TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

चोदनालक्षणोsर्थो धर्मः - श्लोक १ ते २५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


श्लोक १ ते २५
धर्मे सामान्यतः सिद्धे प्रमाणं चोदनोच्यते ।
स्वरूपादेस्ततः सिद्धिः स्वरूपं वेह सूत्र्यते ॥१॥
द्वयमेकेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते ।
स्वरूपे sपि हि तस्योक्ते प्रमाणं कथ्यतेsर्थतः ॥२॥
किमाद्यपेत्तितैः पूर्णः समर्थः प्रत्ययो विधौ ।
तेन प्रवर्तकं वाक्यं शास्त्रेsस्मिन् चोदनोच्यते ॥३॥
चोदनैव प्रमाणं चेत्येतद्धर्मेsवधारितम् ।
साकाङ्क्षमिति मन्वानो युक्तलेशं द्वयेsस्पृशत् ॥४॥
सम्भाव्यते प्रमाणत्वं शब्दस्यैवंविधेष्वपि ।
इन्द्रियादेरसामर्थ्यं वक्ष्यमाणमदीदिशत् ॥५॥
अत्यन्ताsसत्यपि ज्ञानमर्थे शब्दः करोति हि ।
तेनोत्सर्गे स्थिते तस्य दोषाभावात्प्रमाणता ॥६॥
चोदनेत्यब्रवीच्चात्र शब्दमात्रविवक्षया ।
न हि भूतादिविषयः कश्चिदस्ति विधायकः ॥७॥
इन्द्रियादिव्युदासेन शब्दो पावन्न साध्यते ।
तावच्च तद्विशेषस्य कुतो वाsवसरो भवेत् ॥८॥
निमित्तमात्रं वोच्येत प्रमाणं वेह लक्षणम् ।
प्रमाणं त्वपि शब्दो वा ( १ ) तज्ज्ञानं वा निरूप्यते ॥९॥
पदार्थस्तन्मतिर्वा स्याद्वाक्यार्थाधिगमोsपि वा ।
पूर्वेषान्तु प्रमाणत्वे फलत्व तस्य गम्यते ॥१०॥
ज्ञानेलक्षणशब्दोsयं यदि नाम प्रयुज्यते ।
चोदनोक्तिस्तदा कार्यं तत्कार्यं चाsपि लक्षयेत् ॥११॥
निमित्तमात्रे शब्दे च प्रमाणे मुख्यवृत्तयोः ।
सामानाधिकरण्यं स्याच्चोदनालक्षणत्वयोः ॥१२॥
द्रव्यक्रियागुणादीनां धर्मत्वं स्थापयिष्यते ।
तेषामैन्द्रियकत्वेsपि न ताद्रूप्येण धर्मता ॥१३॥
श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते ।
ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ॥१४॥
प्रदर्ह्सनार्थमत्रोक्तमिन्द्रियं सूत्रकारवत् ।
नान्यत्किं चेति वा च्छेदः सामान्यार्थःप्रयुज्यते ॥१५॥
तदसामर्थ्यसिद्ध्यै च पुनरिन्द्रियकीर्तनम् ।
किं चेति मध्यमच्छेदो हेतुप्रश्ने प्रयुज्यते ॥१६॥
यद्यपि त्वनुमानस्याsप्येवमादौ समर्थता ।
विना सम्बन्धबोधेन न तु तस्योद्भवः क्क चित् ॥१७॥
न सामान्यविशेषाभ्यां धर्मसम्बन्धदर्शनम् ।
लिङ्गस्य कस्य चित्सिद्धं येन स्यादनुमानता ॥१८॥
ननु शब्दो sपि सम्बन्धबोधान्नर्ते प्रवर्त्तते ।
पदं तदू,न च तद्वाच्यो धर्मो, वाक्यार्थ एव सः ॥१९॥
वाक्यस्याsवाचकत्वं च पदार्थानां च हेतुता ।
सम्बन्धस्याsनपेक्षाणां ( १ ) वाक्यार्थे स्थापयिष्यते ॥२०॥
नित्यत्वादेरसिद्धत्वादभ्युपेत्योच्यतेsथ वा ।
सुतरामप्रमाणत्वं वक्तृप्रामाण्यवर्जनात् ॥२१॥
प्रमाणान्तरदृष्टं हि शब्दोsर्थं प्रापयेत्सदा ।
स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥२२॥
नूनं तत्राsनुभूतोsसावित्याप्तोक्तिनिबन्धना ।
बुद्धिः साक्षाददृष्टेsपि युक्ताsर्थे पुरुषोक्तितः ॥२३॥
नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्क चित् ।
वचसः सत्यता दृष्टा तथा स्याच्चोदनास्वपि ॥२४॥
तेन सत्यपि विज्ञाने प्रतिभादेर्यथैव हि ।
स्वातन्त्र्यान्न प्रमाणत्वं तथा वेदेsपि दृश्यताम् ॥२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:55:02.2570000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tightening sensation

  • आवळले जाण्याची संवेदना 
  • आवळल्यासारखे वाटणे 
RANDOM WORD

Did you know?

मंदिराला कळस बांधतात, पण घरातील देव्हार्‍याला कळस का नसतो?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site