समासोक्ति अलंकारः - लक्षण ५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथास्या: केचन भेदा निगद्यन्ते-
विशेषणसाम्य्म श्लेषेण भवति शुद्धसाधारण्येन वा, तदपि धर्मान्तरपुर-
स्कारेण कार्यपुरस्कारेण वेति प्रत्येकं द्विविधम । तत्र ‘ विबोधयन्करस्पशैं : ’
इत्यत्र धर्मान्तरपुरस्कारेण श्लेषे समुदाह्लतमपि विशेषणसाम्यं पुनरुदा-
ह्लियते-
‘ उत्सड्रे तव गड्रे पायं पायं पयोऽतिमधुरतरम्‍ । शमिताखिलश्रमभर: कथय कदाहं चिराय शयिताहे ॥ ’
अत्र शिशुजननीवृत्तान्ताभेदेन स्थित: प्रकृतवृत्तान्त: । श्लिष्टकार्य-पुरस्कारेणाप्युदाह्लतं ‘ संगृह्लास्यलकान्निरस्यसि-’ इत्यत्र ।
शुद्धसाधारण्येन धर्मांन्तरपुरस्कारेण यथा-
‘ अलंकर्तंउ कर्णै भृशमनुभवन्त्या नवरुजां ससीत्कारं तिर्यग्वलितवदनाया मृगद्दश: । कराब्जव्यापारानतिसुकृतसारान्रसयतो जनु: सर्वश्लाघ्यं जयति ललितोत्तंस भवत: ॥
अत्र नवकान्तया क्लेशेन कर्णे क्तियमाणस्योत्तंसस्य वृत्तान्त: प्रत्यग्र-स्वण्डिताधरकामुकवृत्तान्ताभेदेन स्थित: । यथा वा-
‘ अन्धेन पातभीत्या संचरता विषमविषयेषु । द्दढमिह मया गृहीता हिमगिरिश्रृड्रादुपागता गड्रा ॥ ’
अत्र गिरिश्रृड्रप्रभववेणुयष्टिव्यवहाराभेदेन ।
कार्यसाधारण्येन यथा-
‘ देव त्वां परित: स्तुवन्तु कवयो लोभेन, किं तावता स्तव्यस्त्वं भवितासि, यस्य तरुणश्चापप्रतापोऽधुना । क्तोडान्त: कुरुतेतरां वसुमतीमाशा: समालिड्रति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP