TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

प्रथमस्तरङ

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


प्रथमस्तरङ
उमाप्रणासंक्रान्तचरणालक्त: शशी ।
संध्यारुण इवाभाति यस्य पायात्स व: शिव: ॥१॥
सरस्वतीविभ्रमदर्पणानां सूक्तामृतक्षीरमहोद्‍धीनाम्‍ ।
सन्मानसोल्लाससुधाकरांणां कवीश्वराणां जयति प्रकर्ष: ॥२॥
दोषालोकननिपुणा: पुरुषगिरो दुर्जनाश्व घूकाश्व ।
दर्शनमपि भयजननं येषामनिमेषपिशुनानाम्‍ ॥३॥
ओजोरज्जनमेव वर्णरचनाश्चित्रा न कस्य प्रिया
नानालंकृतयश्र्व कस्य न मन: संतोषमातन्वते ।
काव्ये किं तु सतां चमत्कृतिकृता: सूक्तिप्रबन्धा: स्फुटं
तीक्ष्णाग्र झटिति श्रुतिप्रणयिन: कान्ताकटाक्षा इव ॥४॥
एवं किल पुराणेषु सर्वागमविधायिषु ।
विश्वशासनशालिन्यां श्रुतौ च श्रूयते कथा ॥५॥
अस्ति विद्याधरवधूविलासहसितद्युति:
जाहृवीनिर्झरोष्णीष: शर्वाणीजनको गिरि: ॥६॥
निशाकरकरस्मेरतुषाररुचिरत्विषा
आशा धनपतेर्येन विभात्यनिशचन्द्रिका ॥७॥
य:शुभ्रशिखरो भाति शिवमौलीन्दुदर्शनात्‍ ।
तरडलिडिताभ्रश्री: क्षीरार्णव इवोत्थि: ॥८॥
य: प्रांशुरश्मिनिवहैर्विदधाति मुहुर्मुहु: ।
त्रिदिवोद्यानहंसानां मृणालकवलभ्रमम‍ ॥९॥
यस्याश्मकूटसंघट्टविर्शीर्णपतनोत्थिता: ।
मुहूर्तं तारकायन्ते व्योम्नि गडाबुराश्य: ॥१०॥
फेनहासविलासिन्य: फुल्लत्कुवलयेक्षणा: ।
विभान्ति कटके यस्य तरडिण्यो महीभृत: ॥११॥
उत्तरे तस्य कैलासनाम्नि स्फाटिकशेखरे ।
विजहार हरो हारगौरे गिरिसुतासख: ॥१२॥
नीलोत्पलद्युतिमुषा यस्य कण्ठविषत्विषा ।
मुहुर्गौरीकपोलेन्दो: क्रियेते लाञ्छनच्छवि: ॥१३॥
विभाति भूषाभुजगै: खण्डेन्दुविष(श)शड्क्या ।
कपालकलहंसैर्य: संत्यक्तैरिव सै (शै)वलै: ॥१४॥
यस्यामरसरित्तुडतरडालिडित: शशी ।
धत्ते मूर्ध्रि सुधासिन्धुभर्गस्थितिसुखं सदा ॥१५॥
ताण्डवे यस्य दोर्दण्डमण्डलोध्दूतभस्ममि: ।
छ्न्नास्तुहिनशैलेन स्पर्धां बिभ्रति भूभृत: ॥१६॥
यस्यालोक्य घनच्छायं कण्ठं स्कन्दशिखण्डिनि ।
मुहु: प्रनृत्ते हाराहिर्व्याजिह्माक्षं व्यचेष्टत ॥१७॥
कपालकुहरावर्तक्षुभ्यद्रडाम्बुबिन्दुभि: ।
य: शेखरशशिप्रीत्या नक्षत्रैरिव सेव्यते ॥१८॥
यस्यातिहासा: क्षुभितक्षीराब्धिधवलश्रिय: ।
कर्णचामरतां यान्ति कैलाससुरदन्तिन: ॥१९॥
तं कदाचिद्रिरिसुता रह: प्रणयमन्थरम्‍ ।
प्राह वक्राम्बुजाकृष्टभ्रमरारावविभ्रमम्‍ ॥२०॥
देवाखिलजगत्सर्गस्थितिसंहारकारण ।
यस्य वेद: समुअन्मेष: कस्तं त्वां स्तोतुमीश्वर: ॥२१॥
त्वन्मायामयनिर्माणजगव्दैचित्र्यसंकथाम्‍ ।
अनन्याकर्णितां चेत: श्रोतुमुत्कण्ठते मम ॥२२॥
इति प्रियावच: श्रुत्वा हर्षव्याकोशलोचन: ।
प्राह कृत्वा कुरडाक्षीमडेक शीतांशुशेखर : ॥२३॥
किं तवाविदितं देवि चित्तसागरचन्द्रिके ।
त्वं हि पीयूषसहिते जीवितं नो बहिश्र्वरम्‍ ॥२४॥
अनन्तरुपं मां द्रष्टुं पुरा हरिचतुर्मुखौ ।
पातालमन्तरिक्षं च जग्मतु: कौतुकाकुलौ ॥२५॥
अनासाद्यैव पर्यन्तं महतो महसो मम ।
महादेवोऽयमित्युक्त्वा चक्राते तौ तपस्तत : ॥२६॥
मदेकभक्तिर्मव्दाक्याद्‍भूत्पूज्यतमो हरि: ।
सुतं मामीहमानोऽभूदपूज्य [श्र्व?] प्रजापति: ॥२७॥
सैव त्वं मम लोलक्षि दयिता वैष्णवी तनु: ।
मम धाम सहस्रांशु: शशी तव शुचिस्मिते ॥२८॥
सुभ्रु दक्षस्य तनया पुरा भूत्वा मम प्रिया ।
देहं पितुर्निकारेण त्यक्तवत्यसि भामिनि ॥२९॥
स हि यज्ञे सुरगणं समानाय्य प्रजापति: ।
तदा महोत्सवं चक्रे प्रीणिताशेषबान्धव: ॥३०॥
तत्र प्रनृत्तगीर्वाणललनागीतनादिते ।
अहं कपालमालीति पित्रा ते न निमन्त्रित: ॥३१॥
त्वत्कोपादिष्टमार्गेण मम क्रोधभुवा मख: ।
गणेनाकारि द्क्षस्य कथाशेषमहोत्सव: ॥३२॥
यत्परीवादकोपेन त्यक्त्वा दक्षभवां तनुम्‍ ।
सुता तुहिनशैलस्य जातासि यशसां निधे: ॥३३॥
शंभो: शरीरार्धहरा भवानीयं तवात्मजा ।
इति शुश्राव शैलेन्द्रो नारदाज्जनकस्तव ॥३४॥
ततस्त्वां यौवनारम्भ्विभ्रमोद्यानमज्जरीम्‍ ।
सपर्यायै तपस्थ दिदेश हिमवान्मम ॥३५॥
अत्रान्तरे तारकेण वन्दीकृतजयश्रिय: ।
शुश्रुवुस्त्रिदशास्त्रणं भाविनं त्वयि मे सुतम्‍ ॥३६॥
तदर्थमथ शक्रेण प्रेषितो रतिवल्लभ: ।
तपोवनं समजुषत्सभायो मधुना सह ॥३७॥
तत: कुसुमहासिन्यो विलोलालिकुलालका:।
क्कणव्दिहडवलया हारिण्यो विबभुर्लता: ॥३८॥
कान्ताकपोलसच्छाये प्रोढतां याति चम्पके ।
अशोके गाढरागे च कामिनामिव चेतसि ॥३९॥
नेत्रप्रभाकुवलयव्यासडिकुसुमाज्जलिम्‍ ।
क्षिपन्तीं प्रणतां देवि त्वामपश्यमहं पुर: ॥४०॥
ततोऽहं निशिताग्रस्य कर्णान्तपरिसर्पिण: ।
लक्ष्यतां त्वत्कटाक्षस्य यात: स्मरशरस्य च ॥४१॥
हर्षान्मे त्वन्मुखाम्भोजभृडाली त्वयि सोत्सुका ।
दृष्टि: पपात लावण्यकल्लोलाकुलिताधरम्‍  ॥४२॥
प्रणिधाय मन: पश्र्वादपश्यं कुसुमायुधम्‍ ।
मौर्वीमधुकरारावतारक्रेडकारकार्मुकम्‍ ॥४३॥
तदकारि मम क्रोधादथ लोचनवह्रिना ।
अडनापाडवसतिर्येनापाडोऽभवत्स्मर: ॥४४॥
मानसक्षोभपवने प्लुष्टे मकरकेतने ।
भयकम्पकृपाशोकव्याकुले तव चेतसि ॥४५॥
दग्धोऽन्धकव्दिषा रोषात्स्मरस्तत्रास्मि कारणम्‍ ।
इति ध्यात्वा तपस्तीव्रं तप्तवत्यसि पार्वति ॥४६॥
मयि प्रसादसुभगां ज्ञात्वा ते निश्चितां मतिम्‍ ।
यात: कृतार्थतां देवि तवायं प्रणयाज्जन: ॥४७॥
गेहे ततो हिमवतस्त्वव्दिवाहमहोत्सवे ।
ते तारकवधैकाग्रा ननन्दुर्नन्दनौकस: ॥४८॥
एवं त्वमनवद्याडि प्रेमामृततरडिणि ।
प्राप्ता मया विभ्रत(म)भू: स्मरसंजीवनौषधिं: ॥४९॥
दिव्यमानुषसंबध्दां श्रृणु चित्रां कथामिमाम्‍ ।
यया मनसि वर्तन्ते निर्भरानन्दसंपद: ॥५०॥
इत्युक्त्वा विविधाश्र्वर्या विद्याधरधराभुजाम्‍ ।
कथामकथयद्देव: सप्तानां चक्रवर्तिनाम्‍ ॥५१॥
अत्रान्तरे समायात: पुष्पदन्तो गणाग्रणी : ।
मानी महेश्वरं द्रष्टुं नन्दिना व्दार्यवार्यत ॥५२॥
न कदाचिन्निषिध्दोऽहं किमेतदिति कौतुकात्‍ ।
वायुभूत: प्रविश्यात: खैरं शुश्राव तां कथाम्‍  ॥५३॥
जया नाम प्रतीहारी देव्या: केलिकला सखी ।
कथां तामेव दयितात्पुष्पदन्तादथाशृणोत‍ ॥५४॥
आश्र्वर्यश्रवणानन्दफुल्लव्ददनपक्डजा ।
तामेवाकथयन्मुग्धा पृष्टा गिरिजया जया ॥५५॥
श्रृत्वैव कुपिता देवी बभापे शशिशेखरम्‍ ।
अनन्याकर्णिता चित्रा त्वया मे कथिता कथा ॥५६॥
पश्यैतां कथयन्त्येता रह:क्रीडासु योषित: ।
इत्युक्त्वा कपटस्मेरच्छ्न्नकोपाकुलाभवत्‍ ॥५७॥
कोपहासत्विषा तस्या: प्रणामानतशेखर : ।
शंकर : क्षिप्रमभवव्दिशशक्ड(?)कलाधर: ॥५८॥
पुष्पदन्त: प्रविश्यान्तर्वायुभूत: कथामिमाम्‍ ।
शुश्राव नापराधो मे प्रियामित्याह धूर्जटि: ॥५९॥
पुष्पदन्तमथाहूय भ्रुकुटीधूमविभ्रमम‍ ।
शशाप शैलतनया दधती कोपपावकम्‍ ॥६०॥
मर्त्यलोके पत क्षिप्रमिति सत्या समीरिते ।
कारुण्यदैन्यसंत्रासविषण्णे गणमण्डले ॥६१॥
नहि निर्वहणं यान्ति प्रभूणामाश्रिते रुष: ।
प्रसीद देवि मित्रार्थे माल्यवानित्यभाषत ॥६२॥
वयस्यशापनिर्वाणयाञ्चाप्रणतशेखरम्‍ ।
क्रुध्दा तमपि रुद्राणी शशाप गणशेखरम्‍ ॥६३॥
यक्षो धनदशापेन विन्ध्याटव्यां पिशाचताम्‍ ।
अवाप्त: श्रोष्यति त्वत्त: कथाचोर कथामिमाम्‍ ॥६४॥
काणभूतिर्यदा शापनर्वाणं लप्स्यते तदा ।
पुनस्तामेव च कथां कथितां काणभूतिना ॥६५॥
श्रुत्वैव माल्यवानेष शापस्यान्तमवाप्स्यति ।
इति तद्याचिंत देवी शापस्यान्तमकल्पयत्‍ ॥६६॥
अवाडभुखौ चलन्मौलिमालाव्याकुलषट्‍पदौ ।
तत: शापाक्षरव्रास्तौ कृष्टाविव पेततु: ॥६७॥
तयोश्र्विरस्य शापेन वसुधामवतीर्णयो: ।
तव्दृत्तान्तं गिरिजया पृष्ट: प्राह त्रिलोचन: ॥६८॥
कौशाम्बीवासिन:सुभ्रु पुत्रतामग्रजन्मन: ।
प्रयात : सोमदत्तस्य पुष्पदन्तो महीतले ॥६९॥
कात्यायन: श्रुतधरस्तथा वररुचिश्र्व स: ।
गुणिनामग्रणीर्लोके नामभिस्त्रिरुच्यते ॥७०॥
प्रतिष्ठानपुरे जातो माल्यवान्दक्षिणापथे ।
गुणाढय इति यो लोक विश्रुतो गुणगौरवात्‍ ॥७१॥
इति गिरिशवचो निशम्य देवी किमपि बभूव कृपाविषण्णचित्ता ।
रतिविरहकृशा समागमाय प्रयतधिया च जया मनश्र्वकार ॥७२॥
कथावतार: ॥१॥
इति श्रीक्षेमेन्द्रविरचितायां बृहत्कथायां कथापीठलम्बके प्रथमस्तरङ ।

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-10-02T19:46:11.5100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

weak base

  • सौम्य आम्लारि 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site