चोदनालक्षणोsर्थो धर्मः - श्लोक १२६ ते १५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


अपि चालौकिकार्थत्वे सति पुंवाक्यहेतुकम् ।
मिथ्यात्वं वेदवाक्यनां स्यादन्योन्यसपक्षता ॥१२६॥
धर्माsधर्मातिरिक्तार्थेsप्रामाण्यञ्च प्रसज्यते ।
सांख्यादिषु च जीवत्सु दृष्टान्तोदुर्लभोsस्य च ॥१२७॥
अलौकिकार्थवाचित्वं नृवाक्यत्वं सतीति च ।
परस्परमपेक्ष्यैव बौद्धादेः स्यान्मृषार्थता ॥१२८॥
वदेदेवं च यो नाम वादी प्रथमसङ्गतः ।
तस्यापि हेतुः स्यादेष भवन्तं प्रत्यसंशयम् ॥१२९॥
बुद्धादीनामसार्वज्ञ्यमिति सत्यं वचो मम ।
मदुक्तत्वाद्यथैवाग्निरुष्णो भास्वर इत्यपि ॥१३०॥
प्रत्यक्षं च मदुक्तत्वं त्वया साध्या तदुक्तता ।
तेन हेतुर्मदीयः स्यात्सन्दिग्धाsसिद्धता तव ॥१३१॥
प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य च ।
सद्भाववारणे शक्तं को नु तं कल्पयिष्यति ॥१३२॥
न चापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते ।
विगानाच्छिन्नमूलत्वात्कैश्चिदेव परिग्रहात ॥१३३॥
सर्वज्ञोsसाविति ह्येव तत्काले तु बुभुत्सुभिः ।
तज्ज्ञानज्ञेयविज्ञाननरहितैर्गम्यते कथम् ॥१३४॥
कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ।
य एव स्यादसर्वज्ञः स सर्वज्ञं न बुध्यते ॥१३५॥
सर्वज्ञोsनवबुद्धश्च येनैव स्यान्न तं प्रति ।
तद्वाक्यानां प्रमाणत्वं मूलाज्ञाने sन्यवाक्यवत् ॥१३६॥
रागादिरहिते चास्मिन् निर्व्यापारे ( १ ) व्यवस्थिते ।
देशनाsन्यप्रणीतैव स्यादृते प्रत्यवेक्षणात् ॥१३७॥
‘ सान्निध्यमात्रतस्तस्य पुंसश्चिन्तामणेरिव ।
निःसरन्ति यथाकामं कुड्य़ादिभ्योsपि देशनाः ॥१३८॥
एवमाद्युच्यमानन्तु श्रद्धधानस्य शोभते ’ ।
‘ कुड्यादिनिः सृतत्वाच्च नाश्वासोदेशनासु नः ॥१३९॥
किन्नु बुद्धप्रणीताः स्युः किमु कैश्चिद् दुरात्मभिः ।
अदृश्यैर्विप्रलम्भार्थं पिशाचादिभिरीरिताः ’ ॥१४०॥
एवं यैः केवलं ज्ञानमिन्द्रियाद्यनपेत्तिणः ।
सूक्ष्माsतीतादिविषयं जीवस्य परिकल्पितम् ॥१४१॥
नर्ते तदागमात्सिध्येन्न च तेनागमो विना ।
दृष्टान्तोsपि न तस्यान्यो नृषु कश्चित्प्रवर्तते ॥१४२॥
नित्यागमावबोधोsपि प्रत्याख्येयोsनया दिशा ।
न हि तत्रापि विस्रम्भो दृष्टोsनेन कृतोsथ वा ॥१४३॥
सर्वदा चापि पुरुषाः प्रायेणाsनृतवादिनः ।
यथाsद्यत्वे न विस्रम्भस्तथाsतीतार्थकीर्तने ( १ ) ॥१४४॥
स्वप्नादिज्ञानवच्चापि प्रत्ययोsस्यागमार्थयोः ।
भवेदिति सशङ्कानां प्रामाण्यं गम्यते कथम् ॥१४५॥
पुरुषातिशयश्चेष्टः सैव चाssगमनित्यता ।
कल्पितं स्मरणं चास्य जन्मान्तरनिबन्धनम् ॥१४६॥
ग्राह्यत्वे चागमस्यैवं द्वेषोsर्थग्रहणे वृथा ।
यो ह्यनुच्चारितं शब्दं गृह्णात्यर्थेsस्य का कथा ॥१४७॥
पुमांस्तावत्स्वतन्त्रः स्यादर्थग्रहणवादिनाम् ।
आगमप्रतिभाने ( २ ) तु पारतन्त्र्यं द्वयोरपि ॥१४८॥
अनेकपुरुषस्थत्वादेकत्रैव च जन्मनि ।
ग्रहणस्मरणाद्वेदे न स्वातन्त्र्यं विहन्यते ॥१४९॥
अन्यथाकरणे चास्य बहुभ्यः स्यान्निवारणम् ।
एकस्य प्रतिभानं तु कृतकान्न विशिष्यते ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP