चोदनालक्षणोsर्थो धर्मः - श्लोक २२६ ते २५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


भावनान्तर्गतत्वाद्वा मत्वाsनर्थत्वमाक्षिपत् ।
नैवेत्येतावता चास्य विधेयत्वनिराक्रिया ॥२२६॥
किं विधेयमिदानीं स्यादाह श्येनादयस्त्विति ।
‘ प्रश्नापाकरणॆ चात्र तव्यो विधिविवक्षया ॥२२७॥
प्रयुक्तो न तु साध्येsर्थे ’ द्वयेsप्यनुपयोगतः ।
अनर्थस्यापि साध्यत्वमविधेयस्य हीष्यते ॥२२८॥
साध्यत्वरहिते चेष्टा विधेये नित्यमर्थता ।
शतुश्च लक्षणार्थत्वं तेषां चाप्युपदेशनम् ॥२२९॥
ब्रुवन् स्फुटीकरोतीष्टमुपदेशो हि नान्यथा ।
विधित्वमादिशब्दात्स्यादितिकर्तव्यतास्वपि ॥२३०॥
तस्मात्फलांशे या हिंसा वैदिकी सा निषिध्यते ।
अंशद्वये तु या नाम तन्निषेधाभिधायिनाम् ॥२३१॥
अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरम् ।
निषेधेनाsनवष्टब्धे विषये न ह्यनर्थता ॥२३२॥
प्रत्यक्षादेरशक्यत्वात्कल्प्यते निष्प्रमाणिका ।
न हि हिंसाद्यनुष्ठाने तदानीं दोषदर्शनम् ॥२३३॥
बाह्येsपि विचिकित्सा तु शास्त्रादेवोपजायते ।
‘ हिंस्यमानस्य दुःखित्वं दृश्यते यन्न तावता ॥२३४॥
कर्तुर्दुःखानुमानं स्या’त्तदानीं तद्विपर्ययः ।
विषयेsस्याः फलं यादृक् प्रेत्य कर्तुस्तथाविधम् ॥२३५॥
हिंसा क्रियाविशेषत्वात्सूते शास्त्रोक्तदानवत् ।
य एवमाह तस्यापि गुरुस्त्रीगमनादिभिः ॥२३६॥
सुरापानादिभिश्चापि विपक्षैर्व्यभिचारिता ।
विरुद्धता च यादृग्धि दानैस्तादृक् फलं भवेत् ॥२३७॥
विधिगम्यफलावाप्तिरदुःखात्मकता तथा ।
न च या सम्प्रदानस्य प्रीतिस्तादृक् फलं श्रुतम् ॥२३८॥
दातुस्तेन हि दृष्टान्तः साध्यहीनः प्रतीयते ।
‘ सम्प्रदानं च दाने ते विषयः कर्म हिंसने ॥२३९॥
वैषम्यं ’ सम्प्रदाने तु पक्षस्त्वेतद्विरुद्धता ।
प्रीयते सम्प्रदानं हि देवतेति मतं तव ॥२४०॥
दृष्टान्ते कर्म दानं चेत्, तस्य कीदृक् फलं भवेत् ।
जपहोमादिदृष्टान्तात्परपीडादिवर्जनात् ॥२४१॥
चोदितत्वस्य हेतुत्वाद्विरुद्धाsव्यभिचारिता ।
विहितप्रतिषिद्धत्वे मुत्त्काsन्यन्न च कारणम् ॥२४२॥
धर्माsधर्मावबोधस्य तेनायुक्ताsनुमानगीः ।
अनुग्रहाच्च धर्मत्वं पीडातश्चाप्यधर्मता ॥२४३॥
वदतो जपसीध्वादिपानादौ नोभयं भवेत् ।
क्रीशता हृदयेनापि गुरुदाराभिगामिनाम् ॥२४४॥
भूयान् धर्मः प्रसज्येत भूयसी ह्युपकारिता ।
अनुमानप्रधानस्य प्रतिषेधाsनपेत्तिxxः ॥२४५॥
हृदयक्रोशनं कस्माद् दृष्टां पीडामपश्यतः ।
पीडातश्चाप्यधर्मत्वं तथा पीडामधर्मतः ॥२४६॥
अन्योन्याश्रयमाप्नोति विना शास्त्रेण साधयन् ।
एवमादावशास्त्रज्ञो म्लेच्छो नोद्विजते क्क चित् ॥२४७॥
तस्य नाsधर्मयोगः स्यात्पूर्वोक्ता यदि कल्पना ।
तस्मादनुग्रहं पीडां तदभावमपास्य च ॥२४८॥
धर्माsधर्मार्थिभिर्नित्यं मृग्यौ विधिनिषेधकौ ।
‘ क्क चिदस्या निषिद्धत्वाच्छक्तिः शास्त्रेण बोधिता ॥२४९॥
प्रत्यवायनिमित्तत्वे विधिना नापगच्छति ।
शास्त्रेण न हि शक्तीनामावापोद्वापनक्रियाः ॥२५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP