समासोक्ति अलंकारः - लक्षण ७

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इत्यादौ सुन्दरमिति साधारणविशेषणसत्त्वेऽपि रूपकमेव, तथेहापि । क्कचिद्‍गुणीभूतं क्कचित्प्रधानमित्यन्यदेतत्‍ । साधारण्येन विशेषणसाम्य-मूलाया: समासोक्तेस्तु ‘ अन्धेन पातभीत्या संचरता-’ इत्यादि: प्रागस्माभि-रुदाह्लतो विषय इति न निरवकाशत्वम्‍ । तत्र ह्यसाधारणधर्मारोप-मन्तरेण साधारणविशेषणमहिम्रैवाप्रकृतप्रतीते: । एतेन ‘ तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्येऽप्यप्रकृतसंबन्धिधर्मकार्यसमारोपमन्तरेण तव्द्यवहारप्रतीतिर्न भवति ‘ इति विमर्शिनीकृता यदुक्तं तन्निरस्तम्‍ । तस्मादेवं संभवति विषयविभागे ‘ तन्वी मनोहरा-’ इत्यत्र समासोक्ति-वचनमह्लद्यम्‌ ।
यदपि “ औपम्यगर्भत्वेनापि विशेषणसाम्यं संभवति । यथा-
‘ दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन सुवेषा हरिणेक्षणा ॥ ’
अत्र हरिणेक्षणामात्रवृत्ते: सुवेषत्वस्य विशेषणस्य महिम्ना दन्तप्रभा-सदृशानि पुष्पाणीत्यादियोजनां विहाय दन्तप्रभा: पुष्पाणीवेत्याद्युपमित-समासाश्रयेण कृते योजने प्रकृतार्थसिद्धौ सत्यां वृत्त्यन्तरेण त्यक्ताया एव योजनाया: पुनरुज्जीवने पुष्पपल्लवालिवृन्दैरुपमेयैराक्षिप्ताया लताया: प्रत्ययान्न तव्द्यवहारारोप: । एवं सुवेषेत्यपहाय परीतेति कृत्ते उपमारूपक साधकबाधकप्रमाणाभावात्तदुभयसंशयरूपसंकाराश्रयेण कृते योजने पश्चात्पूर्वोक्तरीत्या लताप्रतीते: समासोक्तिरेव । समासभेदेनार्थभेदेऽपि शब्दैक्यभादाय श्लिष्टमूलायामिव विशेषणसाम्यं बोध्यम्‍ । आदावन्ते बा रूपकाश्रयेण दन्तप्रभा एव पुष्पाणीति योजने कृते तु हरिणेक्षणांशे आक्षिप्तलतातादाम्यकेनैकदेशविवर्तिरूपकेणैवाप्रकृतार्थप्रत्ययोपपत्तेर्नार्थ:समासोक्तेरत्र ” इति तेनैवोक्तम्‍, तदपि न विचारसहम्‍ । दन्तप्रभा: पुष्पाणीवेत्युपमाग्गर्भत्वेनाप्यादौ योजने कृते हरिणेक्षणांशे आक्षिप्त लतोपमानिकया एकदेशविवर्तिन्या उपमयैव गतार्थत्वात्समासोक्तेरानर्थ-क्यादत्राप्रसक्ते: । न चोद्भटमते एकदेशविवर्तिनोरुपमासंकरयोरस्वीका-रात्तथोक्तमिति वाच्यम्‍ । अनुपदमेव स्वयं तेन तत्स्वीकारात्‍ ।
‘ हालाहलसमो मन्युरनुकम्पा सुधोपमा । कीर्तिस्ते चन्द्रसदृशी भटास्तु मकरोद्भटा: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP