TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

वररुचिमुक्तिर्नाम द्वितीयो गुच्छः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


वररुचिमुक्तिर्नाम द्वितीयो गुच्छः
प्रतिश्रुत्य गुरोस्तत्र हेमकोटीश्चतुर्दश ।
व्याडीन्द्रदत्तसहितः प्रयातो नन्दभूपतिम् ॥११२॥
एकोनं जातरूपस्य यस्य कोटीशतं गृहे ।
तस्याथ नन्दनृपतेरेककोट्यर्थिनः शनैः ॥११३॥
प्रतिष्ठानपुरं हृष्टा यस्मिन्नेव दिने गताः ।
तस्मिन्नेव दिने दैवात्स भूपालो व्यपद्यत ॥११४॥
अकालाशनिसंकाशं तच्छ्रुत्वा दुःखिता वयम् ।
दिनैकजीवने राज्ञो लोभान्मन्त्रं समास्थिताः ॥११५॥
अथेन्द्रदत्तः संमन्त्र्य संत्यज्य निजविग्रहम् ।
विवेश राज्ञो योगेन शरीरमनिलोपमः ॥११६॥
तस्मिन्प्रविष्टे सहसा समुत्तस्थौ स भूपतिः ।
व्याडिं निधाय रक्षार्थमिन्द्रदत्तकलेवरे ॥११७॥
अभ्येत्य याचितो राजा स मया गुरुदक्षिणाम् ।
इन्द्रदत्तसमाविष्टः सुत्पोत्थित इवाथ सः ।
मन्त्रिणं शकटालाख्यं दीयतामित्यभाषत ॥११८॥
केनाप्याविष्टदेहोऽयमिति निश्चित्य बुद्धिमान् ।
अदाहयन्मन्त्रिवरः सोऽन्विष्य प्रेतविग्रहान् ॥११९॥
ततो नन्दशरीरस्थो दग्धदेहोऽतिदुःखितः ।
इन्द्रदत्तो रहः प्राह मां व्याडिं चाश्रुगद्गदः ॥१२०॥
द्विजो भूत्वा कथं लोभादस्मिञ्शूद्रकलेवरे ।
स्थास्यामि शकटालेन निर्दग्धनिजविग्रहः ॥१२१॥
इति दुःखाकुलं व्याडिरहं च नृपतिं शनैः ।
वीतशोकं समाधाय तद्राज्ये मन्त्रितां श्रितौ ॥१२२॥
गूढं निबद्धमूलोऽपि विनाशभयशङ्कितः ।
सततं नृपतिर्वैरं शकटाले व्यचिन्तयत् ॥१२३॥
योगनन्दोऽथ कालेन मन्त्रयित्वा चिरं मया ।
बद्धान्धकूपे चिक्षेप शकटालं सुतैः सह ॥१२४॥
बद्धः पुत्रशतं प्राह प्राप्यैकं पुरुषाशनम् ।
सोऽश्नातु यः प्रतीकारे शक्तो भूमिपतेरिति ॥१२५॥
अशक्ता वयमित्युक्ते तैः स तद्भुक्तवांस्तदा ।
उपवासकृशाङ्गाश्च तत्र ते निधनं ययुः ॥१२६॥
योगनन्दोऽपि संप्राप्य विभूतिं रतिमाययौ ।
कुम्भेषु च करीन्द्रानां कुचेषु च मृगीदृशाम् ॥१२७॥
गुरवे दक्षिणां दत्त्वा विमुखो भव संततेः ।
व्याडी विरक्तहृदयः समामन्त्र्य विनिर्ययौअ ॥१२८॥
इति नन्दस्य साचिव्यं प्राप्तस्य मम जाह्नवी ।
भक्त्या बभूव वरदा सदा हेमशतप्रदा ॥१२९॥
ततः कालेन करुणाकूणितेन मया नृपम् ।
विबोध्य शकटालोऽपि तमःकूपाद्विमोक्षितः ॥१३०॥
पुनर्मन्त्रिपदं प्राप मदेकशरणः सदा ।
प्रदध्यौ मनसा वैरं शकटालो महीपतेः ॥१३१॥
कदाचिदथ गङ्गायां करपञ्चनिजाङ्गुलीः ।
दर्शयन्तं ततो दृष्ट्वा मामपृच्छत्सकौतुकः ॥१३२॥
अदर्शनं करं नीत्वा संदर्श्य स्वाङ्गुलुद्वयम् ।
द्वावप्यभेद्यौ तिष्ठन्तु पञ्चेत्यहमथाभ्यधाम् ॥१३३॥
इति मे बुद्धिविभवं दृष्ट्वा विस्मयमाययुः ।
राजा च शकटालश्च ये चान्ये तत्र संगताः ॥१३४॥
एवं नन्दशरीरस्थः संभोगासक्तमानसः ।
इन्द्रदत्तो विसस्मार ब्राह्मण्यं कोपमाश्रितः ॥१३५॥
तस्य लक्ष्मीमदान्धस्य संभोगासक्तचेतसः ।
ईर्ष्यालोर्ददृशुर्नैव मरुतोऽपि वधूजनम् ॥१३६॥
स कदाचित्प्रियां तुङ्गवलभीशिखरस्थितः ।
तिथिप्रश्ने द्विजन्मानं भाषमाणां प्रियं वचः ॥१३७॥
विलोक्य क्रोधविवशो भ्रकुटीकुटिलाननः ।
ब्राह्मणस्य वधं क्षिप्रं दण्डवासिकमभ्यधात् ॥१३८॥
स तीव्रशासनेनाशु राज्ञादिष्टः पुराधिपः ।
निनाय निग्रहस्थानं ब्राह्मण संभ्रमाकुलम् ॥१३९॥
कृष्यमाणं महाकायैर्द्विजमालोक्य वर्त्मनि ।
जहास विक्रयन्यस्तो मत्स्यो विगतजीवितः ॥१४०॥
तदृष्ट्वा महदाश्चर्यं निवृत्तो दण्डवासिकः ।
व्यजिज्ञपन्महीपालं राज्ञा पृष्टा वयं च त त् ॥१४१॥
शकटालप्रभॄतिषु क्षमापतेः क्षणमन्तिके ।
विस्मयध्यानमूकेषु ध्यात्वा पृष्टोऽहमभ्यधाम् ॥१४२॥
निवार्यतां मद्वचसा ब्राह्मणो वधसाहसात् ।
प्रवक्तास्म्यद्भुतं प्रातर्मत्स्यहासस्य कारणम् ॥१४३॥
इत्युक्त्वाहं त्रिपथगां गत्वा निशि निशातधीः ।
अपृच्छं मत्स्यहासस्य हेतुं पृष्टाब्रवीच्च सा ॥१४४॥
योऽयं शिशिरसंकाशशापावलयसंकुलः ।
करालस्तालविटपी च्छन्नोऽत्र श्रोष्यसि स्थितः ॥१४५॥
इत्यहं तद्गिरा गूढं स्थितस्तालतरोरधः ।
अर्धरात्रे महाकायामपश्यं रजनीचरीम् ॥१४६॥
कृतानुयात्रां विकटाकारराक्षसपुत्रकैः ।
दीप्तोर्ध्वकेशनयनां कालरात्रिमिवापराम् ॥१४७॥
ततो मातुः प्रणयिनां निबिडाडिम्भरक्षसाम् ।
भोजनं देहि देहीति तेषामश्रृणवं गिरः ॥१४८॥
प्रातर्विशसिता पुत्राः स विप्रो राजशासनात् ।
दिनमेकं परित्रातो मन्त्रिणा मत्स्यहासतः ॥१४९॥
तस्यैव मांसैः षण्मासांस्तृप्तिं यास्यथ बालकाः ।
मातुः श्रुत्वेति पप्रच्छुस्ते मत्स्यस्मितकारणम् ॥१५०॥
साब्रवीदीर्ष्यया राजा मूर्खो द्विजवधे विभुः ।
अन्तःपुरेषु स्त्रीरूपान्न वेत्ति पुरुषान्स्थितान् ॥१५१॥
एतन्मत्स्येन हसितं श्रुत्वैतद्राक्षसीवचः ।
प्रातर्विदितवृत्तान्तो नरेन्द्रमवदं रहः ॥१५२॥
अन्तःपुरेषु स्त्रीरूपाः स्थितास्ते मा द्विजे क्रुध ।
अजातश्मश्रवो देव देवीनां दयिता नराः ॥१५३॥
मत्स्यस्य हसिते हेतुरयमेव नरेश्वर ।
श्रुत्वेति तान्नरान्राजा निजग्राह प्रियाश्च ताः ॥१५४॥
योगनन्दमत्स्यहासकथा ॥३॥
============================
अथ कालेन भूपाले सर्वास्थानसभास्थिते ।
प्रतिज्ञां चित्रवैचित्र्ये कृत्वा चित्रकरोऽविशत् ॥१५५॥
स चिन्तयित्वा चित्रज्ञो राजानं दयितासखम् ।
लिलेख लेखकुशलः प्रतिबिम्बमिवाम्बुनि ॥१५६॥
ततः कदाचित्तं राज्ञः प्रतिमापट्टमद्भुतम् ।
अपश्यमहमेकान्ते नूतनान्तःपुरे स्थितम् ॥१५७॥
तत्र सर्वगुणोपेतां दृष्ट्वा नरपतेस्तनुम् ।
विद्युद्दत्ताभिधां देवीं विलोक्य स्फुटलक्षणाम् ॥१५८॥
मानोन्मानप्रमाणज्ञश्चित्रवैचित्र्यसिद्धये ।
ध्यात्वाह तिलकं तस्या गुह्यदेशे न्यवेशयम् ॥१५९॥
ततः संपूर्णलावण्यां कदाचिदवलोक्य ताम् ।
चित्रस्थां महिषीं राजा चुकोपेर्ष्याविनष्टधीः ॥१६०॥
जघने लक्षणं देव्याः केनेदमुपपादितम् ।
नादृष्ट्वा विहितं मन्ये प्राहेत्यन्तःपुराश्रयात् ॥१६१॥
देव कात्यायनेनेदं न्यस्तं मन्त्रिवरेण ते ।
इति वर्षधराच्छ्रुत्वा शकटालमुवाच सः ॥१६२॥
पापो वररुचिः क्षिप्रं हन्यतामिति तद्वचः ।
प्रतिगृह्यैव मामेत्य शकटालो गृहेऽवदत् ॥१६३॥
राज्ञा तव वधो दिष्टश्चित्रे तिलककारिणः ।
कर्ता नास्मि च तद्वाक्यं त्वं हि देवो न मानुषः ॥१६४॥
अयत्नेन समर्थस्त्वं निहन्तुमपकारिणम् ।
इति ज्ञात्वा मया भीत्या रक्षितोऽसि न गौरवात् ॥१६५॥
दुर्नीत्याभिहतो राजा ध्रुवमेव विनङ्क्ष्यति ।
नौरिवाकर्णधारा श्रीर्मन्त्रिहीना हि सीदति ॥१६६॥
असमीक्षितकारित्वाच्छोच्यो नन्दस्त्वया विना ।
आदित्यवर्मणो राज्ञः किं कथा न श्रुता त्वया ॥१६७॥
इत्युक्त्वा शकटालो मां धृत्वा गूढं स्वमन्दिरे ।
हतो मयेति राजानं चौरं हत्वा व्यजिज्ञपत् ॥१६८॥
निगॄहीतं तु मां राज्ञा ज्ञात्वा पुरनिवासिनः ।
शुश्रुवुर्दुःखसंतप्ता बन्धुहीना इवानिशम् ॥१६९॥
प्रच्छन्नचारी सौहार्दात्ततोऽहमवदं निशि ।
शकटाल सखे धार्ष्ट्यात्स्वबुद्ध्या रक्षितस्त्वया ॥१७०॥
अस्ति मे राक्षसो मित्रं स हन्ति मम हिंसकान् ।
भवता रक्षितो ह्यात्मा वर्तमानेन मद्धिते ॥१७१॥
इत्युक्त्वा दीप्तनयनं ध्यानमात्रादुपस्थितम् ।
करालाकारविस्फारं राक्षसं तमदर्शयत् ॥१७२॥
ततस्तद्दर्शनाद्भीतः शकटालोऽभ्यभाषत ।
कथान्तरे मया पृष्टः कथामादित्यवर्मणः ॥१७३॥
आदित्यवर्मणो राज्ञः पुरा स्वैरवती प्रिया ।
अप्राप्तसंगमा भर्त्रा गर्भमाधत्त निस्त्रपा ॥१७४॥
स तां विनष्टचारित्रां ज्ञात्वान्तःपुररक्षिणाम् ।
वचसा शिववर्माख्यं महामात्यमशङ्कत ॥१७५॥
तं वयस्यस्य नगरं नृपतेर्भोगवर्मणः ।
गूढलेखोदितवधं बद्धमूलं विसृष्टवान् ॥१७६॥
भोगवर्माणमासाद्य शिववर्मार्थ शङ्कितः ।
गूढलेखोदितं राजा विवेद वधमात्मनः ॥१७७॥
सोऽब्रवीद्भोगवर्माणं तूर्णं छिन्धि शिरो मम ।
न चेत्प्रभुहितोद्युक्तः स्वयं छेत्स्यामि मस्तकम् ॥१७८॥
श्रुत्वेति विस्मितेनाशु पृष्टो राज्ञाब्रवीत्पुनः ।
पतामि यत्र निहतस्तत्रावृष्टिभयं भवेत् ॥१७९॥
इत्याकर्ण्य भयाद्राजा विवेच्य सह मन्त्रिभिः ।
सुरक्षितं प्रयत्नेन स्वपुरं विससर्ज तम् ॥१८०॥
अत्रान्तरे वधूरूपं स्थितमन्तःपुरे नरम् ।
आदित्यवर्मा विज्ञाय पश्चात्तापं समाययौ ॥१८१॥
आदित्यवर्मकथा ॥४॥
=========================
इत्येवं कर्णचपला मदान्धा राजकुञ्जराः ।
विशृङ्खला विनश्यन्ति पतिताः स्मरशासने ॥१८२॥
कंचित्कालं भवानास्तां प्रच्छन्नो मद्गृहे सुखम् ।
विशुद्धं भवतो भावं नृपो ज्ञास्यति सानुगः ॥१८३॥
कथं ते राक्षसो मित्रमभवत्कौतुकं मम ।
इत्येवं शकटालेन पृष्टो विश्रब्धमभ्यधाम् ॥१८४॥
नन्दस्य राज्ञो नगरे प्रत्यहं दण्डवासिके ।
भक्षिते रक्षता पूर्वं वृतोऽहं तत्पदे क्रमात् ॥१८५॥
दण्डाधिपत्यमासाद्य राज्ञाहं स्वयमर्थितः ।
रक्षसा कालरूपेण तेनैव निशि संगतः ॥१८६॥
स मामुवाच चकितं वञ्चनायोग्रविग्रहः ।
रूपेणाभ्यधिका नारी का सत्यं कथ्यतामिति ॥१८७॥
या यस्याभिमता लोके सा तस्याधिकरूपिणी ।
स निशाम्येति मद्वाक्यं संतुष्टो मित्रतामगात् ॥१८८॥
इत्युक्त्वा शकटालस्य वचसा प्रयताशयः ।
प्रध्यातमात्रां सहसा साक्षाद्गङ्गामदर्शयम् ॥१८९॥
सा धूर्जटिजटाजूटमालिका जननीव माम् ।
समाश्वास्य ययौ तूर्णं हारवल्ली नभश्रियः ॥१९०॥
कदाचिदथ नन्दस्य हरिगुप्ताभिधः सुतः ।
वनं तुरङ्गमाकृष्टो विवेश मृगयारसात् ॥१९१॥
तस्मिंस्तमालगहने गजगण्डालिमण्डलैः ।
मूर्च्छातलनिरालोके तस्य रात्रिरवर्तत ॥१९२॥
ततो वनेचरभयादारुह्य तरुमास्थिते ।
राजपुत्रे समभ्यायादृक्षः सिंहभयाद्द्रुतः ॥१९३॥
तमेव तरुमारुह्य तमुवाच वनेचरः ।
न भेतव्यं त्वया भ्रातर्वत्स्यामो रजनीमिह ॥१९४॥
करालकेसरसटः क्रुद्धदृष्ट्यंशुसंचयैः ।
विपाटयन्निव तमः शार्दूलोऽ‍यमधः स्थितः ॥१९५॥
निद्रां भजस्व रात्र्यर्धं रक्षमाणः सखे मया ।
त्वयि प्रबुद्धे रात्र्यर्धमहं स्वपिमि निर्भयः ॥१९६॥
इति तद्वचसा तत्र सुप्ते राजसुते हरिः ।
ऋक्षमाह प्रसुप्तोऽयं नरो मे त्यज्यतामिति ॥१९७॥
सोऽवदद्धन्त निःसत्त्वो हरिणाधिपते भवान् ।
न हि मित्रद्रुहः पापं शाम्येज्जन्मशतैरपि ॥१९८॥
इत्युक्त्वा सोऽपि सुष्वाप प्रतिबद्धे नृपात्मजे ।
राजन्यमाह सिंहोऽथ त्यजैनं त्वं सुहृन्मम ॥१९९॥
इति सिंहवचः श्रुत्वा मित्रं सुप्तमशङ्कितम् ।
उत्सङ्गन्यस्तमूर्धानं राजसूनुरपातयत् ॥२००॥
सहसा पातितस्तेन नखैर्विष्टभ्य पादपम् ।
उर्तीर्णो बलवद्दैवाद्दुःखा हि खलसंगतिः ॥२०१॥
शशाप कुपितोऽभ्येत्य तमृक्षो विगतत्रपम् ।
यो ज्ञास्यति कथामेतां स ते त्राणमिति ब्रुवन् ॥२०२॥
उन्मत्तोऽथ स तच्छापाद्गत्वा प्रातर्निजां पुरीम् ।
प्रविश्य विगतच्छायः शोकदः क्ष्मापतेरभूत् ॥२०३॥
पुत्रमुन्मादविधुरं योगनन्दो विलोक्य तम् ।
सस्मार मां विपत्प्राप्तः शकटालस्ततोऽवदत् ॥२०४॥
देव जीवत्यसौ मन्त्री हितः कात्यायनस्तव ।
श्रुत्वेति नृपतिः पुत्रं प्राहिणोत्तं मदन्तिकम् ॥२०५॥
ऋक्षसिंहकथाभिज्ञो मोचयित्वा नृपात्मजम् ।
ततोऽहमगमं द्रष्टुं योगनन्दं ह्रिया नतम् ॥२०६॥
कथं ज्ञातस्त्वया शापः पृष्टोऽहमिति भूभुजा ।
यथा ते तिलकं बद्ध्वा बुद्धं चेत्यभ्यधामहम् ॥२०७॥
योगनन्दपुत्रशापमोक्षौ ॥५॥
==============================
अथ राजानमामन्त्र्य राजकार्यविरक्तधीः ।
प्राप्तोऽस्मि पाटलिपुरीमश्रौषं गृहचेष्टितम् ॥२०८॥
योगनन्देन निहते दिक्षु व्यक्तिं गते त्वयि ।
माता ते स्वर्ययौ शोकादुपकोशाग्निमाविशत् ॥२०९॥
उपवर्षेण कथितं श्रुत्वेत्यशनिदारुणम् ।
अगमं तपसा द्रष्टुं निःसङ्गो विन्ध्यवासिनीम् ॥२१०॥
वियोगदावदग्धानां तृष्णासंतप्तचेतसाम् ।
सुखाय सर्वसंन्यासः संतोषामृतनिर्झरः ॥२११॥
ततस्तपोवनस्थोऽहं योगनन्दपुरोहितम् ।
वार्तां यदृच्छयायातमपृच्छं कौतुकाकुलः ॥२१२॥
स प्रोवाच मया पृष्टस्त्वयि याते स भूपतिः ।
प्रज्ञया शकटालेन स पुत्रो विनिपातितः ॥२१३॥
चरणाघातकोपेन मूलोद्धृतकुशं पथि ।
स दृष्ट्वा कोपनं विप्रं मत्या श्राद्धे महीपतेः ॥२१४॥
न्यवेशयन्मुक्तशिखं चाणक्यं नाम दुःसहम् ।
उपविश्टमधः पङ्क्त्यां शकटालस्तमब्रवीत् ॥२१५॥
राज्ञावमानितोऽसीति स च जज्वाल तद्गिरा ।
चाणक्यनाम्ना ते नाथ शकटालगृहे रहः ।
कृत्यां विधाय सप्ताहात्सपुत्रो निहतो नृपः ॥२१६॥
योगनन्दे यशःशेषे पूर्वनन्दसुतस्ततः ।
चन्द्रगुप्तो धृतो राज्ये चाणक्येन महौजसा ॥२१७॥
एवमन्तर्ज्वलद्वैरः शकटालो महीपतिम् ।
निपात्य सानुगं बुध्द्या तपसे स ययौ वनम् ॥२१८॥
श्रुत्वेति कलिकल्लोलसंसारार्णवविभ्रम म् ।
रुद्राणीमगमं द्रष्टुं जरामरनवारिणीम् ॥२१९॥
ततो देवीप्रसादेन दृष्टस्त्वं शापमुक्तये ।
स्वस्ति तेऽस्तु तनुं त्यक्त्वा प्रयाम्येष निजं पदम् ॥२२०॥
संगतस्त्वं गुणाढ्येन न चिरात्प्राप्स्यसि श्रियम् ।
उक्त्वेत्यामन्त्र्य संहृष्टः काणभूतिर्ययौ वनम् ॥२२१॥
महर्षिभिर्मोक्शकथाः कृत्वा दृष्ट्वाथ पार्वतीम् ।
सर्वत्र ज्ञाननिर्धूतविकारः स्वपदं ययौ ॥२२२॥
इति वररुचिरुग्रशापमुक्तो घनपटलादिव निर्गतः शशाङ्कः ।
अविकलनिजबोधदुर्गसिन्धुः शिवपदमेत्य बभूव निस्तरङ्गः ॥२२३॥ 

इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथापीठलम्बके वररुचिमुक्तिर्नाम द्वितीयो गुच्छः ।


Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-02T19:50:23.4000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

refine

  • परिष्करण करणे 
  • परिष्करण करणे 
  • शुद्ध करणे 
  • परिष्कृत करणे 
More meanings
RANDOM WORD

Did you know?

Every hindu follows different traditions, can you explain how?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.