TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

नारदपरिव्राजकोपनिषत् - पञ्चमोपदेशः

आपल्या प्राचीन वाङ्मयामध्ये उपनिषदांना फार महत्त्वाचे, म्हणजे प्रस्थानत्रयी मधील एक, असे स्थान आहे.
Upanishad are highly philosophical and metaphysical part of Vedas. Being the conclusive part of Vedas, Upanishad can be called the whole substance of Vedic


पञ्चमोपदेशः
अथ हैनं पितामहं नारदः पप्रच्छ भगवन्सर्वकर्मनिवर्तकः संन्यास इति त्वयैवोक्तः पुनः स्वाश्रमाचारपरो भवेदित्युच्यते । ततः पितामह उवाच । शरीरस्य देहिनो जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः सन्ति तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः पुरुषा जन्तवस्तदनुकूलाचाराः सन्ति तथैव चेद्भगवन्संन्यासाः कतिभेदास्तदनुष्ठानभेदाः कीदृशास्तत्त्वतोऽस्माकं वक्तुमर्हसीति । तथेत्यङ्गीकृत्य तु पितामहेन संन्यासभेदैराचारभेदज़् कथमिति चेत्तत्त्वतस्त्वेक एव संन्यासः अज्ञानेनाशक्तिवशा- त्कर्मलोपश्च त्रैविध्यमेत्य वैराग्यसंन्यासो ज्ञानवैराग्यसंन्यासः कर्मसंन्यासश्चेति चातुर्विध्यमुपागतस्तद्यथेति दुष्टमदनाभाच्चेति विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मवशात्संन्यस्तः स वैराग्यसंन्यासी शास्त्रज्ञानात्पापपुण्यलोकानुभव- श्रवणात्प्रपञ्चोपरतः क्रोधेर्ष्यासूयाहङ्कारा- भिमानात्मकसर्वसंसारं निर्वृत्य दारेषणाधनेषणा- लोकेषणात्मकदेहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रकृतीयं सर्वमिदं हेयं मत्वा साधनचतुष्टयसंपन्नो यः संन्यसति स एव ज्ञानसंन्यासी । क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी । ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्यभावेऽप्याश्रमक्रमानुसारेण यः संन्यस्यति स कर्मसंन्यासी । ब्रह्मचर्येण संन्यस्य संन्यासाज्जातरूपधरो वैराग्यसंन्यासी । विद्वत्संन्यासी ज्ञानसंन्यासी विविदिषासंन्यासी कर्मसंन्यासी । कर्मसंन्यासोऽपि द्विविधः निमित्तसंन्यासोऽनिमित्तसंन्यासश्चेति । निमित्तस्त्वातुरः । अनिमित्तः क्रमसंन्यासः । आतुरः सर्वकर्मलोपः प्राणस्योत्क्रमणकालसंन्यासः स निमित्तसंन्यासः । दृढाङ्गो भूत्वा सर्वं कृतकं नश्वरमिति देहादिकं सर्वं हेयं प्राप्य । हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिधिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । ब्रह्मव्यतिरिक्तं सर्वं नश्वरमिति निश्चित्याथो क्रमेण यः संन्यस्यति स संन्यासोऽनिमित्तसंन्यासः । संन्यासः षड्विधो भवति । कुटीचको बहूदको हंसः परमहंसः तुरीयातीतोऽवधूतश्चेति । कुटीचकः शिखायज्ञोपवीती दण्डकमण्डलुधरः कौपीनकन्थाधरः पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमन्त्रसाधनपर एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः । बहूदकः शिखादिकन्थाधरस्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंक्लृप्तमाधुकरान्नाशी कौपीनखण्डतुण्डधारी । परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेश्वेकरात्रान्नादनपरः करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्धूलनपरः सर्वत्यागी । तुरीयातीतो गोमुखः फलाहारी । अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्छरीरवृत्तिकः । अवधूतस्त्वनियमोऽभिशस्तपतितवर्जनपूर्वकं सर्ववर्णेष्वजगर- वृत्त्याहारपरः स्वरूपानुसन्धानपरः । आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः कुटीचकबहूदकहंसानां ब्रह्मच- र्याश्रमादितुरीयाश्रमवत् कुटीचकादीनां संन्यासविधिः । परमहंसादित्रयाणां न कटीसूत्रं न कौपीनं न वस्त्रं न कमण्डलुर्न दण्डः सार्ववर्णैक- भैक्षाटनपरत्वं जातरूपधरत्वं विधिः । संन्यासकालेऽप्यलंबुद्धिपर्यन्तमधीत्य तदनन्तरं कटीसूत्रं कौपीनं दण्डं वस्त्रं कमण्डलुं सर्वमप्सु विसृज्याथ जातरूपधरश्चरेन्न कन्थावेशो नाध्येतव्यो न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं न तर्कं पठेन्न शब्दमपि बृहच्छब्दान्नाध्यापयेन्न महद्वाचोविग्लापनं गिरा पाण्यादिना संभाषणं नान्यस्माद्वा विशेषेण न शूद्रस्त्रीपतितोदक्यासंभाषणं न यतेर्देवपूजा नोत्सवदर्शनं तीर्थयात्रावृत्तिः । पुनर्यतिविशेषः । कुटीचस्यैकत्र भिक्षा बहूदकस्यासंक्लृप्तं माधुकरं हंसस्याष्टगृहेष्वष्टकवलं परमहंसस्य पञ्चगृहेषु करपात्रं फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः सार्ववर्णिकेषु यतिर्नैकरात्रं वसेन्न कस्यापि नमेत्तुरीयातीतावधूतयोर्न ज्येष्ठो यो न स्वरूपज्ञः स ज्येष्ठोऽपि कनिष्ठो हस्ताभ्यां नद्युत्तरणं न कुर्यान्न वृक्षमारोहेन्न यानादिरूढो न क्रयविक्रयपरो न किञ्चिद्विनिमयपरो न दाम्भिको नानृतवादी न यतेः किंचित्कर्तव्यमस्त्यस्तिचेत्सांकर्यम् । तस्मान्मननादौ संन्यासिनामधिकारः । आतुरकुटीचकयोर्भूर्लोको बहूदकस्य स्वर्गलोको हंसस्य तपोलोकः परमहंसस्य सत्यलोकस्तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् । यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेव समाप्नोति नान्यथा श्रुतिशासनम् । तदेवं ज्ञात्वा स्वरूपानुसन्धानं विनान्यथाचारपरो न भवेत्तदाचारवशात्तत्तल्लोकप्राप्तिर्ज्ञान- वैराग्यसंपन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राचारप्रसक्ति- स्तदाचारः । जाग्रत्स्वप्नसुषुप्तेष्वेकशरीरस्य जाग्रत्काले विश्वः स्वप्नकाले तैजसः सुषुप्तिकाले प्राज्ञः अवस्थाभेदादवस्थेश्वरभेदः कार्यभेदात्कारणभेदस्तासु चतुर्दशकारणानां बाह्यवृत्तयोऽतर्वृतयस्तेषा- मुपादानकारणम् । वृत्तयश्चत्वारः मनोबुद्धिरहङ्कारश्चित्तं चेति । तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः । नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्नं समाविशत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् । तुरीयमक्षरमिति ज्ञात्वा जागरिते सुषुप्त्यवस्थापन्न इव यद्यच्छृतं यद्यदृष्टं तत्सत्सर्वमविज्ञातमिव यो वसेत्तस्य स्वप्नावस्थायामपि तादृगवस्था भवति । स जीवन्मुक्त इति वदन्ति । सर्वश्रुत्यर्थप्रतिपादनमपि तस्यैव मुक्तिरिति । भिक्षुर्नैहिकामुष्मिकापेक्षः । यद्यपेक्षास्ति तदनुरूपो भवति । स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्रा- भ्यासैरुष्ट्रकुङ्कुमभारवद्व्यर्थो न योगशास्त्र- प्रवृत्तिर्न साङ्ख्यशास्त्राभ्यासो न मन्त्रतन्त्रव्यापारः । इतरशास्त्रप्रवृत्तिर्यतेरस्ति चेच्छवालङ्कारवच्चर्मकारव- दतिविदूरकर्माचारविद्यादूरो न प्रणवकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनुभवति एरण्डतैलफेनवदतः सर्वं परित्यज्य तत्प्रसक्तं मनोदण्डं करपात्रं दिगम्बरं दृष्ट्वा परिव्रजेद्भिक्षुः । बालोन्मत्तपिशाचवन्मरणं जीवितं वा न काङ्क्षेत कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिव्राडिति । तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः । भिक्षामात्रेण जीवि स्यात्स यतिर्यतिवृत्तिहा ॥१॥ न दण्डधारणेन न मुण्डनेन न वेषेण न दम्भाचारेण मुक्तिः । ज्ञानदण्डो धृतो येन एकदण्डी स उच्यते । काष्ठदण्डो धृतो येन सर्वाशी ज्ञानवर्जितः । स याति नरकान्घोरान्महारौरवसंज्ञितान् ॥२॥ प्रतिष्ठा सूकरीविष्ठासमा गीता महर्षिभिः । तस्मादेनां परित्यज्य कीटवत्पर्यटेद्यतिः ॥३॥ अयाचितं यथालाभं भोजनाच्छादनं भवेत् । परेच्छया च दिग्वासाः स्नानं कुर्यात्परेच्छया ॥४॥ स्वप्नेऽपि यो युक्तः स्याज्जाग्रतीव विशेषतः । ईदृक्चेष्टः स्मृतः श्रेष्ठो वरिष्ठो ब्रह्मवादिनाम् ॥५॥ अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥६॥ अभिपूजितलाभांश्च जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि बध्यते ॥७॥ प्राणयात्रानिमित्तं च व्यङ्गारे भुक्तवज्जने । काले प्रशस्ते वर्णानां भिक्षार्थं पर्यटेद्गृहान् ॥८॥ पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् । तिष्ठन्भुञ्ज्याच्चरन्भुञ्ज्यान्मध्येनाचमनं तथा ॥९॥ अब्धिवद्धृतमर्यादा भवन्ति विशादाशयाः । नियतिं न विमुञ्चन्ति महान्तो भास्करा एव ॥१०॥ आस्येन तु यदाहारं गोवन्मृगयते मुनिः । तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते ॥११॥ अनिन्द्यं वै व्रजन्गेहं निन्द्यं गेहं तु वर्जयेत् । अनावृते विशेद्द्वारि गेहे नैवावृते व्रजेत् ॥१२॥ पांसुना च प्रतिच्छन्नशून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥१३॥ यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः । यथालब्धोपजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥१४॥ निष्क्रम्य वनमास्थाय ज्ञानयज्ञो जितेन्द्रियः । कालकाङ्क्षी चरन्नेव ब्रह्मभूयाय कल्पते ॥१५॥ अभयं सर्वभूतेभ्यो दत्त्वा चरति यो मुनिः । न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ॥१६॥ निर्मानश्चानहङ्कारो निर्द्वन्द्वश्छिन्नसंशयः । नैव क्रुध्यति न द्वेष्टि नानृतं भाषते गिरा ॥१७॥ पुण्यायतनचारी च भूतानामविहिंसकः । काले प्राप्ते भवद्भैक्षं कल्प्यते ब्रह्मभूयसे ॥१८॥ वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित् । अज्ञातचर्यां लिप्सेत न चैनं हर्ष आविशेत् ॥१९॥ अध्वा सूर्येण निर्दिष्टः कीटवद्विचरेन्महीम् । आशीर्युक्तानि कर्माणि हिंसायुक्तानि यानि च ॥२०॥ लोकसंग्रहयुक्तानि नैव कुर्यान्न कारयेत् । नासच्छात्रेषु सज्जेत नोपजीवेत जीविकाम् । अतिवादांस्त्यजेत्तर्कान्पक्षं कञ्चन नाश्रयेत् ॥२१॥ न शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भानारभेत्क्वचित् ॥२२॥ अव्यक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्तबालवत् । कविर्मूकवदात्मानं तद्दृष्ट्या दर्शयेन्नृणाम् ॥२३॥ न कुर्यान्न वदेत्किञ्चिन्न ध्यायेत्साध्वसाधु वा । आत्मारामोऽनया वृत्त्या विचरेज्जडवन्मुनिः ॥२४॥ एकश्चरेन्महीमेतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरतिरात्मवान्समदर्शनः ॥२५॥ बुधो बालकवत्क्रीडेत्कुशलो जडवच्चरेत् । वदेदुन्मत्तवद्विद्वान् गोचर्यां नैगमश्चरेत् ॥२६॥ क्षिप्रोऽवमानितोऽसद्भिः प्रलब्धोऽसूयितोऽपि वा । ताडितः संनिरुद्धो वा वृत्त्या वा परिहापितः ॥२७॥ विष्ठितो मूत्रितो वाज्ञैर्बहुधैवं प्रकम्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् ॥२८॥ संमाननं परां हानिं योगर्द्धेः कुरुते यतः । जनेनावमतो योगी योगसिद्धिं च विन्दति ॥२९॥ तथा चरेत वै योगी सतां धर्ममदूषयन् । जना यथावमन्येरन्गच्छेयुर्नैव सङ्गतिम् ॥३०॥ जरायुजाण्डजादीनां वाङ्मनःकायकर्मभिः । युक्तः कुर्वीत न द्रोहं सर्वसङ्गांश्च वर्जयेत् ॥३१॥ कामक्रोधौ तथा दर्पलोभमोहादयश्च ये । तांस्तु दोषान्परित्यज्य परिव्राड् भयवर्जितः ॥३२॥ भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥३३॥ काषायवासाः सततं ध्यानयोगपरायणः । ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपि वा ॥३४॥ भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् । चित्तशुद्धिर्भवेद्यावत्तावन्नित्यं चरेत्सुधीः ॥३५॥ ततः प्रव्रज्य शुद्धात्मा संचरेद्यत्र कुत्रचित् । बहिरन्तश्च सर्वत्र संपश्यन्हि जनार्दनम् ॥३६॥ सर्वत्र विचरेन्मौनी वायुवद्वीतकल्मषः । समदुःखसुखः क्षान्तो हस्तप्राप्तं च भक्षयेत् ॥३७॥ निर्वैरेण समं पश्यन्द्विजगोश्वमृगादिषु । भावयन्मनसा विष्णुं परमात्मानमीश्वरम् ॥३८॥ चिन्मयं परमानन्दं ब्रह्मैवाहमिति स्मरन् । ज्ञात्वैवं मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा आशाम्बरधरो भूत्वा सर्वदा मनोवाक्कायकर्मभिः सर्वसंसारमुत्सृज्य प्रपञ्चावाङ्मुखः स्वरूपानुसन्धानेन भ्रमरकीटन्यायेन मुक्तो भवतीत्युपनिषत् ॥
इति पञ्चमोपदेशः ॥५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T12:47:05.6530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Abbe refractometer

  • ऍबेचा अवर्तनांकमापी 
  • ऍबी अपवर्तनांकमापी 
  • Chem.(an instrument for measuring directly the refractive index,as of oils etc.) ऍबी अपवर्तनांकमापी 
RANDOM WORD

Did you know?

पत्नीला अर्धांगिनी कां म्हणतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site