसा ततः ।
त्वामासाद्य गते शापे मया जातिः स्मृता सखे ॥५०॥
ज्ञात्वा देवीप्रसादेन त्यक्तभाषात्रयोऽप्यहम् ।
पैशाचिमनपभ्रंशसंस्कृतप्राकृतां श्रितः ॥५१॥
गुणाढ्यकथा ॥६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-02T19:51:07.7600000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

all round price

  • सकल कीमत 
RANDOM WORD

Did you know?

Is there any reference in Vedas or puranas for eating non-veg food?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.